________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व
सर्वेऽन्येऽप्यासनकम्पाद्, विज्ञातस्वामिकेवलाः । अहम्पूर्विकयेवेयुः, सममिन्द्रा जिनान्तिके ॥ ३५४ ॥ क्षेत्रे योजनमात्रे च देवा वायुकुमारकाः । अपनिन्युः शर्करादि, ते यदत्राऽधिकारिणः ।। ३५५ ॥ तत्र गन्धाम्बुवृष्टिं च, सुरा मेघकुमारकाः । रजोमात्रप्रशमनीं, शरदृष्टिनिभां व्यधुः ॥ ३५६ ॥ स्वर्ण-रत्नशिलास्तोमैर्मसृणैस्तन्महीतलम् । बबन्धुर्बन्धुरतरं, चैत्यमध्यमिवामराः ॥ ३५७ ॥ मेराणि जानुदशानि, पञ्चवर्णान्यृर्तुश्रियः । ववृषुस्तत्र पुष्पाणि, प्रत्यूषपवना इव ॥ ३५८ ॥ अन्तः कृत्वा मणिस्तूपं, परितस्तमधो व्यधुः । रौप्यं भवनपतयो, वप्रं रैकैंपिशीर्षकम् ॥ ३५९ ॥ वनं द्वितीयं ज्योतिष्काः, सरत्नकपिशीर्षकम् । विदधुः काञ्चनैरात्मज्योतिर्भिरिव पिण्डितैः ॥ ३६० ॥ प्राकारं चोपरितनं, वैमानिकदिवौकसः । रत्तैर्विरचयाञ्च कुर्माणिक्यकपिशीर्षकम् ।। ३६१ ॥
व वप्रे च चत्वारि, जगत्यामित्र जज्ञिरे । मनोविश्रामधामानि, चारुद्वाराणि तत्र च ॥ ३६२ ॥ 10 पत्रैर्मारकतैरासन्, द्वारे द्वारे च तोरणाः । अम्बरे विचरच्चारुश्रेणीभूतशुकोपमाः ॥ ३६३ ॥
सोरणानुभयतश्च, कुम्भा मुखकृताम्बुजाः । न्यास्यन्त सिन्धूरभितश्चक्रा इव दिनात्यये ॥ ३६४ ॥ द्वारे द्वारेऽभवद् वापी, काञ्चनाम्भोजशालिनी । स्वच्छ खादुपयः पूर्णा, मङ्गल्यकलशोपमा ।। ३६५ ॥ धूपघट्यः प्रतिद्वारं, हैम्यो मुमुचिरेऽमरैः । धूपधूमैर्मारकतांस्तन्वन्त्यस्तोरणानिव ॥ ३६६ ॥ प्राकारे मध्यमे पूर्वोदीच्यां दिशि दिवौकसः । देवच्छन्दं विदधिरे, स्वामिविश्रामहेतवे ॥ ३६७ ॥ 15 तृतीयवप्रमध्योन्या, चैत्यदुं व्यन्तरा व्यधुः । चतुर्दशधनुःशत्याऽधिकां गव्यूतिमुन्नतम् ॥ ३६८ ॥ ततः सिंहासनं देवच्छन्दकं चामरे अपि । छत्रत्रयं च रुचिरं चक्रिरे व्यन्तरामराः ॥ ३६९ ॥ इत्थङ्कारं च समवसरणं विदधेऽमरैः । भवत्रस्तैकशरणं, हरणं निखिलापदाम् ॥ ३७० ॥
5
१९६
ततो जयजयारावकारिभिर्मागधैरिव । अमरैः कोटिसङ्ख्यातैः परितः परिवारितः ॥ ३७१ ॥ सुरसञ्चार्यमाणेषु, सौवर्णेष्वम्बुजन्मसु । नवसु क्रमशो न्यस्य, पादाम्भोजे जगत्पतिः ॥ ३७२ ॥ 20 प्रविश्य पूर्वद्वारेण, चैत्यवृक्षप्रदक्षिणाम् । चकाराऽऽवश्यकविधिर्ह्यलड्यो महतामपि ॥ ३७३ ॥ नमस्तीर्थायेति गिरा, कृत्वा तीर्थनमस्क्रियाम् । तत्र सिंहासने पूर्वाभिमुखो न्यषदत् प्रभुः ॥ ३७४ ॥ स्वामिनः प्रतिरूपाणि, दिक्ष्वन्यास्वपि तत्क्षणम् । विचक्रुर्व्यन्तरास्ते हि शेषकर्माधिकारिणः ॥ ३७५ ॥ स्वामिरूपानुरूपाणि, तान्यासंस्तत्प्रभावतः । तादृशि स्वामिबिम्बानि, न ते कर्तुं स्वयं क्षमाः ॥ ३७६ ॥ पृष्ठे भामण्डलं धर्मचक्र - शक्रध्वजौ पुरः । दिवि दुन्दुभिनादव, प्रादुरासंस्तदा क्षणात् ॥ ३७७ ॥ 25 पूर्वद्वाराऽविशन् साधु-साध्वी वैमानिकस्त्रियः । त्रिश्च प्रदक्षिणीकृत्य, नेमुस्त्रिभुवनेश्वरम् ॥ ३७८ ॥ पूर्वदक्षिणदिश्यासाञ्चक्रिरे तत्र साधवः । तत्पृष्ठे तस्थुरूर्द्धास्तु, वैमानिक्योऽथ संयताः ॥ ३७९ ।। अपारद्वारैत्य भवनेश- ज्योतिर्व्यन्तरस्त्रियः । प्रभुं प्रदक्षिणीकृत्योर्द्ध नैर्ऋत्यां क्रमात् स्थिताः || ३८० ॥ प्रत्यैग्द्वारैत्य भवनेश- ज्योतिर्व्यन्तराः प्रभुम् । नत्वा प्रदक्षिणापूर्व, वायव्ये न्यषदन् क्रमात् ॥ ३८९ ॥ प्रविश्योदीच्यद्वारेण, सेन्द्रा वैमानिकाः प्रभुम् । नत्वा प्रदक्षिणापूर्वमैशान्यां न्यषदन् क्रमात् ॥ ३८२ ॥ नाथं भूयो नमस्कृत्य, शो विरचिताञ्जलिः । भक्त्या रोमाञ्चितवपुः स्तोतुमित्युपचक्रमे ॥ ३८३ ॥ सर्वाभिमुख्यतो नाथ !, तीर्थकृन्नामकर्मजात् । सर्वेषां सम्मुखीनस्त्वमानन्दयसि यत् प्रजाः || ३८४ ॥ यद् योजनप्रमाणेऽपि, धर्मदेशनसद्मनि । सम्मान्ति कोटिशस्तिर्यग्नू - देवाः सपरिच्छदाः || ३८५ ॥ तेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं, यत् ते धर्मावबोधकृत् ॥ ३८६ ॥ साग्रेऽपि योजनशते, पूर्वोत्पन्ना गेंदाम्बुदाः । यदञ्जसा विलीयन्ते, त्वद्विहारानिलोर्मिभिः ॥ ३८७ ॥
30
१ खिग्धैः । २ विकसितानि । ३ जानुप्रमाणानि । ४ ऋत्वधिष्ठायिका देव्यः । ५ मणिपीठम् । ६ सुवर्णमयकपिशीर्षकम् । ७ जम्बूद्वीपस्य दुर्गे । ८ नदीः । ९ पद्मेषु । १० साय्यः । ११ दक्षिणद्वारेण । १२ पश्चिमद्वारेण । १३ व्याधय एव मेघाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org