________________
वृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । एकदा मासिकं च द्विमासिकं च त्रिमासिकम् । चतुः-पञ्च-षण्मासिकान्यप्यथो सप्तमासिकम् ॥ ३२२ ॥ तपोऽष्टमासिकं यावद्, भगवानजितप्रभुः । विदधे विहरनार्यदेशेष्वक्षीणशक्तिकः ।। ३२३ ॥
॥ चतुर्भिः कलापकम् ॥ ललाटन्तपतपनातपे ग्रीष्मऋतावपि । नाऽऽचकास तरुच्छायामपि देहेऽपि निःस्पृहः ॥ ३२४ ॥ पतत्तुहिनसम्भारप्लुष्यमाणतरावपि । हेमन्तौ प्रभुनैच्छद्, दीप्तपित्त इवाऽऽतपम् ॥ ३२५ ॥ झञ्झानिलोल्वणैर्धारासारैरपि पयोमुचाम् । मतङ्गजो वारिचर, इव नोद्विविजे विभुः ॥ ३२६ ।। परीषहानेवमन्यानपि सेहे सुदुःसहान् । सर्वसहो धरणिवद्, धरणीतिलकः प्रभुः ॥ ३२७ ॥ उग्रैस्तपोभिर्विविधैर्विविधाभिग्रहैरपि । परीपहसहोऽब्दानि, द्वादशाऽलङ्घयत् प्रभुः ॥ ३२८ ॥ खडीव स्वाम्यनासीनः, खनिशङ्गमिवैककः । समेरुरिव निष्कम्पः, पञ्चानन वाऽभयः॥ ३२९ ॥ वायुरिवाऽप्रतिबद्धो. भुजङ्गम इवैकहक । वह्निना काञ्चनमिव, तपसाऽतिशयानरुक ॥३३०॥ 10 वृतिभिर्वरशाखीव, तिसृभिर्गुप्तिभिर्वृतः । समितीः पञ्च बिभ्राणो, धन्वी हस्त(स्ते) शरानिव ॥ ३३१॥ आज्ञा-ऽपाय-विपाकानां, संस्थानस्य च चिन्तनात् । ध्यायंश्चतुर्विधं ध्येयं, ध्येयरूपः स्वयं विभुः ॥३३२॥ प्रतिग्रामं प्रतिपुरं, प्रत्यरण्यं च पर्यटन् । समाययावुपवनं, सहस्राम्रवणं क्रमात् ॥ ३३३ ॥
॥पञ्चभिः कुलकम् ॥ तत्र च्छत्रायमाणस्य, सप्तच्छदतरोस्तले । तत्प्रकाण्डमिवाऽकम्पस्तस्थौ प्रतिमया प्रभुः ॥ ३३४॥ 15 अप्रमत्तसंयताख्यगुणस्थानात् तदा विभुः । अपूर्वकरणं भेजे, गुणस्थानकमष्टमम् ॥ ३३५ ॥ श्रौतादाद् व्रजन् शब्द, शब्दादर्थं व्रजन् ययौ । नानात्वश्रुतवीचारं, शुक्लध्यानमथाऽऽदिमम् ॥३३६॥ अनिवृत्तिबादराख्यं, परिणामानिवृत्तिकृत् । आरुरोह गुणस्थानं, ततश्च नवमं विभुः ॥ ३३७ ॥ अथ लोभकषायस्य, किट्टीकरणतो ययौ । सूक्ष्मसम्परायं नाम, गुणस्थानं नवोत्तरम् ॥ ३३८ ॥ अनन्तवीर्यस्त्रिजगत्सर्वकर्मक्षयक्षमः । क्षीणमोहं गुणस्थानं, प्राप मोहस्य सङ्गयात् ॥ ३३९ ॥ गुणस्थानस्य चैतस्य, द्वादशस्यान्तिमे क्षणे । एकत्वश्रुतमीशोऽगाच्छुक्लध्यानं द्वितीयकम् ॥ ३४०॥ त्रिजगद्विषयं ध्यानेनाऽमुनाऽणो दधौ मनः । सर्वाङ्गीणं विषं दंशे, मत्रेणेव जगत्प्रभुः ॥ ३४१॥ अपनीतेन्धनभरः, शेषस्तोकेन्धनोऽनलः । ज्वलितो निर्वाति यथा, निर्वाणं तन्मनस्तथा ॥ ३४२ ॥ ततश्च तस्मिन् ध्यानाग्नौ, दीप्यमाने जिनेशितुः । हिमानीव व्यलीयन्त, घातिकर्माणि सर्वतः ॥३४३ ॥ अथ पौषस्य शुक्लैकादश्यां चन्द्रेऽधिरोहिणि । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्वलम् ॥ ३४४॥ 25 ईक्षाञ्चके जगन्नाथस्त्रिकालविषयानपि । त्रैलोक्यवर्तिनो भावान् , करोत्सङ्गगतानिव ॥ ३४५॥
उत्पन्ने स्वामिनो ज्ञाने, स्वाम्यवज्ञाभयादिव । सौधर्माधिपतेः सद्यः, सिंहासनमकम्पत ॥ ३४६॥ तत्कारणज्ञानकृते, प्रायुत मघवाऽवधिम् । रज्जु जलाशयपयोमानं ज्ञातुमना इव ॥ ३४७ ॥ खामिनः केवलज्ञानमुत्पन्नमिति वासवः । अज्ञासीदवधिज्ञानाद्, दीपालोकात् पदार्थवत् ॥ ३४८ ॥ रत्नसिंहासनं रत्नपादुके च पुरन्दरः । उज्झाञ्चकार बलवत् , स्वाम्यवज्ञाभयं सताम् ॥ ३४९॥ 30 ददौ पदानि सप्ताऽष्टान्यहदिवसम्मुखं हरिः । गीतार्थः शिष्य इवाऽनुज्ञापितावग्रहावनौ ॥ ३५० ॥ सव्यं किश्चिन्यश्य जानु, दक्षिणेन च जानुना। पाणिभ्यां शिरसा च क्ष्मां, स्पृशन्ननमदद्रिभिँत् ॥३५१॥ समुत्थाय व्यपक्रम्य, भूयोऽपि बलेसूदनः । सिंहासनमलञ्चके, गिरीन्द्रमिव केसरी ॥ ३५२ ॥ पुरुहूतः समाहूताशेषदेवः क्षणादपि । ऋद्ध्या महत्या भक्त्येव, जिनेन्द्राभ्यर्णमाययौ ॥ ३५३ ॥
* सङ्घ ३ एव वर्त्तते । १ सूर्यः। २ हस्ती। ३ वृक्षकाण्डम् । ४ दशममित्यर्थः। ५ दंशस्थाने। ६ शान्तम् । ७ हस्तमध्यगतान् । ८-९ इन्द्रः।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org