________________
१९४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व वेलाविलोलजलधिध्वानधीरध्वनिस्तथा । दध्वान दुन्दुभिर्कोम्नि, सानन्दामरताडितः ॥ २९२ ॥ पर्यटत्स्वामियशसां, खेदवारिभ्रमप्रदाम् । तत्र गन्धाम्बुवृष्टिं च, त्रिविष्टपसदो व्यधुः ॥ २९३ ॥ अन्वीयमानां परितो, मित्रैरिव मधुव्रतैः । पञ्चवर्णपुष्पवृष्टिं, विदधुर्विबुधोत्तमाः ॥ २९४ ॥
अहो ! दानं महादानं, सुदानमिदमस्य हि । प्रभावात् तत्क्षणं दाता, भवत्यतुलवैभवः ॥ २९५ ॥ 5 मुच्यते च भवेऽत्रैव, कश्चित् कश्चित् तृतीयके । द्वितीये कल्पातीतेषु, कल्पेषत्पद्यतेऽथवा ॥ २९६ ॥ एवं कोलाहलं व्योग्नि, चक्रुर्मुदितचेतसः । दिवौकसो जयजयारावपूर्वकमुच्चकैः ॥ २९७ ॥
॥ त्रिभिर्विशेषकम् ॥ दीयमानां प्रभोभिक्षां, ये प्रेक्षाश्चक्रिरे जनाः। नीरोगास्ते समभवन् , वपुषा निर्जरा इव ॥ २९८ ॥
ब्रह्मदत्तनृपगृहाद् , भगवान् कृतपारणः । वारणः सरसः पीतपानीय इव निर्ययौ ॥ २९९ ॥ 10 मास कश्चिदतिक्रामत् , पदानीति प्रभोः पदे । ब्रह्मदत्तनृपस्तत्र, पीठं रत्नैरकारयत् ॥ ३०॥
ब्रह्मदत्तनृपः पीठं, त्रिसन्ध्यं कुसुमादिभिः । पूजयामास तत्रस्थं, मन्यमानो जिनेश्वरम् ॥ ३०१॥ चर्चा-कुसुम-चत्राद्यैः, पीठे तसिन्नपूजिते । आत्तवेल इव स्वामिन्यभुक्ते न ह्यभुक्त च ॥ ३०२ ॥ भगवानप्रतिबद्धगमनः पेवमानवत् । अखण्डितेर्यासमितिर्विजहार वसुन्धराम् ॥ ३०३॥ प्रतिलाभ्यमानः क्वचित् , प्रासुकैः पायसादिभिः । चय॑मानपदाम्भोजः, क्वाऽपि हृद्यैर्विलेपनैः॥३०४॥ प्रतीक्ष्यमाणः कुत्रापि, श्राद्धवन्दारुदारकैः । अन्वीयमानः कुत्रापि, दर्शनातृप्तिभिर्जनैः ॥ ३०५॥ लोकैः क्वचित् क्रियमाणवस्त्रोत्तारणमङ्गलः । कुत्रचिद् दीयमानापों, दधि-दूर्वा-ऽक्षतादिभिः ॥ ३०६ ॥ खवेश्मनयनायोपरोध्यमानः क्वचिजनैः । क्वाऽपि भूलुठनागच्छजनेन प्रस्खलद्गतिः ॥ ३०७॥ मृज्यमानपदाम्भोजः, श्राद्धैः क्वापि शिरोरुहैः । आदेशं याच्यमानश्च, मुग्धधीभिः क्वचिजनैः ॥३०८॥ निर्ग्रन्थो निर्ममोऽनीहः, स्वामी ग्रामान् पुराणि च । तीर्थीकुर्वन् स्वसंसर्गाद्, विजहार वसुन्धराम् ॥३०९॥
॥ षड्भिः कुलकम् ॥ घूकघूत्कारपोरेषु, स्फारफेत्कारफेरूँषु । फणिफूत्काररौद्रेषु, माघदुत्कोशदोतुषु ॥ ३१० ॥ रटढुककरालेषु, चमूरूत्क्रूरवृत्तिषु । शार्दूलकुलबूंत्कारप्रकारप्रतिनादिषु ॥ ३११ ॥ महेभभज्यमानदुविद्रुतद्रोणराविषु । सिंहपुच्छच्छटाच्छोटस्फोट्यमानाश्मभूमिषु ॥ ३१२ ॥ शैरभोस्पिष्टदन्तीन्द्रकीकसाकुलवर्त्मसु । मृगयाव्यग्रशवरधनुर्नादानुनादिषु ।। ३१३ ।। भटककर्णग्रहणव्यग्रभिल्लाभकेषु च । अन्योऽन्यतरुशाखाग्रसङ्घर्षोंच्छलदग्निषु ॥ ३१४ ॥ महागिरि-महारण्येष्वपि ग्राम-पुरेष्विव । निष्प्रकम्पमनाः कामं, व्यहादिजितप्रभुः ॥ ३१५ ॥
॥षड्भिः कुलकम् ॥ भूतलालोकमात्रेण, जायमानजनभ्रमौ । कदाचन गिरेम॒नि, शृङ्गान्तरमिव स्थिरः ॥ ३१६ ॥ उत्फालमर्कटकुलभज्यमानास्थिसन्धिनि । कदाचन महासिन्धुरोधःसीमनि वृक्षवत् ॥ ३१७ ॥ क्रीडदुत्तालवेताल-पिशाच-प्रेतसङ्घले । वात्यावर्तितधूलीके, श्मशाने च कदाचन ॥ ३१८ ॥ रौद्रेभ्योऽपि हि रौद्रेषु, स्थानेष्वन्येष्वपि प्रभुः । कायोत्सर्ग निसर्गकधीरो व्यधित लीलया ॥ ३१९ ॥
॥ चतुर्भिः कलापकम् ॥ तपश्चतुर्थ कदाचित्, तपः षष्ठं कदाचन । तपोऽष्टमं कदाचिच, कदापि दशमं तपः ॥ ३२० ॥ अन्यदा द्वादशतपश्चतुर्दशतपोऽन्यदा । अन्यदा पोडशतपस्तपोऽष्टादशमन्यदा ॥ ३२१ ॥
देवाः । २ भ्रमरैः । ३ गजः। ४ प्रतीक्षमाणः। ५ वायुवत्। ६ श्रावकाणां वन्दनशीलैः पुत्रैः। ७ शृगालः। ८बिडाला। ९ मृगविशेषः।। गर्जना।" उडीनः। १२ काकः । १३ अष्टापदः । १४ अस्ति । १५ ऋक्षः। १६ अन्यच्छिखरमिव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org