________________
तृतीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
१९३
सायाहन्यजितखामी, मुष्टिभिः पञ्चभिः कचान् । स्वयमुत्पाटयामास, रागादीनिव सर्वतः ।। २५९ ॥
॥ युग्मम् ॥
सौधर्मेन्द्रः प्रतीयेष, खोत्तरीयाञ्चलेन तान् । प्रसाददत्तार्थमित्र, पुष्कलं वरिवस्यकः ॥ २६० ॥ सहस्राक्षः क्षणेनाऽपि, स्वामिनस्तान् शिरोरुहान् । क्षीरोदे प्राक्षिपत् पूजामिव सांयात्रिकः स्वयम् ॥२६१ ॥ वेगात् तुमुलं, सुरा- सुर-नृणां हरिः । न्यषेधन्मुष्टिसंज्ञातो, मौनमन्त्रमिव स्मरन् ॥ २६२ ॥ कृत्वा सिद्धनमस्कारं, सामायिकमुदीरयन् । प्रभुचारित्रमारोहन्मोक्षमार्गमहारथम् ॥ २६३ ॥ सोदर्यमिव दीक्षाया, युग्मजातं तदैव हि । ज्ञानं तुरीयमुत्पेदे, मनःपर्ययमीशितुः ॥ २६४ ॥ अपि नारकजन्तूनां, क्षणं सुखमभूत् तदा । जगत्रये च प्रद्योत, उद्योत इव वैद्युतः ॥ २६५ ॥ नृपाः सहस्रं जगृहुस्ततो दीक्षामनुप्रभु । खामिपादानुगमनवतानामुचितं ह्यदः ॥ २६६ ॥
अथ प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । एवमारेभिरे स्तोतुमच्युताद्याः पुरन्दराः ॥ २६७ ॥ पदभ्यासाद्रैः पूर्व, तथा वैराग्यमाहरः । यथेहजन्मन्याजन्म, तत् सात्मीभावमागमत् ॥ २६८ ॥ दुःखहेतुषु वैराग्यं, न तथा नाथ ! र्निस्तुषम् । मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ॥ २६९ ॥ विवेकशाणैर्वैराग्यशस्त्रं शातं तथा त्वया । यथा मोक्षेऽपि तत् साक्षादकुण्ठितपराक्रमम् ॥ २७० ॥ यदा मैरुन्नरेन्द्र श्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥ २७९ ॥ नित्यं विरक्तः कामेभ्यो, यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं, तदा वैराग्यमस्ति ते ॥ २७२ ॥ 15 सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति, कुत्र नाऽसि विरागवान् १ ॥ २७३ ॥ दुःखगर्भे मोहगर्भे, वैराग्ये निष्ठिताः परे । ज्ञानगर्भ तु वैराग्यं, त्वय्येकायनतां गतम् ॥ २७४ ॥ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे । नमो वैराग्यनिनाय, तायिने परमात्मने ॥ २७५ ॥
Jain Education International
5
20
जगद्गुरुमिति स्तुत्वा, नमस्कृत्य च सामराः । तेऽमरखामिनो जग्मुद्वीपं नन्दीश्वरं ततः ॥ २७६ ॥ जन्माभिषेकवत् तत्र, पर्वतेष्वञ्जनादिषु । शाश्वतार्हत्प्रतिमाष्टाह्निकां शक्रादयो व्यधुः ॥ २७७ ॥ नाथं कदा नुं भूयोऽपि द्रक्ष्याम इति वादिनः । सदेवा देवपतयः स्वं खं स्थानं ततो ययुः ॥ २७८ ॥ सगरोऽपि सभूपालः, प्रणम्य परमेश्वरम् । कृताञ्जलिर्गद्गदवागिति स्तोतुं प्रचक्रमे ॥ २७९ ॥ भगवन्नजितस्वामिन्!, विजयस्व जगद्गुरो ! । त्रैलोक्यपद्मिनीखण्ड विकासनदिवाकर ! ॥ २८० ॥ मति श्रुताऽवधि-मनः पर्ययैर्नाथ ! शोभसे । ज्ञानैश्चतुर्भिरुदामैरणवैरिव मेदिनी ।। २८१ ॥ त्वं याsपि कर्माणि, प्रोन्मूलयितुमीशिषे । अयं परिकरस्ते तु लोकानां मार्गदर्शकः ॥ २८२ ॥ भगवन्भन्तरात्मा त्वं, मन्येऽहं सर्वदेहिनाम् । तेषामद्वैत सौख्याय, यतसे कथमन्यथा १ ॥ २८३ ॥ हित्वा कषायान् मलवत्, कृपाजलपरिप्लुतः । त्वमेवाऽसि विशुद्धात्मा, निर्लेपः पद्मपत्रवत् ॥ २८४ ॥ राज्येऽपि न्यायनिष्ठस्य, न खो न च परस्तव । प्राप्तावसरमेतत् तेऽधुना साम्यं किमुच्यते १ ॥ २८५ ॥ वितर्कयामि भगवन् !, दानं यद् वार्षिकं तव । त्रैलोक्याभयदानोरुनाटकस्याऽऽमुखं हि तत् ॥ २८६ ॥ धन्यास्ते विषया ग्रामा, नगर्यः पत्तनानि च । मलयानिलवद् यानि, प्रीणयन् विहरिष्यसे ॥ २८७ ॥ 30 स्तुत्वेति खामिनं राजा, नमस्कृत्य च भक्तितः । मन्दं मन्दं ययौ बाष्पक्लिन्ननेत्रो निजां पुरीम् ॥२८८॥ द्वितीयस्मिन् दिने स्वामी, ब्रह्मदत्तनृपौकसि । चकार षष्ठतपसः परमानेन पारणम् ॥ २८९ ॥ ववृषुस्त्रिदशाः सार्धस्वर्णद्वादशकोटिकाम् । वसुधारां ब्रह्मदत्तनरेश्वरगृहाङ्गणे ॥ २९० ॥ उन्नमद्वाहवलाञ्चलानुच्चिक्षिपुः सुराः । अनिलान्दोलितलतापल्लव श्रीमलिम्लुचान् ॥ २९९ ॥
७ अति
१ जग्राह । २ सेवकः । ३ सहजातम् । ४ उज्वलम् । ५ तीक्ष्णीकृतम् । ६ देवेन्द्राणां राज्ञां च श्रीः । ८. वैराग्याधीनाय । ९ रक्षित्रे । १० वितर्के । ११ क्रीडामात्रेण । १२ उपकरणम् । १३ प्रस्तावना ।
शयितम् ।
For Private & Personal Use Only
10
25
www.jainelibrary.org