________________
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व
अञ्चलांचालयामासुः, काश्चिच्चामरलीलया । लाजान् प्रचिक्षिपुः काचिद्धर्मवीजमिवाऽवनौ ॥ २२७ ॥ आरात्रिकं सप्तशिखं, काचिद् वह्निमिवोद्दधुः । पूर्णपात्राण्यधुः काचिद्, यशांसीव पुरः प्रभोः ॥ २२८ ॥ पूर्णकुम्भान् दधुः काश्चिन्मङ्गलानां निधीनिव । खे सन्ध्याभ्रनिभं चक्रुः, काश्चिद् वस्त्रावतारणम् ॥ २२९ ॥ मङ्गलानि जगुः काश्चिन्नृत्यन्ति स्म च काश्चन । रुचिरं जहसुः काचिन्मुदिताः परयोषितः ॥ २३० ॥ ॥ चतुर्भिः कलापकम् ॥ व्योमापि व्यानशे भक्तैर्विद्याधर- सुरासुरैः । इतस्ततो धावमानैः, सौंपगेंयकुलैरिव ॥ २३१ ॥ इन्द्राणां च चतुःषष्टेर्नाट्यानी कैरनेकशः । नाटकान्यभ्यनीयन्त, स्वाम्यग्रे धन्यमानिभिः ॥ २३२ ॥ सङ्गीतकानि गन्धर्वसैन्या अपि बिडौजसाम् । ओजायमाना युगपञ्जायमानमुदो व्यधुः ॥ २३३ ॥ सगरानुजीविनोऽपि, जयाजीवाः पदे पदे । पात्रैर्विचित्रैर्नाट्यानि, दिविषत्स्पर्धया व्यधुः ॥ २३४ ॥ अयोध्यामण्डनं राजगन्धर्वरमणीजनाः । विश्वदृग्दृष्टिबन्ध (न) न्ति, प्रेक्षणीयानि चक्रिरे ॥ २३५ ॥ तदा च दिव्यै भौमैच, नाट्य-सङ्गीतकखरैः । रोदः कुक्षिम्भरिरभूदुत्तालस्तुमुलध्वनिः ॥ २३६ ॥ अनेकनृप - सामन्त- महेभ्यानां प्रचारिणाम् । सम्मर्दत्रुटितैहरैरासन् शर्करिला भुवः ॥ २३७ ॥ दिव्यानामथ भौमानां, मत्तानां वरदन्तिनाम् । मदाम्भोभिरजायन्त, राजमार्गाश्च पङ्किलाः ॥ २३८ ॥ सुरासुर - नरैः सर्वैर्मिलितैः स्वामिनोऽन्तिके । एकाधीशतया रेजे, त्रिलोक्यप्येकलोकवत् ॥ २३९ ॥ 15 अत्यन्तदक्षिणो लोकदाक्षिण्येन जगत्पतिः । प्रतीयेष निरीहोऽपि मङ्गलानि पदे पदे ।। २४० ॥ सम्भूय गच्छतस्तत्र, सुरानपि नरानपि । समप्रसादया दृष्ट्याऽनुजग्राह जगद्गुरुः ॥ २४९ ॥ सुरासुर-नरैरेवं क्रियमाणमहोत्सवः । सहस्राम्रवणं नाम, प्रापोद्यानं क्रमात् प्रभुः ।। २४२ ।। कुसुमामोदमत्तालिश्रेणिदुःसञ्चरान्तरैः । परितः कृतवृतिकं, सन्ततैः केतकीदुमैः ॥ २४३ ॥ aण्ठैरिव महेभ्यानां, नागराणां कुमारकैः । रिरंसुभिर्मार्ज्यमानमहीरुहलतान्तरम् ॥ २४४ ॥ 20 मुहुः कुरुबका--शोक-बकुलाद्मिहीरुहाम् । क्रीडाप्रसङ्गात् पौरीभिः पूर्यमाणोरुदोहदम् ॥ २४५ ॥ विद्याधरकुमारैश्थ, निषद्य पथिकैरिव । आचम्यमानसुखादुसारणीवारि कौतुकात् ॥ २४६ ॥ अलिहेषु वृक्षेषु, कृतास्पदमनेकशः । क्रीडया खेचरद्वन्द्वैर्विहङ्गमिथुनैरिव ॥ २४७ ॥ परागैर्दिव्यकर्पूर-कस्तूरीक्षोदसोदरैः । अकर्कशैर्गुल्फदनैर्विश्वक्सिकतिलावनि ॥ २४८ ॥ राजादन-नागरङ्ग-करुणक्ष्मारुहां तले । दुग्धेनोद्यानपालीभिः पूर्यमाणालबालकम् ॥ २४९ ॥ विचित्रसन्दर्भविधौ, सस्पर्धाभिः परस्परम् । पुष्पैर्मालिंकवालाभिरारब्धोद्दामदामकम् ॥ २५० ॥ दिव्यतल्पा-ऽऽसनामत्रेष्वपि सत्सु कुतूहलात् । शयाना - Ssसीन भुञ्जानजनं रम्भादलेप्वलम् ॥ २५१ ॥ फलप्राग्भारभारावनम्रप्रालम्बमण्डलैः । चुम्ब्यमानावनितलं, विविधैरवनीरुहैः ॥ २५२ ॥ सहकाराङ्कुरास्वादादश्रान्तमवकोकिलम् । दाडिमाखादनोन्मत्तशुककोलाहलाकुलम् ॥ २५३ ॥ एकच्छायं क्षितिरुहैर्वर्षा त्रैरिव सन्ततैः । प्रविवेश तदुद्यानं, भगवानजितप्रभुः ॥ २५४ ॥ ॥ द्वादशभिः कुलकम् ॥
I
5
10
25
30
१९२
ततश्च शिबिकारलादुत्ततार जगद्गुरुः । रथादिव रथी सिन्धुमुत्तरीतुं भवं स्वयम् ।। २५५ ।। उज्झाञ्चकार तदनु, रत्नालङ्करणादिकम् । रत्नंत्रितयमादित्सुर्युसदामपि दुर्लभम् ।। २५६ ॥ देवदूष्यं देवराजेनोपनीतमदूषितम् । सोपधिं धर्ममादेष्टुं जगत्पतिरुपाददे ।। २५७ ॥ कृतषष्ठतपा माघस्योज्ज्वले नवमीदिने । रोहिणिऋक्षगे चन्द्रे, सप्तच्छदत रोम्तले ॥ २५८ ॥
१ गरुडसमूहैः । २ नर्तकाः । ३ शर्करायुक्ताः । ४ कृतवेष्टनम् । ५ विना वेतनेन कार्यकरा वष्टाः । ६ गुल्फप्रमाणैः । ७ माळाकारकन्याभिः । ८ अवष्टं कोकिलाभिः । ९ ज्ञानदर्शनचारित्ररूपम् । १० सवस्वमिति भावः ।
११ नक्षत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org