________________
सप्तभिः कुलकम् ॥ 15
तृतीयः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् ।
१९१ पवित्रितां स्वामिपादैर्मन्यमानोऽधिको दिवः । दिवस्पतिरुपेयाय, विनीतानगरी क्षणात् ॥ १९६ ॥ अन्येऽप्यासनकम्पेन, ज्ञात्वा दीक्षाक्षणं विभोः । सुरेन्द्रा असुरेन्द्राश्च, विनीतां तद्वदाययुः ॥१९७॥ तत्राऽच्युताद्या देवेन्द्रा, नरेन्द्राः सगरादयः। दीक्षाभिषेकं विदधुः, क्रमेण परमेशितुः ॥ १९८॥ वाससा देवदूष्येण, वपुः स्नानजलाविलम् । ममार्ज शको माणिक्यमिव वैकटिकाग्रणीः॥ १९९ ॥ गन्धकार इवाऽऽयुक्तो, वज्रपाणिः स्वपाणिना । चर्चयामास रुचिरैरङ्गरागैर्जगद्गुरुम् ॥२०॥ देवदूष्याण्यदूष्याणि, जगन्नाथेन तत्क्षणे । वासांसि वासयामास, वासवो वासनावसुः ॥ २०१॥ मुकुटं कुण्डले हारं, केयूरे कङ्कणे अपि । अपरानप्यलङ्कारान् , नाथेनाऽग्राहयद्धरिः ॥२०२॥ प्रसूनदामभिर्दिव्यैः, सनाथीकृतकुन्तलः । तृतीयेनेव नेत्रेण, तिलकेनालिके विभान् ॥ २०३॥ देवीभिर्दानवीभिश्व, मानवीभिश्च सर्वतः । विचित्रभाषामधुरं, गीतोपक्रान्तमङ्गलः ॥२०४॥ सतैरिव स्तूयमानः, सुरा-सुर-नरेश्वरैः । व्यन्तरैः कृतधूपाघः, स्वर्णधूपघटीधरैः ॥ २०५॥ सकुरण्टकेन श्वेतातपत्रेण महीयसा । विराजमानः शिरसि, इदेनेव हिमाचलः ॥ २०६ ॥ वीज्यमानोऽमरैश्चारुचामरैः पार्श्वयोर्द्वयोः । वेत्रिणेव विनीतेन, दत्तहस्तो बिडौजसा ॥ २०७॥ हर्ष-शोकविमूढेन, सगरेण महीभुजा । अनुकूलानिलेनेवाऽन्वीयमानोऽश्रुवर्षिणा ॥ २०८ ॥ परितः पावयन् पादैः, स्थलाम्भोजनिभैर्भुवम् । सहस्रवाह्यामारोहच्छिविकां सुप्रभां प्रभुः ॥ २०९ ॥ उदासे शिबिका पूर्व, नरैर्विद्याधरैस्ततः । देवैस्तदनु खे खेटविमानभ्रमदायिनी ॥ २१ ॥ तैरुत्क्षिप्ताऽम्बरतलेऽनुद्धातगतिशालिनी । यानपात्रमिवाऽम्भोधौ, सा स्वामिशिविका बभौ ॥ २११॥ तत्र सिंहासनासीनं, चामराभ्यां जगत्प्रभुम् । वीजयामासतुरुभौ, सौधर्मेशानवासवौ ॥ २१२ ॥ प्रचचाल जगन्नाथो, विनीतामध्यवर्त्मना । वरो वधूपाणिमिव, दीक्षामादातुमुत्सुकः ॥ २१३ ॥ चलन्तश्चलताडङ्काश्चलहाराश्चलाञ्चलाः । शिविकावाहिनो रेजुश्चलाः कल्पद्रुमा इव ॥ २१४ ॥ 20 काश्चन प्रस्खलन्तीषु, सदा सहचरीष्वपि । काश्चिद् वक्षःस्थलास्फालाद्धारेषु प्रत्रुटत्वपि ॥ २१५ ॥ अंसाद् विस्रंसमानेषत्तरीयेष्वपि काश्चन । काश्चिच्छ्न्यीभवबारेष्वपि गेहाङ्गणेषु च ॥ २१६ ॥ काश्चिद् देशान्तरादिष्टातिथिष्वभ्यागतेष्वपि । पुत्रजन्मोत्सवे सद्यः, समुत्पन्नेऽपि काचन ॥ २१७ ॥ काश्चित तत्कालमुद्वाहलग्नकालेऽप्युपस्थिते । काश्चन स्नानोपनतेष्वपि स्नानीयवस्तुषु ॥ २१८॥ गृहीताचमनाः काश्चिदर्धभुक्तेपि भोजने । काश्चिद|पयुक्तेऽपि, कालप्राप्ते विलेपने ॥ २१९॥ 25 कुण्डलादिष्वलङ्कारेष्वर्धामुक्तेषु काश्चन । स्वामिनिष्क्रमणोदन्तेऽर्धश्रुतेऽपि हि काश्चन ॥ २२०॥ धम्मिल्लान्तः काश्चिदर्धबद्धे कुसुमदामनि । अधिभालस्थलं काश्चित् , तिलकेऽर्धकृतेऽपि हि ॥ २२१ ॥ गृहकर्तव्यमत्रेषु, काश्चिदोदितेष्वपि । काश्चिदर्धकृतेष्वेव, नित्यनैमित्तिकेष्वपि ॥ २२२ ॥ सम्भ्रमात् पादचारेण, यानेषूपस्थितेष्वपि । उपेयुः स्वामिनं द्रष्टुं, पौर्यो भक्तिपवित्रिताः ॥ २२३ ॥
. ॥ नवभिः कुलकम् ॥ 30 क्षणमग्रे क्षणं पृष्ठे, क्षणं चोभयपार्श्वयोः । यूथपस्येव कलभाः, पौरास्तस्थुर्जगत्प्रभोः ॥ २२४ ॥ अष्ट्वानारुरुहुः केचित् , कुट्टिमानि च केचन । प्रासादापाणि केचित् तु, मञ्चाग्राणि च केचन ॥ २२५ ॥ केऽपि प्राकारशृङ्गाणि, केऽपि द्रुशिखराणि च । केऽप्युच्चैः सिन्धुरस्कन्धान , स्वामिदर्शनकाम्यया ॥२२६॥
॥ युग्मम् ॥ * षड्भिः कुलकम् सङ्घ सङ्घ ३॥ १ आर्द्रम् । २ मणिकारमुख्यः। ३ अदूषितानि । ४ धर्मरूपा वासना एव वसुर्यस्य सा। ५ ललाटे । ६ बन्दिजनैः। ७ इन्द्रेण । ८ देवविमानम् । ९ प्रतिघातवर्जितया गत्या राजमाना । १० चलकुण्डलाः। चलवक्षाबलाः १२ अर्धपरिहितेषु । १३ कबरीमध्ये । १४ गृहकार्यविचारेपु । १५ गजस्येव । १६ गजस्कन्धान ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org