________________
१९० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व ततो नरेश्वरवरः, सगरस्य महात्मनः । सधो राज्याभिषेकार्थमादिदेश नियोगिनः ॥ १६३ ॥ . अथाऽऽनीयत पानीयं, नानीयं तीर्थसम्भवम् । कुम्भैरम्भोरुहच्छन्नै घूभूतै दैरिव ॥ १६४ ॥ अभिषेकोपकरणद्रव्याण्यन्यान्यपि क्षणात् । व्यापारिभिरढौक्यन्त, प्राभृतानीव राजभिः ॥ १६५ ॥ प्रतापेष्विव मूर्तेषु, समायातेषु राजसु । आगतेषु च मन्त्रेणाऽतीन्द्रमत्रिषु मत्रिपु ।। १६६ ॥ उपेतेषु चमूपालेवाशापालेष्विवाऽऽज्ञया । मिलितेष्वेककालं च, हर्पोत्तालेषु बन्धुषु ॥ १६७ ॥ हस्त्यश्वसाधनाध्यक्षप्रभृतिष्वपरेष्वपि । उपस्थितेषु युगपदुत्थायैकगृहादिव ॥ १६८ ॥ शङ्खष्वापूर्यमाणेषु, नादनिर्झरसानुषु । आहतेषु मृदङ्गेषु, मेघसब्रह्मचारिषु ॥ १६९ ॥ कोणैराहन्यमानेषु, दुन्दुभिष्वानकेषु च । प्रतिशब्दैः सर्वदिशां, मङ्गलाध्यापकेष्विव ॥ १७० ॥
आस्फलत्सु मिथः कांस्यतालेषमिष्विवाऽम्बुधेः। झणझणायमानासु, झल्लरीषु च सर्वतः॥ १७१॥ 10 अपरेष्वपि तूर्येषु, पूर्यमाणेषु केषुचित् । केषुचित् ताड्यमानेष्वास्फाल्यमानेषु केपुचित् ॥ १७२ ॥
गन्धर्वेषु च गायत्सु, शुद्धगीतानि सुखरम् । आशिषो भाषमाणेषु, ब्रह्मवैतालिकादिषु ॥ १७३ ॥ सौस्तिकप्राग्रहरैरजितस्वामिशासनात् । राज्याभिषेको विधिवत्, सगरस्य व्यधीयत ॥ १७४ ॥
॥ नवभिः कुलकम् ।। प्रणेमुः सगरं सर्वे, नृप-सामन्त-मत्रिणः । उदयन्तमिवाऽऽदित्यमुद्यताञ्जलयो जनाः ॥ १७५ ॥ 15 उपेत्य पौरप्रवरा, वरोपायनपाणयः । भक्त्या तर्मुर्वीनेतारं, नवमिन्दुमिवाऽनमन् ॥ १७६ ॥
खामिना न वयं त्यक्ता, मूर्त्यन्तरमिदं निजम् । नेतारं कुर्वताऽस्माकमित्यूचुर्मुदिताः प्रजाः ॥ १७७ ॥
भगवानजितेशोऽपि, पारेभेऽथ कृपार्णवः । प्रदातुं वार्षिकं दानं, वर्षाब्द इव वर्षितुम् ॥ १७८ ॥ आज्ञप्ता वासवेनाऽथ, प्रेरिता धनदेन च । तिर्यग्जृम्भकनामानस्तत्रोपेयुर्दिवौकसः ॥ १७९ ॥
अथ भ्रष्टानि नष्टानि, प्रक्षीणवामिकानि च । परितो नष्टकेतूंनि, प्रणष्टाधिपतीनि च ॥ १८० ॥ 20 गिरिकन्दरवर्तीनि, श्मशानस्थानगानि च । भवनान्तरगुप्तानि, तत्राऽऽजहुर्धनानि ते ॥१८१॥ युग्मम् ॥
शृङ्गाटेषु चतुष्केषु, चत्वरेषु त्रिकेषु च । प्रवेश-निर्गमोया च, पुञ्जीचक्रुश्च तानि ते ॥ १८२ ॥ त्रिके त्रिके पथि पथि, चत्वरे चत्वरेऽपि च । एतद् गृह्णीत वस्खेवं, घोषणां स्वाम्यकारयत् ॥ १८३ ॥ यो यद् ययाचे तत् तस्मै, ददौ वसु जगत्पतिः । सूर्योदयात् समारभ्य, निषण्णो भोजनावधि ॥ १८४॥ कोटिरेका हिरण्यस्य,लक्षैः समधिकाऽष्टभिः । अर्थिभ्यो विश्वनाथेन, दीयते स दिने दिने ॥ १८५ ॥ ततश्चाऽदत्त वर्षेण, हेनः कोटिशतत्रयम् । अष्टाशीति तथा कोटीर्लक्षाशीति तथा प्रभुः ॥ १८६ ॥ अनुभावेन कालस्य, स्वामिनश्च प्रभावतः । यथेप्सितप्रदानेऽपि, नाधिकग्राहिणोऽभवन् ॥ १८७ ॥ कृपाधनो धिनोति म, धनैरेवं धरां प्रभुः । चिन्तामणिरिवाऽचिन्त्यमहिमा वत्सरावधि ॥ १८८ ॥
अथ वार्षिकदानान्ते. शक्रस्याऽचलदासनम अवधिज्ञानतोऽज्ञासीत. स च दीक्षाक्षणं विभोः ॥१८९॥ चचाल च हरिदेवैः, समं सामानिकादिभिः । दीक्षाक्षणे भगवतः, कर्तुं निष्क्रमणोत्सवम् ॥ १९० ॥ 30 विमानै रचयन्नाशाः, सञ्चरन्मण्डपा इव । उत्तुङ्गैारणवरैरुत्पतत्पर्वता इव ॥ १९१॥
आक्रामन् व्योम तुरगैस्तरङ्गैरिव सागरः । आघट्टयन् रविरथं, रथैरस्खलितस्यदैः ॥ १९२ ॥ नभस्तलं तिलकयन्, किङ्कणीमालभारिभिः । ध्वजांशुकैश्च दिग्दन्तिकर्णतालानुहारिभिः ॥ १९३ ॥ गीयमानोऽमरैः कैश्चिद्, गान्धारग्रामबन्धुरम् । स्तूयमानस्तथा कैश्चित, सत्काव्यकुलकर्नवैः ॥ १९४ ॥ कैश्चिद् विज्ञप्यमानश्च, मुखदत्तपटाञ्चलैः । संसार्यमाणः कैश्चिञ्च, प्राक्तनीस्तीर्थकृत्कथाः ॥ १९५ ॥
१ अतिक्रान्तबृहस्पतिषु। २ दिक्पालेषु । ३ सेनापतिः। ४ मेघसदृशेषु । ५ पुरोहितश्रेष्ठैः। ६ राजानम् । ७ नष्टस्वा मिकानि । ८ नष्टचिह्नानि । ९ दीक्षासमयम् । १० इन्द्रः। ३१ अकुण्ठितवेगैः।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org