________________
१८९
तृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । इहैव तेऽवतिष्ठन्ते, यदि तिष्ठन्तु तन्ननु । अहो ! शरीरमप्येतन्नाऽनुयाति पदात् पदम् ॥ १३० ॥ ततः शरीरकस्याऽपि, कृतघ्नस्य कृते मुधा । मुग्धैर्विधीयते हन्त !, पापकर्म शरीरिभिः ॥ १३१ ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ १३२ ॥ अन्यैस्तेनाऽर्जितं वित्तं, भूयः सम्भूय भुज्यते । स त्वेको नरककोडे, क्लिश्यते निजकर्मभिः ॥ १३३ ॥ दुःखदावाग्निभीष्मेऽस्मिन् , वितते भवकानने । बैम्भ्रमीत्येक एवाऽसौ, जन्तुः कर्मवशीकृतः ॥ १३४ ॥ 5 यद् दुःखं भवसम्बन्धि, यत् सुखं मोक्षसम्भवम् । एक एवोपभुङ्क्ते तन्न सहायोऽस्ति कश्चन ॥ १३५ ॥ यथैवैकस्तरन् सिन्धुपारं व्रजति तत्क्षणात् । न तु हृत्पाणि-पादादिसंयोजितपरिग्रहः ॥ १३६ ॥ तथैव धन-देहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधिपारमासादयत्यसौ ॥ १३७ ॥ __इति चिन्तापरं नाथं, भवनिर्विण्णचेतसम् । सारखतादयो लोकान्तिका एत्याऽब्रुवन् सुराः॥१३८॥ खयं बुद्धोऽसि भगवन्नमाभिर्न हि बोध्यसे । किन्त्विदं मार्यते विश्वनाथ ! तीर्थ प्रवर्तय ॥ १३९ ॥ 10 इत्युदीर्याऽजितस्वामिपादान् नत्वा च ते तदा । ब्रह्मलोकं ययुः सायं, खनीडमिव पक्षिणः ॥१४०॥ __आत्मचिन्तानुकूलेन, तेन तद्वचसा प्रभोः । ववृधे भववैराग्यं, पौरस्त्यमरुताऽब्दवत् ॥ १४१॥ ततः सगरमाहय, जगाद त्रिजगद्गरुः। गृह्यतां राज्यभारो नः, संसाराब्धि तितीर्षताम् ॥ १४२॥ इत्युक्तोऽजितनाथेन, श्यामास्योऽश्रूणि पातयन् । एकैकबिन्दुवर्षीव, वारिदः सगरोऽब्रवीत् ॥१४३॥
अभक्तिः किं मया देव !, विदधे देवपादयोः । आत्मनो मां पृथक् कर्तुमद्य येनैवमादिशः१ ॥१४४॥15 अभक्तिर्वाऽस्तु विहिता, नाऽप्रसादाय साऽपि हि । पूज्यैरभक्तोपि शिशुः, शिष्यते न तु हीयते ॥१४५॥ किं नामाऽभ्रंलिहेनाऽपि, छायाहीनेन शाखिना । किं वा समुन्नतेनापि, वृष्टिहीनेन वार्मुचा ? ॥१४६॥ किं वा निर्झरहीनेन, तुङ्गेनापि महीभृता ? । किं वा लावण्यहीनेन, सुरूपेणाऽपि वर्मणा ? ॥१४७॥ किं वा गन्धविहीनेन, पुष्पेणाऽपि विकासिना ? । अनेन त्वद्विहीनेन, राज्येनापि हि किं मम॥१४८॥
॥त्रिभिर्विशेषकम् ॥ 20 निर्ममस्य निरीहस्य, मुमुक्षोरपि ते सतः। प्रभो! पादौ न मोक्ष्यामि, का राज्यादानसङ्कथा? ॥१४९॥ राज्यं पुत्राः कलत्राणि, मित्राण्यथ परिच्छदः । तृणवत् सुत्यजं सर्व, त्वत्पादौ दुस्त्यजौ तु मे ॥१५०॥ राजीभवति नाथाऽहं, युवराज्यभवं यथा । त्वयि व्रतधरे शिष्यीभविष्याम्यधुना तथा ॥ १५१ ॥ गुरुपादाम्बुजोपास्तितत्परस्य दिवानिशम् । शैक्षस्य भैक्षमपि हि, साम्राज्यादतिरिच्यते ॥१५२ ॥ भवं तरिष्याम्यज्ञोऽपि, भवत्पादावलम्ब्यहम् । गोपुच्छलग्नो हि तरेनदी गोपालबालकः ॥ १५३॥ 25 दीक्षां सह त्वयाऽऽदास्से, विहरिष्ये सह त्वया । दुःसहांश्च सहिष्येऽहं, त्वया सह परीषहान् ॥ १५४ ॥ त्वया सहोपसर्गाश्च, सहिष्ये त्रिजगद्गुरो ! । कथञ्चिदपि न स्थास्साम्यहमत्र प्रसीद मे ॥ १५५ ॥ __ अथेत्थमजितवामी, सेवाबद्धैकसङ्गरम् । सगरं व्याजहारातिपीयूषोद्गारया गिरा ।। १५६ ॥ युक्त एवाऽऽग्रहो वत्स !, संयमग्रहणं प्रति । किन्तु भोगफलं कर्म, क्षीयतेऽद्यापि ते न हि ॥ १५७॥ भुक्त्वा भोगफलं कर्माहमिव त्वमपि स्वयम् । मोक्षस्य साधकतमं, गृह्णीयाः समये व्रतम् ॥१५८॥ 30 युवराज ! ततो राज्यं, गृहाणेदं क्रमागतम् । वयं संयमसाम्राज्यमुपादास्यामहे पुनः ॥ १५९ ॥ ___ इत्युक्तः स्वामिना सोऽथ, मनस्येवमचिन्तयत् । भर्तुविरहभीराज्ञाभङ्गभीश्च दुनोति माम् ॥ १६०॥ दुःखाय स्वामिविरहस्तदाज्ञातिक्रमश्च मे । इति द्वयं विमृशतो, गुर्वाज्ञापालनं वरम् ॥ १६१ ॥ इत्थं विचार्य मनसा, सगरो गद्गदस्वरः । तथेति स्वामिनो वाचं, प्रतिपेदे महामतिः ॥ १६२ ॥
१ सञ्चितानि । २ पुनः पुनः भ्रमति । ३ पूर्व दिग्वायुना मेघो यथा वर्धते तद्वत् । ४ शिक्ष्यते। ५ मेघेन। शरीरेण । ७ शिष्यस्य । ८ सेवानिबद्धप्रतिज्ञम् ।
त्रिषष्टि. २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org