________________
१८८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीय वर्ष बहिरङ्गानिव जयनन्तरङ्गानरीस्ततः । अखण्डितं राज्यमिव, पालयामास स व्रतम् ॥ ९९ ॥ उत्पन्नकेवलज्ञानः, शैलेशीध्यानमास्थितः । क्षीणाष्टकर्मा स प्राप, क्रमेण परमं पदम् ॥१०॥ ___ इतवाजितनाथोऽपि, सनाथः सकलर्द्धिभिः । सलीलं पालयामास, खापत्यमिव मेदिनीम् ॥१०॥
तस्यावतो वसुमतीमपि दण्डादिभिर्विना । ययुः प्रजा वर्त्मनैव, रथ्या इव सुसारथेः ॥ १०२ ॥ 5 धान्यानामेव निष्पेषः, पशूनामेव बन्धनम् । मणीनामेव वेधोऽपि, तूर्याणामेव ताडनम् ॥ १०३ ॥
वर्णानामेव सन्तापः, शस्त्राणामेव तेजनम् । शालीनामेवोत्खननं, स्त्रीभुवामेव वक्रता ॥ १०४ ॥ शारीणामेव हननं, क्षेत्रोच् एव दारणम् । पक्षिणामेव निक्षेपः, काष्ठपञ्जरमन्दिरे ॥ १०५ ॥ रुजामेव निग्रहश्चाऽब्जानामेव जडस्थितिः । अगरोरेव दहनं, श्रीखण्डस्यैव घर्षणम् ॥१०६ ॥
दधिष्वेव प्रमथनमिक्षुष्वेव निपीडनम् । अलिष्वेव मधुपता, गजेष्वेव मदोदयः ॥ १०७॥ 10 प्रणयेष्वेव कलहोऽपवादेष्वेव भीरुता । गुणगणेष्वेव लोभः, खदोषेष्वेव चाऽक्षमा ॥ १०८ ॥ प्रजामयूरीपर्जन्ये, प्रार्थनाकल्पपादपे । समभूदजितखामिनृपे शासति मेदिनीम् ॥ १०९ ॥
॥ सप्तभिः कुलकम् ॥ भेजिरे भूभुजः पत्तिमानिनो मानिनोऽपि तम् । दासन्ति ह्यन्यमणयः, सर्वे चिन्तामणेः पुरः ॥ ११० ॥
न दण्डनीति प्रायुत, भ्रूभङ्गमपि न व्यधात् । वशगा भूरभूत् तस्य, सुभगस्येव कामिनी ॥ १११ ॥ 15 आचकर्ष श्रियो राज्ञां, स खैस्तेजोभिरूर्जितैः । किरणैरुष्णकिरणो, वारीणि सरसामिव ॥ ११२ ॥
तस्य वेश्माङ्गणभुवो, बभूवुः प्रतिवासरम् । नरेन्द्रोपायनेभानां, पङ्किला मदवारिभिः ॥ ११३ ॥ चतुरं विक्रममाणैरीशितुस्तस्य वाजिभिः । वाह्यालीभूमिवत् सर्वाः, समाचक्रमिरे दिशः ॥ ११४ ॥ अजितवामिनः सैन्ये, पत्तीनामनेसामपि । सङ्ख्या कर्तुमलं कश्चिनोर्माणामिव वारिधौ ॥ ११५॥ निषादिनः सादिनैश्च, रथिनः पत्तयोऽपि च । बभूवुः प्रक्रियामात्रं, भर्तुर्दोर्वीर्यशालिनः ॥११६ ॥ अद्वैतेऽपि स ऐश्वर्ये, जातु नोत्सेकैमादधे । न चाऽवलेपमकरोदतुलेऽपि हि दोर्बले ॥११७॥ रूपे चाप्रतिरूपेऽपि, नेशः सुभगमान्यभूत् । लाभेन विपुलेनापि, न भेजे चोन्मदिष्णुताम् ॥ ११८ ॥ अन्यैरपि मदस्थानैर्नाऽऽससाद मदं विभुः । तृणाय प्रत्युतामस्त, सर्व जानननित्यताम् ॥ ११९ ॥
॥त्रिभिर्विशेषकम् ।। ___एवं च पालयन राज्यं, कौमारात् प्रभृति प्रभुः । त्रिपञ्चाशत्पूर्वलक्षी, सुखमेवाऽत्यवाहयत् ॥ १२०॥ 25 विसृज्याऽन्येधुरास्थानी, रहस्थानमुपेयिवान् । ज्ञानत्रयधरः खामी, स्वयमेवमचिन्तयत् ॥ १२१॥
अद्यापि हि कियद् भुक्तप्रायभोगफलैरपि । खकार्यविमुखैः स्थेयमसाभिहवासिभिः ॥१२२ ॥ त्रातव्योऽयं मया देशो, रक्षणीयमिदं पुरम् । वासनीयास्त्वमी ग्रामाः, पालनीया इमे जनाः ॥ १२३॥ वर्द्धनीया हस्तिनोऽमी, पोषणीया इमे हयाः । भरणीया अमी भृत्यास्तश्चिामी वनीकाः ॥ १२४॥ पोष्या अमी सेवकाच, रक्ष्यावामी शरण्यगाः। सम्भाष्याः पण्डिताथामी, सत्कार्याः सुहृदस्त्वमी ॥१२५ ॥ अनुप्राधा मत्रिणोऽमी, उद्धार्या बन्धवोऽप्यमी । रञ्जनीयास्त्वमी दारा, लालनीयास्त्वमी सुताः ॥१२६॥ इति प्रतिक्षणमपि, परकार्यैः समाकुलः । क्षपयत्यखिलं जन्मी, मानुषं जन्म निष्फलम् ॥ १२७॥ पुमानेषां च कार्येण, युक्तायुक्तमचिन्तयन् । विमूढः पशुवन्नानापापानि विदधाति हि ॥ १२८ ॥ येषामर्थे च पापानि, विधत्ते मुग्धधीर्जनः । ते तं मृत्युपथे यान्तं, नानुयान्ति मनागपि ॥ १२९ ॥ १ सहितः । २ अश्वाः । ३ अब्जपक्षे जले स्थितिः। ४ न तु प्रजासु मद्यपायित्वम् । ५आत्मानं पत्तिं मन्यमानाः। ६मानयुक्ताः। •सूर्यपक्षे चन्द्राणाम्। सूर्यः। ९ रथामाम् । १० गजवाहाः। ॥ अश्ववाराः। १२ अमिमानम् । ५गर्वम् । "अनन्यसमाने। १५सभाम्। १६ याचकाः ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org