________________
१४७
वृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । तयोरुरःस्थलमपि, स्वर्णशैलशिलानिभम् । मनोवदतिगम्भीरा, नाभिश्च प्रत्यभासत ॥६५॥ कृशश्च कुलिशस्येव, मध्यदेशस्तयोरभूत् । महाकरिकराकारावरू सरल-कोमलौ ॥६६॥ . एणीजङ्घाप्रतिरूपे, जङ्घाकाण्डे पुनस्तयोः । ऋज्वगुलिदलौ पादौ, स्थलपनानुहारिणौ ॥ ६७ ॥ निसर्गेणापि तौ रम्यौ, यौवनेन विशेषतः । बभूवतुर्मधुनेवाऽऽरामौ रामाजनप्रियौ ॥ ६८॥ सगरः सर्वमत्र्येभ्यः, सुरेभ्य इव वासवः । उदकृष्यत रूपेण, विक्रमादिगुणैरपि ॥ ६९ ॥ अजितेशः पुनः सर्वकल्पदेवेभ्य उच्चकैः । अवेयकनिवासिभ्योऽनुत्तरेभ्यश्च सर्वतः ॥ ७० ॥ आहारकशरीरादप्यत्यरिच्यत रूपतः । शैलेभ्य इव सर्वेभ्यो, मानतो मेरुपर्वतः ॥ ७१ ॥ युग्मम् ॥
जितशत्रुर्नरेन्द्रोऽथ, महेन्द्रश्चाऽजितप्रभुम् । नीरागमपि वीवाहकर्मणे स्वयमूचतुः ॥ ७२ ॥ उपरोधात् तयोः खं च, कर्म भोगफलं विदन् । तद्वाचमजितवामी, तथेति प्रत्यपद्यत ॥ ७३ ॥ श्रियो मूर्त्यन्तराणीव, शतशोऽथ स्वयंवराः । तेन राजा राजकन्या, महा पर्यणाययत् ॥ ७४ ॥ 10 देवकन्योपमा राजकन्यकाः सगरेण च । पुत्रोद्वाहोत्सवातृप्योदवाहयदिलाप॑तिः ॥ ७५ ॥ अँजितोऽपीन्द्रियै रेमे, रामाभिरजितप्रभुः । भोग्यकर्म क्षपयितुं, यथाव्याधि हि भेषजम् ॥७६ ॥ नानाविधाभिः क्रीडाभिः, क्रीडास्थानेष्वनेकशः । रामाभिः सगरोऽरंस्त, करेणुभिरिव द्विपः ॥ ७७ ॥ __समं भ्रात्रा भवोद्विग्नो, जितशत्रुनृपोऽन्यदा । सम्पूर्णाष्टादशपूर्वलक्षौ पुत्रावदोऽवदत् ॥ ७८॥ वत्सौ ! सर्वेऽपि नः पूर्वे, पूर्वलक्षाणि कान्यपि । धरित्री विधिवत् त्रात्वा, पुत्रेषु च निधाय ताम् ॥७९॥ 15 निर्वाणसाधने हेतुभूतमाददिरे व्रतम् । तदेव हि निजं कार्य, परकार्यमतः परम् ॥ ८ ॥ आवामपि ग्रहीष्यावः, कुमारौ ! सम्प्रति व्रतम् । स्वकार्यस्य ह्ययं हेतुरेष वंशक्रमश्च नः ॥ ८१॥ ततो राज-युवराजावावामिव युवामिह । भवतं चाऽनुजानीतमद्य प्रव्रजनाय नौ ॥ ८२ ॥
अथोवाचाजितस्वामी. तात! यक्तमिदं हि वः।ममापि यज्यते विघ्नः, कर्म भोगफलंनचेत ॥८॥ अन्यस्यापि व्रतादाने, न विघ्नाय विवेकिनः । किं पुनस्तातमिश्राणामहं समयसाधिनाम् ? ॥८४॥ 20 पितुः पुमर्थ तुर्य यो, भक्त्याऽपि हि निषेधति । सुतव्याजाद् द्विषनेव, स हि तस्योदपद्यत ॥ ८५ ॥ तथापि प्रार्थ्यसे तात!, लघुतातोऽस्तु राज्यभृत् । विनयी हि लघुभ्राता, पुत्रादप्यतिरिच्यते ॥ ८६ ॥ सुमित्रोऽप्यभ्यधादेवं, स्वामिपादानहं न हि । त्यजामि राज्यमादातुं, कोऽल्पहेतोर्वहु त्यजेत् १ ॥८७॥ राज्यादप्यतिसाम्राज्याचक्रवर्तिपदादपि । देवत्वादपि विदुषां, गुरुसेवा गरीयसी ॥ ८८॥ अथोचेऽजितनाथस्तं, राज्यमादित्ससे न चेत् । तात! भावयतिर्भूत्वा, तथाप्यास्स्व सुखाय नः ॥ ८९ ॥25 जितशत्रुरपि साऽऽह, बन्धो ! निर्बन्धकारिणः । सूनोर्मन्यस्व वचनं, भावतोऽपि यतिर्यतिः ॥९०॥ साक्षादयं तीर्थकरोऽस्यैव तीर्थे तवेप्सितम् । सेत्स्यतीति प्रतीक्षस्वाऽत्युत्सुको वत्स! मास भूः ॥११॥ एकस्य धर्मचक्रित्वं, चक्रित्वमपरस्य च । सूनोः पश्यन् लप्स्यसे त्वं, सुखं सर्वसुखाधिकम् ॥ ९२ ॥ व्रतोत्सुकोऽपि तद्वाचं, सुमित्रः प्रत्यपद्यत । सतां ह्यलच्या गुर्वाज्ञा, मर्यादोर्दैन्वतामिव ॥९३ ॥ जितशत्रुरथ प्रीत, उत्सवेन महीयसा । अजितखामिनो राज्याभिषेकमकरोत् स्वयम् ॥ ९४ ॥ 30 मुमुदे मेदिनी सर्वा, तस्य राज्याभिषेकतः । विश्वत्राणक्षमे नेतर्याप्ते कः प्रीयते न हि ? ॥ ९५ ॥ यौवराज्ये च सगरमजितखाम्यपि न्यधात् । द्वैतीयीकीमिव निजां, तनूमतनुसौहृदः ॥ ९६ ॥ श्रीमानजितनाथोऽपि, जितशत्रोस्तदैव हि । ऋद्ध्या महत्या विधिवच्चक्रे निष्क्रमणोत्सवम् ॥ ९७ ॥ ऋषभखामितीर्थस्थस्थविराणामथान्तिके । जितशत्रुः परिव्रज्यां, शिश्रिये मुक्तिमातरम् ॥ ९८॥
वज्रस्येव । २ मृगीजङ्घासदृशे। ३ वसन्तेन । ४ अजितस्वामिना सह । ५ जितशत्रुः। ६ राजा । ७ न जितः । ८ रोगानुरूपम् । ९ मोक्षसाधने । १० सङ्केतितकाले आराधनाकारिणाम् । ११ पुत्रमिषात् । १२ समुद्राणां मर्यादा इव । १३ भरीरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org