________________
१८६
10
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व स वाहनविधि चाश्वलक्षणं सचिकित्सितम् । पाठतोऽनुभवतश्च, विदधे हृदयङ्गमम् ॥ ३३ ॥ धनुर्वेदमथाऽन्येषां, शस्त्राणामपि लक्षणम् । श्रुतमात्रं लीलयाऽपि, स खनामेव हृद्यधात् ॥३४॥ धनुषा फलका-ऽसिम्यां, छुर्या शल्येन पशुना । कुन्तेन भिन्दिपालेन, गदया कम्पणेन च ॥३५॥
दण्डेन शक्त्या शूलेन, हलेन मुशलेन च । यष्टि-पट्टिस-दुःस्फोट-मुषुण्ढी-गोफणैरपि ॥ ३६ ॥ 5 कणयेन त्रिशूलेन, शङ्खना चापरैरपि । शस्त्रैः शास्त्रानुमानेन, सोऽगात् सङ्ग्रामकौशलम् ॥ ३७॥
॥ त्रिभिर्विशेषकम् ॥ सोऽभूत् सर्वकलापूर्णः, शशाङ्क इव पार्वणः । भूषणैरिव च गुणैर्विनयाद्यैरभूष्यत ॥ ३८॥
श्रीमानजितनाथोपि, यस्मिंस्तस्मिन्नपि क्षणे । शक्रादिभिः सुरैर्भक्तिभाग्भिरेवमसेव्यत ॥ ३९ ॥ चिक्रीडुः केचिदागत्य, सवयोभूय नाकिनः । अजितखामिनस्तत्तल्लीलालोकनलालसाः ॥ ४० ॥ नर्मोक्तिमिर्विचित्राभिश्चाटुभिश्च मुहुर्मुहुः । तं केऽप्यभाषयंस्तद्वाक्सुधारसपिपासिताः ॥४१॥ आदेशाकासया भर्तुरसमादिशतः सतः । क्रीडाद्यूते पणीकृत्याऽऽदेशान् स्खं केऽप्यहारयन् ॥ ४२ ॥ प्रतीहार्यभवन् केचिन्मयभूवंश्च केचन । केऽप्युपानद्धर्यभूवंश्छत्र्यभूवंश्च केचन ॥ ४३ ॥ स्थगीवाह्यभवन् केचित्, प्रेष्य्यभूवंश्च केचन । अवधार्यभवन् केचिदमराः क्रीडतः प्रभोः ॥ ४४ ॥ पाठं पाठं च शास्त्राणि, सगरोपि दिने दिने । स्वनियोग नियोगीवाऽजितेशाय व्यजिज्ञपत् ॥४५॥ उपाध्यायेनाऽप्यभग्नान् , संशयान् सगरः सुधीः । पप्रच्छ स्वामिनं नाभिनन्दनं भरतेशवत् ॥४६॥ मति-श्रुता-ऽवधिज्ञानैरजितस्वाम्यपि द्रुतम् । चिच्छेद तस्य सन्देहांस्तमांसीवेन्दुरंशुभिः ॥४७॥ त्रिमियतैः समाक्रामन. दृढासनपरिग्रहः । प्रसार्याऽदर्शयत तस्मै. स व्यालमपि हस्तिनम ॥४८॥ सपर्याणानपर्याणान् , शूकानपि वाजिनः । तत्पुरो वाहयामास, धाराभिरपि पञ्चभिः ॥४९॥
राधावेधं शब्दवेधं, जलान्तर्लक्षवेधनम् । चक्र-मृत्पिण्डवेधं च, वाणैः सोऽदर्शयत् प्रभोः॥५०॥ 20 अदर्शयत् पादगति, फलका-सिधरश्च सः। प्रविष्टः फलकमध्येऽभ्रमध्य इव चन्द्रमाः ॥५१॥
कुन्तं शक्तिं शर्वलां च, भ्रमयामास वेगतः। नभसि भ्राम्यदुद्दामविद्युल्लेखाभ्रमप्रदान् ॥ ५२ ॥ सर्वैरपि छुरीस्थानैः, सर्वचारीविचक्षणः । अदर्शयच्छुरी विद्यां, स नृत्यमिव नर्तकः ॥ ५३॥ अजितखामिनेऽन्येषां, शस्त्राणामपि कौशलम् । अदर्शयद् गुरुभक्त्या, तच्छिमादित्सया च सः॥५४॥
न्यूनं यत्किश्चिदप्यासीत् , कलासु सगरस्य तु । स्वामी तदशिषत् तादृक्, तादृशस्य हि शिक्षकः ॥५५॥ 25 एवमात्मानुरूपं तो, चेष्टमानावुभावपि । आद्यं वयो ललचाते, ग्रामसीमामिवाऽध्वगौ ॥५६॥
समानचतुरस्रेण, संस्थानेनोपशोभितौ । वज्रऋषभनाराचाख्येन संहननेन च ॥ ५७॥ हेमद्युती सार्धचतुर्धनुःशतसमुच्छ्यौ । श्रीवत्सलाञ्छितोरस्को, रुचिरोष्णीपशालिनौ ॥ ५८ ॥ अथाऽऽपतुर्यौवनं तो, वपुर्लक्ष्मीविशेषकम् । शरदं स्वप्रभाधिक्यकरी सूर्य-विधू इव ॥ ५९॥
॥ त्रिभिर्विशेषकम् ॥ कुटिल-श्यामलैः केशैर्यमुनावीचिसोदरैः । तौ रेजाते ललाटेन, चाऽष्टमीचन्द्रबन्धुना ॥ ६ ॥ तयोः कपोलौ बँभतुरादशौं काञ्चनाविव । नेत्रे च स्निग्ध-मधुरे, नीलोत्पलदलोपमे ॥ ६१ ॥ दृक्सरस्योरन्तराले, तयोः पालीव नासिका । शुशुभाते चोष्ठपुटे, युग्मबिम्बीफले इव ॥ ६२ ॥ तयोः श्रुती शुभावत, रेजतुः शुक्तिके इव । रेखात्रयपवित्रश्च, कम्बवत कण्ठकन्दलः॥१३॥ तयोश्च वाहुशिखरौ, कुम्भिकुम्भाविवोन्नतौ । अभातामायतौ पीनौ, भुजौ भुजगराजवत् ॥ ६४ ॥
. फलकं 'ढाल' इति लोके प्रसिद्धम् । २ छत्रधारका अभूवन् । ३ ताम्बूलकरण्डकः स्थगीत्युच्यते। ४ ताडनैः । ५ दुष्टम् । ६ उद्धतान् । ७ तच्छिक्षाप्रणेच्छया। ८ शुशुभाते। ५ गजकुम्भौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org