________________
तृतीयः सर्गः]
१८५
त्रिषष्टिशलाकापुरुषचरितम् ।
तृतीयः सर्गः
15
धात्रीभिः पञ्चभिः शक्रादिष्टाभिरजितप्रभुः । अपाल्यत नराधीशादिष्टाभिः सगरः पुनः॥१॥ खपाणिपङ्कजाङ्गुष्ठे, सुरसङ्क्रमिता सुधाम् । पिबति माऽजितवामी, न बर्हन्तः स्तनन्धयाः ॥२॥ सगरस्तु यथाकालं, धात्रीस्तन्यमनिन्दितम् । अपिबत् सारणीनीरमिवाऽऽराममहीरुहः ॥३॥ वृद्धिं शाखे इव तरोर्दन्ताविव च दन्तिनः । दिने दिने प्रपेदाते, तौ कुमारी नरेशितुः ॥४॥ क्रमेण युगपञ्चापि, तावुत्सङ्ग महीपतेः । समारुरुहतुः पञ्चाननपोतौ गिरेरिव ॥५॥ नितान्तमुग्धैः पितरौ, सिष्मियाते सितैस्तयोः । विसिष्मियाते सौजस्कैः, पादचक्रमणैः पुनः ॥६॥ धात्रीभिर्धार्यमाणावप्युत्सङ्गे तौ न तस्थतुः । न केसरिकिशोराणां, पञ्जरे जात्ववस्थितिः॥७॥ खच्छन्दं विचरन्तौ तौ, रभसादनुधाविनीः । खेदयामासतुर्धात्रीर्वयो गौणं महात्मनाम् ॥८॥ क्रीडाशुक-मयूरादीनाददाते विहङ्गमान् । राज्ञः कुमारौ तौ वेगादतिवायुकुमारकौ ॥९॥ गते प्रस्खलयामासुधोत्र्यो विविधचाटुभिः । स्वच्छन्दचारिणौ वालौ, तौ भद्रकलभाविव ॥१०॥ दिव्यघर्षरका रेजुयोरपि कुमारयोः । झणज्झणितिकुर्वाणाः, पदाब्जेष्वलयो यथा ॥११॥ तयोः कण्ठे निबद्धाभात् , स्वर्णरत्नललन्तिका । हृदि झलझलयन्ती, नभसीव तडिल्लता ॥१२॥ तयोश्च क्रीडतोः खैरं, चले काञ्चनकुण्डले । दधतुर्वारिसङ्क्रान्तनूतनादित्यविभ्रमम् ॥ १३ ॥ चलतोश्चञ्चले चूले, चकासामासतुस्तयोः । कलापौ नूतनोद्भिनाविव बालकलापिनोः ॥१४॥ अङ्कादकं कौतुकेन, निन्याते राजमिश्च तौ । पद्मात् पद्मान्तरं राजहंसाविव महोर्मिभिः ॥ १५ ॥ उत्सङ्गे हृदये दोष्णोः, स्कन्धदेशे शिरस्थपि । तौ समारोपयामास, रत्नाभरणवन्नृपः ॥ १६ ॥ मधुव्रत इवाऽम्भोज, भूयो भूयः शिरस्तयोः । आजिघ्रन् प्रीतिविवशो, नातृप्यत् पृथिवीपतिः ॥१७॥ राज्ञस्तावङ्गुलीलग्नावुभयोरपि पार्श्वयोः । विचरन्तौ विरेजाते, मेरोरिव दिवाकरौ ॥१८॥ सततं चिन्तयामास, परमानन्दसुन्दरम् । तावात्म-परमात्मानौ, योगीव जगतीपतिः ॥१९॥ तौ ददर्श मुहुर्वेश्मोद्भूतौ कल्पद्रुमाविव । मुहुश्च भाषयामास, राजा राजशुकाविव ॥२०॥ सहाऽऽनन्देन भूभर्तुः, सहेक्ष्वाकुकुलश्रिया । क्रमेण प्रतिपेदाते, तौ वृद्धिमधिकाधिकाम् ॥ २१ ॥ तत्राशेषाः कला न्याय, शब्दशास्त्रादि चापरम् । स्वयं जज्ञेऽजितस्वामी, त्रिज्ञाना हि खतो जिनाः ॥२२॥ राजा निर्दिष्टः सुदिने, महोत्सवपुररसरम् । उपोपाध्यायमध्येतुमारेमे सगरः पुनः॥२३॥ शब्दशास्त्रादिशास्त्राणि, दिनैः कतिपयैरपि । अपिबत् सगरः सिन्धुसलिलानीव सागरः ॥२४॥ 25 साहित्यशास्त्रसर्वस्वमुपाध्यायादयत्नतः। सौमित्रिराददे ज्योतिर्दीपो दीपान्तरादिव ॥२५॥ साहित्यवल्लीकुसुमैः, काव्यैः कर्णरसायनैः । स वीतरागस्तवनैः, खां वाचमकृतार्थयत् ॥ २६ ॥ सम्यक् प्रमाणशास्त्राणि, स प्रज्ञाप्रतिभार्णवः । अग्रहीदविलम्बेन, स्वयंन्यस्तनिधानवत् ॥ २७ ॥ स्थाद्वादवादोपन्यासैरमोथैः प्रतिवादिनः । विजिग्ये सगरः शत्रून् , जितशत्रुरिवेषुभिः ॥२८॥ पाहुण्योपायशक्त्यादिप्रयोगोर्मिभिराकुलम् । अगाहिष्ट स दुर्गाहमर्थशास्त्रमहोदधिम् ॥ २९॥ 30 सर्वोषधीरस-वीर्य-विपाकज्ञानदीपकम् । अप्यायुर्वेदमष्टाङ्गमध्यैष्टाऽकष्टमेव सः ॥३०॥ चतुर्वायं चतुर्वृत्ति, चतुर्धाभिनयात्मकम् । स तूर्यत्रयविज्ञाननिदानं शास्त्रमाददे ॥ ३१ ॥ दन्तघात-मदावस्था-ऽङ्गलक्षणचिकित्सितैः । विनोपदेशैश्वाऽऽपूर्ण, सोज्ज्ञासीद् गजलक्षणम् ॥ ३२ ॥
20
सिंहकिशोरको। २भानामि लम्बमाना माला ।
शिखे।
पिछी। ५मवीनां जलानीव।
सगररा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org