________________
१८४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
| द्वितीयं पर्व केचिच्च ढौकयामासुः, स्वर्णराशिं महीपतेः । जम्भकामरनिर्मुक्तवसुधारासहोदरम् ॥ ५५८ ॥ दिग्गजानां युवराजानिव शौडीर्यशालिनः । मत्ताननेकपानेकेऽनेकशः पर्यढोकयन् ॥ ५५९ ॥ बन्धूनिवोच्चैःश्रवसः, सूर्याश्वानामिवाऽनुजान् । आनिन्युर्वाजिनो वाजवरिष्ठानपरे नृपाः ॥ ५६० ॥ राज्ञो वेश्माङ्गणं जज्ञे, विशालमपि सङ्कटम् । नृपोपायनयानैस्तैर्हृदयं प्रमदैरिव ॥ ५६१ ॥ प्रेतीयेषोपायनानि, तेषां च प्रीतये नृपः । किं हि न्यूनं तस्य यस्य, देवदेवः स्वयं सुतः१ ॥ ५६२ ॥ आदेशाद् भूपतेस्तस्य, तस्यां पुर्या तु जज्ञिरे । स्थाने स्थाने महामश्चा, विमानानीव नाकिनाम् ॥५६॥ प्रत्यट्ट-गृहमासंश्च, तोरणा रत्नभाजनैः । स्थितैरायातदेवेभ्यो, ज्योतिष्कैरिव कौतुकात् ॥ ५६४ ॥ प्रतिरथ्यं रजःशान्त्यै, निषेकः कुकमाम्बुभिः । चक्रे विलेपनमिव, भुवो मङ्गलसूचकम् ॥ ५६५ ॥
पदे पदे नाटकानि, सङ्गीतानि पदे पदे । पदे पदे तूर्यनादाः, पौरैर्विदधिरे मुदा ॥ ५६६ ॥ 10 अशुल्क-दण्डामभटप्रवेशामकरां च ताम् । महोत्सवमयीं राजा, दशाहं विदधे पुरीम् ॥ ५६७ ॥
___ शुभेऽहनि नरेन्द्रोऽथ, सुत-भ्रातृजयोस्तयोः । आदिशन्नामकरणोत्सवाय खनियोगिनः॥५६८॥ पटैर्घनानेकपुटैस्तदाऽतन्यत मण्डपः । भानोः करैरनाविष्टः, पार्थिवाज्ञापयादिव ॥ ५६९ ॥ स्तम्भे स्तम्भे च कदलीस्तम्भास्तत्राऽशुभन् भृशम् । पुष्पकोशैर्वितन्वानाः, पद्मखण्डमिवाऽम्बरे ॥ ५७०॥
विचित्रैश्चक्रिरे तत्र, पुष्पैः पृष्पगृहाणि च । आश्रितानि श्रियाऽश्रान्तं, मधुकर्येव रक्तया ॥ ५७१ ॥ 15 हंसरोमाश्चितैस्तूलपूर्णैर्दारुमयैरपि । स आसनैः सनाथोऽभून्मण्डपः खमिवोडुभिः ॥ ५७२ ॥
मण्डपो नृपतेरेवं, सद्यश्चक्रेऽधिकारिभिः । विमानमिव शक्रस्य, त्रिदशैराभियोगिकैः ॥ ५७३ ॥
हर्षानराश्च नार्यश्च, मङ्गल्यद्रव्यपाणयः । तत्राऽऽयाता यथास्थानमुपावेश्यन्त वेत्रिभिः ॥५७४ ॥ कौङ्कुमेनाङ्गरागेण, ताम्बूलैः कुसुमैरपि । सच्चक्रिरे नियुक्तास्तान् , स्वबन्धूनिव गौरवात् ॥ ५७५ ॥
नेदुर्मङ्गलतूर्याणि, वर्याणि मधुरैः स्वरैः । उच्चेरुर्मङ्गलगिरः, परितः कुलयोषिताम् ॥ ५७६ ॥ 20 पवित्राः प्रादुरासंश्च, मत्रोद्गारा द्विजन्मनाम् । प्रारेभिरे च गन्धर्वैर्वर्द्धमानादिगीतयः ॥ ५७७ ॥
वैतालिकैरनुत्तालैश्चक्रे जयजयारवः । उदारैस्तत्प्रतिरवैर्मण्डपोऽपि जगाविव ॥ ५७८ ॥ गर्भस्थितस्य माताऽस्य, नाऽक्षयूते जिता मया । इति सूनोरजित इत्यकार्षीनाम भूपतिः ॥ ५७९ ॥ महेन महता भ्रातुष्पुत्रस्यापि वपुत्रवत् । नरेश्वरः सगर इत्यकरोन्नाम पावनम् ॥ ५८०॥
उत्कृष्टलक्षणशतैरुपलक्ष्यमाणो, क्षोणीसमुद्धरणकर्मसहौ कुमारौ ।
राजा भुजाविव निजावपरौ प्रपश्यन् , पीयूषमग्न इव सौख्यमखण्डमाप ॥ ५८१ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि
अजितखामितीर्थकर-सगरचक्रधरजन्मवर्णनो नाम द्वितीयः सर्गः ॥
वेगोत्तमान् । २ प्रतिजग्राह। केयवस्तुग्राझकरदण्डरहिताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org