________________
षष्ठः सर्गः त्रिषष्टिशलाकापुरुषचरितम् ।
२४१ वचसो दुर्वचस्याऽस्य, वक्ता धीरः किमेप वा । धीरः किमथवा श्रोता, यः श्रुत्वाऽपि न कुप्यति ॥२९५॥ ईदृक्षमपि चेत् स्वामी, श्रद्धत्ते श्रद्दधातु तत् । विना विप्रतिपत्तिं च, प्रत्येतव्यमदोऽपि हि ॥ २९६ ॥ पर्वता उत्पतन्त्युच्चैराकाशे कुसुमानि च । वैश्वानरः शीतरुचिर्वन्ध्यायाश्च स्तनन्धयः ॥ २९७ ॥ चक्रीवतो विषाणं च, दृषदस्तरणं जले। अवेदना नारकाच, नो चेदस्याऽपि वाक् तथा ॥२९८॥ युग्मम् ॥ ततो युक्तमयुक्तं च, विदन्नपि महीपतिः। तस्य नैमित्तिकस्याभिमुखमैक्षिष्ट कौतुकात् ॥ २९९ ॥ 5
अथ नैमित्तिकः सोऽपि, सोपहासगिरा तया । नुन्नः प्रयणेनेव, सावष्टम्भमदोऽवदत् ॥३०॥ राजन्! सभायां भवतः, किं नर्मसचिवा अमी? । वासन्तिकाः किमथवा ?, किमथ ग्रामपण्डिताः॥३०१॥ सभ्याः सभाया भवतोऽप्येवंप्रायाः प्रभो! यदि । निराश्रया सती हन्त !, तदा दग्धा विदग्धता ॥३०२॥ तव विश्वविदग्धस्य, मुग्धैरेभिः समं कथम् । गोष्ठी हा! मृगराजस्थ, मृगधूतॆरिवोचिता? ॥ ३०३ ॥ समं कुलक्रमेणैव, समायाता अमी यदि । स्त्रीवत् पोषणमात्रं तदर्हन्त्यल्पधियोऽपि हि ॥ ३०४ ॥ 10 न सभायामासयितुं, सभ्यत्वेनोचिता अमी । स्वर्ण-माणिक्यघटिते, किरीटे काचखण्डवत् ॥ ३०५ ॥ रहस्सं न हि जानन्ति, शास्त्रवाचां मनागपि । गर्विताः पाठमात्रेण, किन्त्वमी शुकवत् सदा ॥ ३०६ ॥ वाच उत्फुल्लगल्लानां, पल्लवग्राहिणामिमाः । ये जानन्ति रहस्साथ, परिभाव्य वदन्ति ते ॥ ३०७॥ उष्ट्रपृष्ठसमारूढः, कुतुपः सार्थवाहिनः । देशाद् देशान्तरं याति, पन्थानं किमु वेत्ति सः ॥ ३०८॥ तुम्बैः कक्षाविनिक्षिप्तैर्निम्नगायां सरस्यथ । तरत्यतारकोऽप्यम्भस्तरीतुं किं नु वेत्ति सः? ॥ ३०९ ॥ 15 गुरुवागनुवादेन, शास्त्राण्यतेऽप्यधीयते । रहस्यभूतमर्थ तु, न जानन्ति मनागपि ॥ ३१०॥ अश्रद्धेयं मम ज्ञानममीषां यदि दुर्धियाम् । मज्ज्ञानप्रत्ययाघाटः, किं दूरे सप्तवासरी ? ॥३११॥ जगदेकार्णवीकृत्य, पर्यस्तैर्निजवारिभिः । सत्यापयति मद्वाचं, भगवांश्चन्महार्णवः ॥ ३१२॥ तदमी पारिषद्यास्ते, ज्योतिर्ग्रन्थार्थवेदिनः । उत्पतिष्णून् पक्षिवत् किं, दर्शयिष्यन्ति पर्वतान् ? ॥३१३ ॥ द्रुमवद् दर्शयिष्यन्ति,खे पुष्पाण्यग्निमम्बुवत् । किं नु स्प्रक्ष्यन्ति वन्ध्या या,लप्स्यन्ते धेनुवत् सुतम्?॥३१४॥20 विषाणिनं महिषवत् , किमानेष्यन्ति रासभम् । तरीवत् तारयिष्यन्ति, किं पाषाणान् जलाशये? ॥३१५॥ अवेदनान् नारकांश्च, भाषमाणा इमे जडाः । किमन्यथा करिष्यन्ति, ग्रन्थान् सर्वज्ञभाषितान् ?॥३१६॥
॥ पञ्चभिः कुलकम् ॥ धृतस्त्वत्पुरुषैरत्राऽवस्थास्ये सप्त वासरान् । न खल्वेवमवष्टम्भ, कुर्वन्त्यनृतभाषिणः ॥ ३१७ ॥ सत्यं न चेन्मम वचः, सप्तमेऽह्नि भवेन्नृप । निग्राहणीयः श्वैपचैरहं तस्करवत् तदा ॥ ३१८ ॥ 25
राजाऽपि स्वानुवाचैवं, ब्राह्मणस्याऽस्य गीरियम् । अनिष्टा दुर्घटा वा संवादिन्यपि च यद्यपि ॥३१९॥ तथापि सप्ताहोरात्रान् , मनः सन्देग्धि हन्त! नः। भविष्यति तदन्तेऽस्य, सत्या-ऽसत्यविवेचनम् ॥३२०॥
॥ युग्मम् ।। इत्युक्त्वा न्यासमिव तं, नृपतिः स्वाङ्गरक्षिणाम् । द्विजं समर्पयामास, पर्षदं विससर्ज च ॥ ३२१ ॥ महत् कुतूहलमहो!, द्रष्टव्यं सप्तमे दिने । उन्मत्तभाषी विप्रोऽयं, तदहो ! निहनिष्यते ॥ ३२२ ॥ 30 ही! स्याद् युगान्तः को ह्येवमन्यथा मृत्यवे वदेत् ? । एवं तदानीमभवद् , विचित्रा नागरोक्तयः ॥३२३।।
॥ युग्मम् ॥ आश्चर्य दर्शयिष्यामि, सम्प्राप्तेऽहनि सप्तमे । इत्युत्सुको द्विजः कष्टं, षड् दिनान्यत्यवाहयत् ॥ ३२४ ॥
राजाऽपि संशयच्छेदोत्कण्ठितो गणयन मुहुः । कथञ्चिदतिचक्राम, षण्मासानिव षड् दिनान् ॥ ३२५ ॥ १ अग्निः । २ पुत्रः। ३ गर्दभस्य । ४ प्रतोदेन प्रेरितः । ५ विदूषकाः । ६ शृगालैः। ७ पदलवग्राहिणाम् । ८ चर्मपानम् । *नशान सं॥ ९सीमा। १० स्थिरताम् । ११ चाण्डालैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org