________________
२४२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व चन्द्रशालास्थितो राजा, सप्तमेऽहन्युवाच तम् । पूर्णोऽवधिस्त्वदीयस्य, वचसो जीवितस्य च ॥ ३२६ ॥ प्रलयाय त्वयाऽऽख्यातः, समुद्भान्तो महार्णवः । स दूरे तावदद्यापि, जललेशोऽपि नेक्ष्यते ॥ ३२७ ॥ सर्वप्रलयशंसित्वात् , तव सर्वोऽपि वैर्यहो! । अनृतायां प्रतिज्ञायां, निग्रहाय यतिष्यते ॥ ३२८ ॥
भवता जन्तुमात्रेण, निगृहीतेन किं मम । इदानीमपि गच्छ त्वमुन्मत्तेन त्वयोदितम् ॥ ३२९ ॥ 5 वराको मुच्यतामेष, मेषवद् यात्वसौ सुखम् । इत्यात्मरक्षकानुच्चैरादिदेश विशाम्पतिः ॥ ३३०॥
विप्रोऽपि प्रत्युवाचैवं, सिंतविच्छुरिताधरः । युक्तं प्राणिषु कारुण्यं सर्वेष्वपि महात्मनाम् ॥ ३३१॥ किन्तु नाऽद्यापि करुणापात्रमसि महीपते । न यावदनृतीस्यान्मे, प्रतिज्ञा सा तदोदिता ॥ ३३२ ॥ अनृतायां प्रतिज्ञायां, मद्वधस्य त्वमीशिषे । वधाहें मां तदा मुञ्चन् , कृपावानुच्यसे नृपः ॥ ३३३ ॥
मुक्तोऽपि नाऽहं यास्यामि, स्थास्यामि धृतवत् पुनः । स्तोकमेवान्तरं विद्धि, प्रतिज्ञापूरणे मम ।। ३३४ ॥ 10 क्षणमात्रं प्रतीक्षस्वाऽत्रैव प्रेक्षस्व च क्षणात् । उदस्तोदन्वदुल्लोलान् , यमस्येवाऽग्रसैनिकान् ॥ ३३५ ॥
नैमित्तिकसदस्यान् स्वान् , कुरुष्व क्षणसाक्षिणः । भविष्यामः क्षणादू , नाऽहं न त्वं न चापि ते ॥३३६ ॥ अभिधायेति तूष्णीकस्तस्थौ नैमित्तिकोऽथ सः । अव्यक्तः शुश्रुवे चोचैर्मृत्युगर्जिरिव ध्वनिः ॥ ३३७ ॥ आकसिकं महाध्वानं, तमातङ्कविधायिनम् । आकर्ण्य तस्थुरुत्कर्णाः, सर्वे वनमृगा इव ॥ ३३८ ॥ किश्चिदुन्नमितग्रीवः, किश्चिदुच्छस्य चाऽऽसनात् । किश्चिद् वक्रोष्ठिकां कुर्वन्नित्यूचे स पुनर्द्विजः॥ ३३९॥ ध्वनिराकर्ण्यतां राजन् !, रोदसी पूरयन्नयम् । भम्भाध्वनिस्तवेवाम्भोनिधेः प्रस्थानसूचकः ॥ ३४०॥ यस्य वारिलवेनाऽपि, गृहीतेन घनाघनाः । प्लावयन्ति महीं सर्वा, पुष्करावर्तकादयः ॥ ३४१॥ स मर्यादां समुल्लङ्घय, स्वयं प्रचलितोऽधुना । अम्भोधिः प्लावयन्नुर्वीमवार्यः प्रेक्ष्यतामयम् ॥ ३४२ ॥ बिभर्ति गर्तान् मनाति, वृक्षान् स्थगयति स्थलीः । गिरीनप्यन्तरयति, दुर्वारो हन्त ! वारिधिः ॥ ३४३ ॥
वायोर्वेश्मप्रवेशादि, ज्वलनस्य पुनर्जलम् । प्रतीकारोऽस्ति जलधेश्चलितस्य पुनर्न हि ॥ ३४४ ॥ 20 इति ब्रुवाणं ब्रह्माणं, पश्यतस्तं महीपतेः । मृगतृष्णाम्बुवद् दूराद् , विष्वगाविरभूजलम् ॥ ३४५ ॥
सौप्तिकेनेव विश्वस्तं, विश्वं संहृतमब्धिना । हा हेत्याक्रोशिनो दीनाः, सर्वे ददृशुरुन्मुखाः ॥ ३४६ ॥ _ अथ राज्ञः पुरोभूय, सोऽङ्गुल्या दर्शयन् द्विजः । प्लाव्यमानं प्लाव्यमानं, शशंसेति नृशंसवत् ॥ ३४७॥ निरीक्षन्ताममी भो भोः, सर्वे प्रत्यन्तपर्वताः । पिधीयन्ते पयोराशेः, पयोभिस्तिमिरैरिव ॥ ३४८॥ मन्ये प्रोन्मूलितान्यद्भिः, सर्वाण्यपि वनानि तु । दृश्यन्ते यत् तरन्तोऽमी, तरवो नक्रचक्रवत् ॥ ३४९ ॥ अधुना प्लावयत्युच्चैामा-ऽऽकर-पुरादिकम् । इदमम्भोनिधेरम्भो, धिगहो! भवितव्यता ॥ ३५० ॥ पुरीपरिसरोद्यानान्यपीदानी निरर्गलैः । पिहितान्यम्बुधेस्तोयैः, पिशुनैरिव सद्गुणाः ॥ ३५१ ॥ प्राकारवलयेऽमुष्मिन्नालवाल इवाऽधुना । धुंनीपतेर्खनन्नीरमास्फलत्युच्चकैप! ॥ ३५२ ॥ अयमुल्लङ्घयते वप्रः, क्षिप्रं प्रसृमराम्भसा । रभसादश्ववारेणाऽश्व इवाऽतितरविना ॥ ३५३ ॥
पश्यैतत् पूर्यते सर्व, सप्रासादं समन्दिरम् । अम्भोधेरेवमम्भोभिः, प्रचण्डैः कुण्डवत् पुरम् ॥ ३५४ ॥ 30 वेश्मद्वारे तवेदानीमश्वसैन्यमिवोल्ललत् । शब्दायमानमुद्दाम, देवाऽऽपतति वार्यदः ॥ ३५५ ॥
मनस्य पत्तनस्याऽस्याऽवशेषः पृथिवीपते! । अन्तरीप इवाऽयं ते, प्रासादः प्रेक्ष्यतेऽधुना ॥ ३५६ ॥ अध्यारोहति सोपानवीथीषु च पयोऽस्खलत् । तव प्रसाददुर्मत्तमिव सेवक-राजकम् ॥ ३५७ ॥ पूरिता प्रथमा भूमिर्द्वितीयाऽप्यद्य पूर्यते । तामापूर्य तृतीयाऽपि, पूर्यते भूमिरम्भसा ॥ ३५८ ॥ चतुर्थी पञ्चमी षष्ठी, चापि भूः पश्यतोऽपि हि । अहो! क्षणार्धमात्रेण, पूरिता वार्धिवारिभिः ॥३५९॥
हास्यव्याप्ताधरः। २ महाकलोलान् । ३ पीडाकरम् । ४ मन्दहास्यम् । ५ रात्रियुद्धेन । ६ वारिभिः। ७ समुद्रस्य । भतिवेगवता। ९ द्वीप इव ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org