________________
षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२४३ विषवेगैरिवाऽम्भोभिराक्रान्तस्याऽस्य समनः । शिरोगृहं शिर इव, शरीरस्याऽवशिष्यते ॥ ३६० ॥ उपस्थितो युगान्तोऽयमुक्तपूर्वीदमस्म्यहम् । क ते' सदस्यास्ते राजन् !, ये मां हैसितपूर्विणः ? ॥ ३६१॥ । ततश्च विश्वसंहारशोकाद् राजाऽपि सत्वरम् । झम्पादानार्थमुत्थायाऽवधात् परिकरं दृढम् ॥ ३६२ ॥ प्लवङ्गम इवोत्पत्य, ददौ झम्पां महीपतिः । स्वं च सिंहासनासीनं, तं चाऽपश्यत् तथास्थितम् ॥ ३६३ ॥ ययौ च क्वचिदप्यम्भस्तदम्भोधेः क्षणादपि । तस्थौ च विस्मयस्मेरलोचनः स महीपतिः॥ ३६४ ॥ 5 अभना(ग्नवृक्षा-द्रि-प्राकार-भवनादिकम् । ईक्षाञ्चके तथावस्थं, विश्वं विश्वम्भरापतिः ॥ ३६५ ॥ मायानैमित्तिकः सोऽपि, कट्यामावध्य मर्दलम् । आस्फालयन् वपाणिभ्यां, पपाटेति ससम्मदः॥३६६॥ ___ इन्द्रजालप्रयोगादौ, नमामि चरणाम्बुजे । इन्द्रजालकलास्रष्टुर्वत्रिणः शम्बरस्य च ॥ ३६७ ॥ निजसिंहासनासीनस्ततः स पृथिवीपतिः । किमेतदिति साश्चर्यो, द्विजन्मानमभाषत ॥ ३६८ ॥ अवदद् ब्राह्मणोऽप्येवं, निःशेषाणां कलाविदाम् । गुणप्रकाशी राजेति, पुरामि त्वामुपस्थितः ॥३६९॥ 10 इन्द्रजालं मतिभ्रंशकारीति न्यकृतस्त्वया । प्रदीयमानमप्यर्थमनादाय गतोऽस्म्यहम् ॥ ३७० ॥ अर्थे भूयस्यपि प्राप्ते, गुणार्जनभवः श्रमः । न याति गुणिनां किन्तु, गुणज्ञानेन गच्छति ॥ ३७१ ॥ अद्य नैमित्तिकीभूय, च्छलेनाऽप्यमुना मया । इन्द्रजालकलाभ्यासं, ज्ञापितोऽसि प्रसीद मे ॥ ३७२ ॥ सदस्या न्यकृतास्ते यचिरं यत् त्वं च मोहितः । राजन् ! सहख तत् सर्व, नाऽपराधोऽस्ति तत्वतः॥३७३॥
इत्युदित्वा स्थिते तस्मिन् , पार्थिवः परमार्थवित् । निजगादेति पीयूषस्यन्दसोदरया गिरा ॥ ३७४ ॥15 राजानं राजसभ्यांश्च, न्यकार्षमिति चेतसि । मास भैपीरहो! विप्रोपकारी परमोऽसि मे ॥ ३७५ ॥ इन्द्रजालमिदं ह्यय, दर्शयित्वा त्वया द्विज ! । तत्तुल्यमेतं संसारमसारं ज्ञापितोऽस्म्यहम् ॥ ३७६ ॥ दृष्टनष्टमिदं यद्वत् , त्वयाऽऽविर्भावितं जलम् । तद्वत् पदार्थाः सर्वेऽपि, संसारेऽद्यापि का रतिः ॥३७७॥ चिरमित्यादिसंसारदोषान् व्याहृत्य भूपतिः । कृतार्थीकृत्य तं विप्रं, प्रव्रज्यामाददे स्वयम् ॥ ३७८ ॥ * तदिन्द्रजालरूपोऽयं, भवोऽसाभिरनूयते । प्रभो ! वेत्सि स्वयं हि त्वं, सर्वज्ञकुलचन्द्रमाः ॥ ३७९ ॥20 वाचस्पतिमतिर्वाचा, शोकॅशल्यविशल्यया । इत्युवाच द्वितीयोऽपि, मत्री नृपतिपुङ्गवम् ॥ ३८० ॥
इहैव भरतक्षेत्रे, कमिन्नपि पुरे पुरा । बभूव नृपतिः कोऽपि, विवेकादिगुणाकरः ॥ ३८१॥ तमास्थानस्थमन्येद्युः, पार्थिवं कोऽपि पूरुषः । मायाप्रयोगनिष्णं खं, ज्ञापयामास वेत्रिणा ॥ ३८२ ॥ प्रवेशं नृपतिस्तस्य, नानुजज्ञे विशुद्धधीः । न मायिनामृजूनां चार्जर्य शाश्वतवैरिवत् ॥ ३८३ ॥ प्रतिषेधविलक्षः सन् , स नीत्वाऽहानि कानिचित् । चक्रे रूपपरावर्त, कामरूप इवाऽमरः ॥ ३८४ ॥ 25 स तमेवाऽन्यदा भूपमुफ्तस्थे विहायसा । कृपाणपाणिः फैलकी, वरनारीसमन्वितः ॥ ३८५ ॥ असि कस्त्वमियं का च ?, हेतुना केन चाऽऽगमः । इति राज्ञा स्वयं पृष्टः, स पुमानब्रवीदिति ॥३८६ ॥ __अहं विद्याधरो विद्याधरी चेयं मम प्रिया । विद्याधरेण केनापि, जातवैरोऽसि भूपते ॥ ३८७ ॥ इयं हि पूर्व तेन स्त्रीलम्पटेन दुरात्मना । सुधा विधुन्तुदेनेवाऽपहता च्छलकर्मणा ॥ ३८८ ॥ प्रत्याहार्षमहं तस्मादिमां प्राणप्रियां प्रियाम् । नारीपरिभवं राजन् !, सहन्ते पशवोऽपि न ॥ ३८९ ॥ 30 चरितार्थी प्रचण्डौ ते, दोर्दण्डौ क्षितिधारणात् । अर्थिनां दौस्थ्यघातेन, सम्पच्च सफला तव ॥ ३९० ॥ भीतानामभयदानात् , कृतार्थो विक्रमश्च ते । विदुषां संशयच्छेदादमोघा शास्त्रवैदुषी ॥ ३९१ ॥ विश्वस्य कण्टकोद्धारात् , फलवच्छस्त्रकौशलम् । अन्येऽप्यन्योपकारेण, कृतार्थास्ते पृथग्गुणाः ॥ ३९२ ॥ परस्त्रीसोदरत्वं च, तवेदं विश्वविश्रुतम् । अस्तु मय्युपकारेण, विशिष्टफलवनृप ! ॥३९३ ॥
तव इत्यर्थः। २ पूर्व हसितवन्तः । ३ अभुमा अनताः। देवविशेषः । ५ तिरस्कृतः। ६ अमृतरससमानया। ७ शोक एव शल्यं तदर्थ विशल्यौषधितुल्यया। नानुमेने। ९ मैत्री। १. फलकधरः। राहुणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org