________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व
प्रियया पार्श्ववर्तिन्या, सन्दानित इवाऽनया । नालम्भविष्णुर्योद्धुं हि, परैश्छलपरैरहम् ॥ ३९४ ॥ नाऽहं हस्तिबलं याचे, याचे वाजिबलं न वा । न वा रथवलं याचे, याचे पत्तिबलं न वा ।। ३९५ ।। आत्मसाहायिके त्वत्तः, किन्तु याचे नराधिपं । । एतस्या न्यासयत् त्राणं, परनारीसहोदर ! ॥ ३९६ ॥ स्वयं स्त्रीलम्पटः कोऽपि, परित्राणसहोऽपि सन् । कोऽप्यस्त्रीलम्पटः स्वेन, परित्राणासहः परम् ||३९७|| त्वमस्त्रीलम्पटस्त्राणसहश्चाऽसि महीपते । । तेन दूरादुपेत्याऽपि त्वमसि प्रार्थितो मया ॥ ३९८ ॥ अयं मत्प्रेयसीरूपो, न्यासश्चेत् स्वीकृतस्त्वया । ज्ञायतां हत एवाऽरिः, स मया बलवानपि ।। ३९९ ।। अथोल्लसत्स्मितज्योत्स्नापवित्रमुखचन्द्रमाः । उदारचरितः पृथ्वीपतिरेवमवोचत ।। ४०० ॥ कल्पद्रुरिव पत्राणि, रत्नाकर इवोदकम् । कामधेनुरिव क्षीरं, रोहणाद्रिरिवोपलम् ॥ ४०१ ॥ अन्नमात्रमिव श्रीदश्छायामात्रमिवाम्बुदः । दूरादुपेत्य भवता कियदस्मीदमर्थितः १ ||४०२॥ युग्मम् ॥ 10 तमेव दर्शय निजं, रिपुं येन निहन्म्यहम् । निर्विशङ्कं ततो भोगान्, भुङ्ग मञ्जु विचक्षण ! ॥ ४०३ ॥ नृपवागमृताप्लावपूर्ण श्रवणकोटरः । मुदितः पुरुषः सोऽपि, जगादेति महीपतिम् ॥ ४०४ ॥ रजतं जातरूपं च, समस्ता रत्नजातयः । पितरो मातरः पुत्राः, सर्व चाऽन्यद् गृहादिकम् ॥ ४०५ ॥ विश्वासेनाऽल्पकेनाऽपि, न्यासेऽर्पयितुमीश्यते । विश्वासेनाऽपि महता, न पुनः प्रेयसी क्वचित् ॥ ४०६ ॥ राजन्नीदृशविश्वासस्थानं त्वमसि नाऽपरः । चन्दनास्पदमेको हि, मलयः सानुमानिह ।। ४०७ ।। बिभ्राणेन त्वया न्यासे, मदीयां प्रेयसीमिमाम् । त्वयैव निहतो मन्ये, द्विषन्तप ! स मे द्विषन् ॥ ४०८ ॥ भार्यान्यासे त्वयोपात्ते, त्वद्विश्वाससमाहितः । विश्वस्तभार्यान् द्विषतः, करिष्याम्यधुना ननु ॥ ४०९ ॥ क्षोणीनाथ ! तवाऽत्रैव तिष्ठतो नैचिरादहम् । केसरीव समुत्पत्य दर्शयिष्यामि विक्रमम् ॥ ४१० ॥ अनुमन्यख गच्छामि, स्वच्छन्दं पक्षिराडिव । एषोऽहमन्तरिक्षेण, क्षणादस्खलितस्यैदः || ४११ ॥
5
15
20
२४४
30
राजाsप्यूचे व्रज खैरं, विद्याधर ! महाभट ! । तिष्ठत्वेषा तु ते भार्या, मद्धानि पितृधामवत् ॥ ४१२ ॥ अथोत्पपात स पुमान्, विहायोवद् विहायसा । निस्त्रिंशदण्ड - फलके, पक्षाविव विजृम्भयन् ॥ ४१३ ॥ तद्भार्या तु स्वदुहितृप्रतिपत्तिपुरःसरम् । राज्ञा सम्भाषिता तस्थौ, तत्रैव खस्थमानसा ॥ ४१४ ॥ तत्रैव तिष्ठन् नृपतिर्जायमानां नभस्तले । क्ष्वेडामाकर्णयामास, स्तनितं वार्मुचामिव ॥ ४१५ ॥ विचित्रखड्ग-फलकप्रहारध्वनितान्यपि । तडत्तडितिविस्फूर्जत्तडित्ताडानिवाऽशृणोत् ।। ४१६ ॥
सोऽसि सोऽसि नासि नासि, तिष्ठ तिष्ठ व्रज व्रज । एष त्वां हन्मि हन्मीति, व्योम्नि शुश्रुविरे गिरः ॥ ४१७॥ 25 नृपतिः पर्षदासीनः, पार्षद्यैः सह विस्मितः । उपरागेक्षण इव तस्थौ सुचिरमुन्मुखः ॥ ४१८ ॥ इत्थं सम्पश्यमानस्य, भूपतेः पुरतो भुवि । भुजदण्डः पपातैको, रत्नकङ्कणभूषणः ॥ ४१९ ॥ उपलक्षयितुं तं च, बाहुदण्डं दिवश्रयुतम् । विद्याधरी पुरोभूय, साऽपश्यच्च जगाद च ।। ४२० ।। गण्डयोरुपधानत्वं, कर्णयोरवतंसताम् । कण्ठे च निष्कंतां योऽगात्, सोऽयं मत्प्रेयसो भुजः ॥ ४२१ ॥ एवं वदन्त्यां पश्यन्त्यामेव तस्यां मृगीदृशि । भुवि पादः पपातैको, दोष्णः प्रीत्येव तस्य तु ॥ ४२२ ॥ सपादकटकं पादमुपलक्ष्य तमप्यथ । उदश्रुवदना पद्मवदना साऽवदत् पुनः ॥ ४२३ ।। चिरमभ्यक्त उन्मृष्टः, क्षालितोऽथ विलेपितः । स्वहस्तेन मया यो हि स पादो मत्पतेरयम् ॥ ४२४ ॥ एवं तस्या बुवाणायाः, पुरो गीर्वाणवर्त्मनः । वातोद्धूतद्रुशाखेव, द्वितीयोऽपि भुजोऽपतत् ॥ ४२५ ॥ तमप्यालोक्य दोर्दण्डं, रत्नकेयूर - कङ्कणम् । सोवाच स्पन्दमानाक्षी, धारायत्रवधूरिव ॥ ४२६ ॥ सोऽयं सीमन्तस्वनाचतुरः केशकङ्कतः । विचित्रपत्रलतिकालीला लिपिकरः करः ॥ ४२७ ॥
१ बज्र इव । २ शत्रुभिः । * आत्मा साहा संता० सङ्घ ३ ॥ ३ सद्यः । ४ गरुड इव । ५ वेगः । ६ पक्षिवत् । ७ मेघानामिव । ८ उपरागे ग्रहणे ईक्षणे नेत्रे यस्य सः । ९ हृदयाभूषणम् । १० करस्य । ११ आकाशात् । १२ केशप्रसाधनसाधनम् ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org