________________
१८२ कलिकालसर्पज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व जय त्रिभुवनाधीश !, जय विश्वकवत्सल ! । जय पुण्यलतोद्भेदनवाम्बुद! जगत्प्रभो ! ॥ ४९४ ॥ स्वामिन् ! विमानाद् विजयादवतीर्णोऽसि भूतले । इदं जगत् प्रीणयितुं, सरिदोघ इवाचलात् ॥ ४९५॥ बीजं मोक्षगुमस्येव, ज्ञानत्रितयमुज्वलम् । स्वामिन्नाजन्मसिद्धं ते, शीतलत्वमिवाम्भसः॥ ४९६ ॥
ये त्वां त्रिभुवनाधीश, धारयन्ति सदा हृदि । सम्मुखीनाः श्रियस्तेषामादर्शप्रतिबिम्बवत् ॥ ४९७ ॥ 5 उल्वणैर्बाध्यमानानां, कर्मरोगैः शरीरिणाम् । दिष्ट्या त्वमगदङ्कारप्रतीकारकरोऽभवः ॥ ४९८ ॥
त्वद्दर्शनसुधासारास्वादस्य त्रिजगत्पते ! । मरुपान्था इव वयं, न तृप्यामो मनागपि ॥ ४९९ ॥ रथः सारथिनेवाऽद्य, कर्णधारेण नौरिव । पथा बजतु लोकोऽयं, त्वया नेत्रा जगत्पते ! ॥ ५०० ॥ त्वत्पादपद्मशुश्रूषासमयाधिगमेन नः । भगवन्निदमैश्वर्य, कृतार्थमधुनाऽभवत् ॥ ५०१॥
__ स्तुत्वैवमादिभिः श्लोकैरष्टोत्तरशतेन तम् । विचक्रे पञ्चधा रूपं, प्राग्वत् प्राचीनबर्हिषा ॥ ५०२ ।। 10 नाथमेकोऽग्रहीच्छत्रमेको द्वावथ चामरे । वज्रपाणिः पुरस्तस्थावेकः शक्रस्तु पूर्ववत् ॥ ५०३ ॥
ततो मनोवत् स याकामीनः सपरिच्छदः । विनीतात्मा विनीतायां, जितशत्रुगृहं ययौ ॥५०४ ॥ तीर्थकृत्प्रतिरूपं स, संवत्रे तत्र तत्क्षणात् । विजयावामिनीपार्श्वे, तीर्थनाथं न्यधत्त च ॥ ५०५ ॥ उच्छीर्षे कुण्डलद्वन्द्वं, न्यधादर्केन्दुसोदरम् । देवदूष्यं च मसृणं, कोमलं शीतलं प्रभोः ॥ ५०६ ॥ दिवोऽवतरदर्कामं, स्वर्णप्राकारमण्डितम् । बबन्ध भर्तुरुल्लोचे, शक्रः श्रीदामगण्डकम् ॥ ५०७॥ मणि-रत्रयुता हारा, अर्घहाराश्च हारिणः । हरिणा दधिरे तत्र, दृग्विनोदकृते प्रभोः ॥ ५०८ ॥ तत्राऽपस्खापनी देव्या, विजयाया जहार सः । कुमुदिन्या इव शशी, पग्रिन्या इव चार्यमा ॥५०९॥ शक्रादिष्टवैश्रवणनिदेशेन दिवौकसः । जृम्भका नाम तत्रेयुर्जितशत्रुनिकेतने ॥ ५१० ॥ हिरण्य-स्वर्ण-रत्नानां, कोटीात्रिंशतं पृथक् । ववृषुस्ते द्वात्रिंशतं, नन्दभद्रासनानि च ॥५११॥ व्यधुर्भूषणवृष्टिं च, मण्यङ्गा इव शाखिनः । वस्त्रदृष्टिमथाऽनग्ना, इव कल्पमहीरुहाः॥ ५१२ ॥ वनानि भद्रशालादीन्यवचित्येव सर्वतः। पत्रवृष्टिं पुष्पवृष्टिं, फलवृष्टिं च ते व्यधुः॥५१३॥ विचित्रवर्णसुमनोमाल्यवृष्टिं महीयसीम् । वितेनिरे च चित्राङ्गनामकल्पद्रुमा इव ॥ ५१४ ॥ विदधुर्गन्धवृष्टिं च, चूर्णवृष्टिं च पावनीम् । उत्क्षिप्तैलादिकक्षोदा, इव दक्षिणमारुताः ॥ ५१५ ॥ अत्युदारां वसुधारावृष्टिं च परितेनिरे । वारिधारावृष्टिमिव, पुष्करावर्तवारिदाः॥ ५१६ ॥
सौधर्मशासिनः पाकशासनस्याऽनुशासनात् । अथाऽऽभियोगिका देवा, इत्थमाघोषणां व्यधुः॥५१७॥ 25 आकर्णयन्तु सर्वेऽपि, भो भो वैमानिकाः सुराः । भवनाधिपति-ज्योतिय॑न्तराश्चाधानतः ॥५१८॥
अर्हतोऽर्हजनन्याश्च, योऽशुभं चिन्तयिष्यति । तन्मूर्धा सप्तधा गच्छत्वर्जकस्येव मञ्जरी॥ ५१९॥ तदा च मेरुशिखरात्, सेन्द्राः सर्वे सुरा-ऽसुराः । द्वीपं कन्दलितानन्दा, नन्दीश्वरमुपाययुः ॥ ५२०॥ भगवन्तं नमस्कृत्य, जितशत्रुनिकेतनात् । ययौ नन्दीश्वरद्वीपं, सौधर्मेन्द्रोऽपि तत्क्षणात् ॥५२१॥
तत्राञ्जनाद्रौ पूर्वसिन् , शाश्वतायतनेषु सः । शाश्वताहत्प्रतिमानां, चकाराऽष्टाह्निकोत्सवम् ॥ ५२२ ॥ 30 सौधर्मेन्द्रस्य चत्वारो, लोकपालाश्चतुर्ध्वपि । अष्टाह्निकोत्सवं हृष्टाश्चक्रुर्दधिमुखाद्रिषु ॥ ५२३ ॥
उत्तरसिन्नञ्जनाद्रौ, शाश्वतायतनेषु तु । ईशानेन्द्रः शाश्वतार्हत्प्रतिमाष्टाह्निका व्यधात् ॥ ५२४ ॥ लोकपालाश्च तस्यापि, प्राग्वद् दधिमुखाद्रिषु । ऋषभादिप्रतिमानां, व्यधुरष्टाह्निकोत्सवम् ॥ ५२५ ॥ अष्टाह्निकां चमरेन्द्रश्चक्रेऽपाच्येऽञ्जनाचले । चतुर्पु तद्दधिमुखाद्रिषु तस्य तु लोकपाः ॥ ५२६ ॥ बलीन्द्रोऽष्टाह्निकां चक्रे, पश्चिमे त्वञ्जनाचले । तल्लोकपालाः शैलेषु, चक्रुर्दधिमुखेषु तु ॥ ५२७ ॥
* ङ्कारः, प्रति सङ्घ २ सङ्घ ३ ॥ १ इन्द्रेण । २ इन्द्रः। ३ नम्रात्मा। ४ स्निग्धम् । ५ मनोहराः । ६ सूर्यः। ७ सिंहासनविशेषाः। ८ सावधानतया। ९ पल्लवितानन्दाः ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org