________________
द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
१८१ वस्त्रेण देवदूष्येण, ममार्ज खामिनस्तनुम् । दक्षसंवाहक इव, सुखस्पर्शेन पाणिना ॥ ४६१ ॥ आनन्दं नाटय चैनोव्यं नट इवाऽच्युतः । पुरतस्त्रिजगद्भतुरभ्यनैषीत् सहामरैः॥ ४६२॥ मोशीर्षचन्दनरसैः, स्वामिनोऽथ विलेपनम् । दिव्यभौमैश्च कुसुमैरचा च विदधेऽच्युतः ॥ ४६३ ॥ कुम्भो भद्रासना-ऽऽदशौं, श्रीवत्स-खस्तिकावपि । नन्द्यावर्तो वर्धमानो, मत्स्य इत्यष्टमङ्गलीम् ॥ ४६४ ॥ अत्यच्छै रजतमयैरखण्डैरथ तण्डुलैः । आरणा-ऽच्युतकल्पेन्द्र, आलिलेखाऽग्रतः प्रभोः॥४६५॥ युग्मम् ॥ 5 भक्तिनिनो जादघ्नं, कुसुमप्रकरं ततः । अमुञ्चत् पञ्चवर्ण स, सन्ध्याभ्रकणिकोपमम् ॥ ४६६ ॥ उत्तोरणामिव दिवं, कुर्वाणो धूमवर्तिभिः । उर्दूपदहनो धूपमधूपायदथाऽच्युतः॥४६७ ॥ उत्क्षिप्यमाणे धूपे च, वाद्यमानाऽमरोत्तमैः । सनिलेव महाघोषा, घण्टा तारस्वरा बभौ ॥ ४६८ ॥ हरिरुत्तारयामासाऽऽरात्रिकं स्वामिने स्वयम् । उच्छिखामण्डलं ज्योतिर्मण्डलश्रीविडम्बकम् ॥ ४६९ ॥ ततः पदानि सप्ताष्टान्यपक्रम्य प्रणम्य च । रोमाञ्चितोऽच्युतपतिः, स्तोतुमेवं प्रचक्रमे ॥ ४७० ॥ 10
जात्यजाम्बूनदच्छेदच्छविच्छन्ननभस्तल! प्रभो ! तबाधौतशुचिः, कायः कमिव नाऽऽक्षिपेत् १॥४७१॥ मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाऽङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥ ४७२ ॥ दिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ!, नाऽङ्गे रोगोरगवजाः ॥ ४७३ ॥ त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः ॥ ४७४॥ न केवलं रागमुक्तं, वीतराग! मनस्तव । वपुःस्थितं रक्तमपि, क्षीरंधारासहोदरम् ॥ ४७५ ॥ 15 जगद्विलक्षणं किं वा, तवाऽन्यद् वक्तुमीश्महे ? । यदविसंमबीभत्सं, शुभ्रं मांसमपि प्रभो ॥ ४७६ ॥ जल-स्थलसमुद्भूताः, सन्त्यज्य सुमनःस्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः ॥ ४७७॥ लोकोत्तरचमत्कारकरी तव भवस्थितिः । यतो नाऽऽहार नीहारौ, गोचरश्चर्मचक्षुषाम् ॥ ४७८ ॥
इति स्तुत्वा प्रभुं किञ्चिदपक्रम्य कृताञ्जलिः । शुश्रूषातत्परस्तस्थावच्युतोऽच्युतभक्तिभाक् ॥४७९॥ इन्द्रा द्वापष्टिरन्येऽपि, क्रमेण सपरिच्छदाः । अभिषेकं जगद्भर्तुश्चक्रुरच्युतनाथवत् ॥ ४८०॥ 20 तद्वत् स्तुत्वा नमस्कृत्याऽपक्रम्य च कृताञ्जलि । उपासाञ्चक्रिरे नाथं, तत्पराः किङ्करा इव ॥ ४८१ ॥ __ अथ सौधर्मकल्पेन्द्र, इव द्रागतिभक्तितः । विचके पश्चधाऽऽत्मानं, द्वितीयस्वर्गवासवः ॥ ४८२॥ अतिपाण्डुकम्बलायामर्धचन्द्रसमाकृतौ । ऐशानकल्पवत् सिंहासनमेकोऽथ शिश्रिये ॥४८३ ॥ शक्रोत्सङ्गानिजोत्सङ्ग, रथादिव स्थान्तरम् । स समारोपयामास, यतमानो जगद्गुरुम् ॥ ४८४ ॥ आतपत्रं दधारको, विशदं खामिमूर्धनि । धारयामासतुश्चान्यौ, चामरे प्रभुपार्श्वयोः ॥ ४८५ ॥ 25 पञ्चमः शूलपाणिः सन् , पुरस्तस्थौ जगत्पतेः । प्रतीहार इवोदारेणाऽऽकारेण मनोरमः ॥ ४८६॥
ततः सौधर्मकल्पेन्द्रोऽप्यमरैराभियोगिकैः । अभिषेकोपकरणद्रव्याण्यानाययद् द्रुतम् ॥ ४८७ ॥ दिक्षु प्रभोश्चतसृषु, स्फटिकाद्रीनिवाऽपरान् । स्फाटिकान् सोऽतिचंतुरचतुरो व्यकरोद् वृषान् ॥ ४८८ ॥ तेषां वृषाणां शृङ्गेभ्योऽष्टभ्य उत्पेतुरुज्वलाः । अष्टाम्बुधारा धवला, रश्मिदण्डा इवैन्दवाः ॥ ४८९ ॥ समुत्पत्य मिलन्ति स, पुरो नद्य इवैकतः । निपतन्ति स पयसां, पत्याविव जगत्पतौ ॥ ४९०॥ 30 अभिषेकं जगद्भतुरेवङ्कारं चकार सः । भजयन्तरेण कविवच्छक्ताः खं ज्ञापयन्ति हि ॥ ४९१॥ भाष्टिं विलेपनं पूजामष्टमङ्गलिकामपि । आरात्रिकं च विधिना, विदधे सोऽच्युतेन्द्रवत् ॥ ४९२ ॥ शक्रस्तवेन वन्दित्वा, प्रणम्य च जगत्पतिम् । हर्षगद्गदया वाचा, स स्तोतुं प्रास्तवीदिति ॥ ४९३ ॥
१ अङ्गसंवाहनकर्मणि चतुरः सेवक इव । २ अतिखच्छैः। ३ जानुप्रमाणम् । * उद्धृतदहनो सङ्घ १॥ सुवर्णम् । ५ आदर्शतलप्रतिविम्बितप्रतिमासाशे। ६ दुग्धधारासाशम् । ७ दुर्गन्धरहितम्। ८ कुसुममालाः। ९ अतिदक्षः। १. समुद्रे । "मार्जनम् ।
त्रिषष्टि. २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org