________________
१८० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व गङ्गादिषु इदिनीषु, पद्मादिषु इदेषु च । मृदम्भोजानि जगृहुः, सन्तप्ताः पथिका इव ॥ ४२९ ॥ सर्वतः कुलशैलेभ्यो, वैताट्येभ्यश्च सर्वतः । सर्वतो विजयेभ्यश्च, वक्षारेभ्यश्च सर्वतः ॥ ४३० ॥ देवोत्तरकुरुभ्यश्च, सुमेरुपरिधिस्थितात् । भद्रशालानन्दनाच, सौमनसाच पाण्डकात् ॥४३१॥ पर्वतेभ्यश्च मलय-दर्दुरादिभ्य ओषधीः । गन्धान् पुष्पाणि सिद्धार्थास्तेऽगृहंस्तुवराणि च ॥ ४३२ ॥
॥त्रिभिर्विशेषकम् ॥ तानि द्रव्याणि सर्वाणि, मेलयन्ति म नाकिनः । भेषजानीव भिषजो, गन्धानिव च गान्धिकाः ॥४३३॥ तदुपादाय ते सर्वमुपस्वामि समाययुः । अच्युतेन्द्रस्य मनसा, स्पर्द्धमाना इवाऽऽदरात् ।। ४३४ ।।
ततश्च भक्तिभागिन्द्र, आरणा-ऽच्युतकल्पयोः। वृतः सहस्रर्दशभिः, सामानिकदिवौकसाम् ॥४३५॥
त्रयस्त्रिंशत्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः । पर्षद्भिस्तिसृभिः सैन्यैः, सैन्यनाथैश्च सप्तभिः ॥ ४३६ ॥ 10
चत्वारिंशता सहजैश्वाऽऽत्मरक्षदिवौकसाम् । उत्तरासङ्गवानग्रे, विमुच्य कुसुमाञ्जलिम् ॥ ४३७ ॥ कृतचर्चाश्चन्दनेन, मेराजपिहिताननान् । अष्टोत्तरं सहस्रं स, कुम्भान् देवैः सहाऽग्रहीत् ॥ ४३८ ॥ तान् कुम्भान् लोठयामास, स्वामिमूर्धन्यथाऽच्युतः। भक्तिप्रकर्षतः कुर्वन्नात्मवन्नमिताननान् ॥४३९ ॥ स्वामिसङ्गात् तदम्भोऽगात् , पुण्यमप्यतिपुण्यताम् । तापनीये ह्यलङ्कारे, सुतरां द्योतते मणिः ॥४४॥
पानीयधारोद्गिरणान्नदन्तः कलसाश्च ते । स्वामिस्त्रात्रविधौ मत्रान् , पठन्त इव रेजिरे ॥ ४४१॥ 15 कुम्भेभ्यो निपतंस्तेभ्योऽम्भःप्रवाहो महांस्तदा । स्वामिलावण्यसरितावेणीसङ्गमतां ययौ ॥ ४४२ ॥
अङ्गेषु स्वामिनः स्वर्णगौरेषु प्रसरत् पयः । तद् गाङ्गमिव हैमेषु, पद्मखण्डेष्वराजत ॥ ४४३ ॥ आ सर्वाङ्गं प्रसरता, निर्मलेनाऽतिहारिणा । वारिणा शुशुभे तेन, संसंव्यान इव प्रभुः॥ ४४४ ॥ तत्रेन्द्रेभ्यः सुरेभ्यश्च, केपि भक्तिभराकुलाः । उत्क्षिप्य नपयितृभ्यः, पूर्णकुम्भानुपानयन् ॥ ४४५ ॥
तस्थुछायाकराः केचित् , केचिच्चामरपाणयः । उद्धृपदहनाः केचित् , पुष्प-गन्धभृतोऽपरे ॥ ४४६ ॥ 20 पेटुः स्नात्रविधि केऽपि, केऽपि चक्रुर्जयारवम् । केचिच्च ताडयामासुर्दुन्दुभीन् कोणपाणयः ॥ ४४७ ॥
केऽप्युत्फुल्लकपोला-ऽऽस्यास्तारं शङ्खानपूरयन् । मिथ आस्फालयामासुः, कांस्यतालानथाऽपरे ॥ ४४८ ॥ आजघ्नुर्झल्लरीः केपि, रत्नदण्डैरखण्डितैः । केचिदुन्नादचण्डिम्नो, डिण्डिमान् पर्यताडयन् ॥ ४४९ ॥ नर्तकीवत् केऽप्यनृत्यन्नुचैस्ताललयानुगम् । नम्रतुर्विकृतं केऽपि, हास्याय विटंचेटवत् ॥ ४५० ॥
गायनीवत् केऽप्यगायन, प्रबन्धैः करणादिभिः । जगुर्गोपालवत् केचिदुच्छृङ्खलगलस्वरम् ॥ ४५१ ॥ 25 द्वात्रिंशत्पात्रकं केऽपि, नाटकाभिनयं व्यधुः । केचिदप्युत्पतन्ति स, निपतन्ति स केचन ॥ ४५२ ॥
रत्नानि ववृषुः केपि, ववृषुः केऽपि काञ्चनम् । अवर्षन् भूषणान्येकेऽवपंचूर्णानि केचन ॥ ४५३ ॥ ववृषुः केपि माल्यानि, पुष्पाणि च फलानि च । ववल्गुश्चतुरं केचित् , केचित् क्ष्वेडी च चक्रिरे ॥४५४॥ हेषी विदधिरे केऽपि, चक्रिरे केऽपि बंहितम् । स्थघोषं व्यधुः केऽपि, नादांस्त्रीन् केऽपि चक्रिरे ॥४५५॥
केपि चाचालयन् पदिदर्दरैर्मन्दराचलम् । मेदिनी दलयामासुश्चपेटौंभिश्च केचन ॥ ४५६॥ 30 केचिदानन्दबहलं, मुहुः कोलाहलं व्यधुः । भ्रमन्तो मण्डलीभूय, जगुः केऽपि च रासकान् ॥ ४५७ ॥
कृत्रिमं जज्वलुः केपि, प्रणेदुः केपि कौतुकात् । अगर्जन्नर्जितं केपि, विद्युद्वत् केचिदद्युतन ॥४५८॥
एवं विचित्रमानन्दाचेष्टमानेषु नाकिषु । अच्युतेन्द्रो भगवतोऽभिषेकमकरोन्मुदा ॥ ४५९ ॥ शिरस्यञ्जलिमुत्तंससनिभं विरचय्य सः । व्याजहार जय जयेत्युच्चैरव्याजभक्तिभाक् ॥ ४६०॥
१ विकसितकमलाच्छादितमुखान् । २ सौवर्णे । ३ शब्दायमानाः। ४ सुवर्णकमलेपु गङ्गावारीव । ५ उत्तरीयेण सहित इव । ६ छत्रधारिणः। ७ यष्टिपाणयः । ८ हास्यकारकनटवत् । ९ गायकीवत् । १० सिंहनादम्। ११ अश्वनादम्। १२ हस्तिनादम् । १३ पादघातैः। १४ करतलघातैः । १५ शिरोभूषणसदृशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org