________________
द्वितीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । तत्र मेघस्वरा क्रौञ्च-हंस-मञ्जुस्वरास्तथा । नन्दिस्वरा नन्दिघोषा, सुस्वरा मधुरस्वरा ॥३९६ ॥ म घोषा चेति घण्टा, नेदुस्तेषां यथाक्रमम् । नागादिकानां भवनपतीनां पक्षयोर्द्वयोः ॥ ३९७ ॥ द्वयोरपि ततः श्रेण्योः, सर्वे नागादयः क्षणात् । स्खं स्वमिन्द्रं समाजग्मुः, स्वस्थानमिव वाजिनः॥३९८॥ तेषामप्याज्ञया स्खे खे, त्रिदशा आभियोगिकाः । रन-स्वर्णविचित्राणि, विमानानि तदैव हि ॥ ३९९ ॥ योजनानां पञ्चविंशिसहस्रान् विस्तृतानि च । सार्धद्वियोजनशतेन्द्रध्वजानि विचक्रिरे ॥ ४००॥ 5 प्रत्येकं महिपीभिस्ते, पड्भिः सामानिकैस्तथा । पट्सहस्रैश्च तेभ्यश्चाऽङ्गरक्षैस्तु चतुर्गुणैः ॥ ४०१॥ अन्यैश्चमर-बलिवत् , बायस्त्रिंशादिभिवताः । विमानानि समारुह्य, मेरौ स्वाम्यन्तिके ययुः ॥४०२ ॥
पेशाचानांच भूतानां,यक्षाणांरक्षसामपि। किन्नर-किम्पुरुषा-हि-गन्धर्वाणामधीश्वराः॥४०३ कालः सरूपोऽथ पूर्णभद्रो भीमश्च किन्नरः। सत्पुरुषश्चाऽतिकायो, नाम्ना गीतरतिस्तथा॥४०४॥ दक्षिणश्रेणिगा एते, ह्युत्तरश्रेणिगास्त्वमी । महाकालोप्रतिरूपो, माणिभद्राभिधोऽपि च ॥४०५॥10 महाभीमः किम्पुरुषो, महापुरुष एव च । महाकायो गीतयशा, द्वयेऽप्यासनकम्पतः ॥४०६॥ ज्ञात्वाऽर्हजन्म ते स्वैः स्वैः, सैन्यनाथैनिजां निजाम् । मञ्जुखरां मञ्जुघोषां, घण्टामास्फालयन् क्रमात् ४०७
॥पञ्चभिः कुलकम् ।। शान्ते नादे च घण्टानां, सेनान्या घोषणे कृते । व्यन्तरास्ते पिशाचाद्या, एयुरिन्द्रान्निजान्निजान् ॥४०८॥ इन्द्राः परिवृता देवैरत्रायस्त्रिंश-लोकपैः। त्रायस्त्रिंश-लोकपा हि, नैषां चन्द्रा-ऽर्कयोरिव ॥ ४०९॥ 15 सामानिकसहौस्तु, ते चतुर्भिः पृथक पृथक् । सहस्रैरात्मरक्षाणां, वृताः षोडशभिस्तथा ॥ ४१०॥ विकृतानि विमानानि, स्वैर्देवैराभियोगिकैः । तेऽधिरुह्य समाजग्मुर्मेरौ भगवदन्तिके ॥ ४११ ॥ __ तथाऽणपन्निकादीनां, दक्षिणश्रेणिवर्तिनाम् । उत्तरश्रेणिभाजां च, पिशाचादिसुरेन्द्रवत् ॥४१२॥ व्यन्तराष्टनिकायानां, सुरनाथाश्च पोडश । प्राग्वदासनकम्पेन, ज्ञात्वा जन्म जिनेशितः ॥ ४१३ ॥ मञ्जखरां मञ्जघोषां, पृथगास्फाल्य सैन्यपैः । घोषणां कारयित्वा च, स्वैः स्वैश्च व्यन्तरैर्युताः॥४१४॥ अधिरुह्य विमानानि, विकृतान्याभियोगिकैः । सामानिकादिभिः प्राग्वत्, सम्भूयैयुर्जिनान्तिकम् ॥४१५ ॥
॥ चतुर्भिः कलापकम् ॥ चन्द्रा-ऽऽदित्यावसङ्ख्यातो, तद्वदात्तपरिच्छदौ । आजग्मतुर्जिनं मेरौ, पितरं तनयाविव ॥ ४१६ ॥ एवमिन्द्राश्चतुःषष्टिः, स्वतन्त्राः परतन्त्रवत् । भक्त्या समापतन्ति स्म, स्वामिजन्मोत्सवेच्छया ॥ ४१७॥
एकादश-द्वादशयोः, कल्पयोरथ वासवः । स्नात्रोपकरणायाऽऽभियोगिकानादिशत् सुरान् ॥ ४१८ ॥ 25 तैर्दिश्युत्तरपूर्वस्यामपक्रम्याऽऽभियोगिकैः । विधायोच्चैः समुद्धातमेवं कुम्भा विचक्रिरे ॥ ४१९ ॥ सौवर्णा राजता रानाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥ ४२०॥ स्वर्णरूप्यरत्नमयास्तथा मृत्स्नामया अपि । अष्टाधिकानि प्रत्येकं, शतानि दश सङ्ख्यया ॥ ४२१॥ एतावन्तश्च भृङ्गारा, दर्पणा भाजनानि च । पाव्यश्च सुप्रतिष्ठाश्च, तथा रत्नकरण्डकाः ॥ ४२२ ॥ पुष्पचङ्गेरिकाश्चापि, प्रत्येकं तैर्विचक्रिरे । अकालक्षेपतः कोशागारादिव समाहृताः॥४२३॥ 30 आदाय तांश्च ते देवाः, कलसानलसेतराः । सरसीवाऽम्बुहारिण्यो, ययुः क्षीरोदसागरे ॥४२४ ॥ उद्बुद्बुदरवैः कुम्भैरुन्मङ्गलरवैरिव । स्वैरं क्षीरोदकं तत्र, तेऽगृह्णन् जलदा इव ॥ ४२५ ॥ पुण्डरीकाणि पद्मानि, कुमुदान्युत्पलानि च । सहस्रपत्राणि शतपत्राण्याददिरे च ते ॥ ४२६ ॥ उपेत्य पुष्करोदेऽपि, तेऽम्बुधौ पुष्करादिकम् । भृशायमाना जगृहुर्तीपे सांयात्रिका इव ॥ ४२७ ॥ भरतैरवतक्षेत्रवर्तिनामुदकादिकम् । तीर्थानां मागधादीनामप्युपाददिरे सुराः ॥ ४२८॥ 35 * सेनानाथै सङ्घ १ ॥ १ सेनापतिभिः। २ मृण्मयाः। ३ अप्रमादिनः। ४ नौव्यापारिणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org