________________
१७८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व श्वेताम्बरधरः स्रग्वी, महावृषभवाहनः । सामानिकादिभिर्देवैः, कोटिशः परिवारितः ॥ ३६३ ॥ विमानं पुष्पकं नामाऽध्यारुह्य सपरिच्छदः । दक्षिणेनेशानकल्पस्याऽध्वना निरगाद् द्रुतम् ॥३६४ ॥
॥ त्रिभिर्विशेषकम् ॥ असङ्ख्यातान् समुल्लङ्य, द्वीपा-ऽम्भोधीन क्षणादपि । नन्दीश्वरमहाद्वीपं, प्रापैशानसुरेश्वरः ॥ ३६५ ॥ तत्र चोत्तरपूर्वस्मिन्, शैले रतिकरे निजम् । सश्चिक्षेप विमानादि, हेमन्त इव वासरम् ॥ ३६६ ।। क्रमेण सङ्क्षिपस्तत् तदकालक्षेपतो ययौ । सुमेरावन्तवासीव, पादान्तं जगदीशितुः ॥ ३६७ ॥ । सनत्कुमारो ब्रह्मा च, शुक्रश्चप्राणतः सुरैः। घण्टां सुघोषामास्फाल्य, बोधितर्नेगमेषिणा ॥३६८ शक्रवद् वर्त्मनोदीचा, नन्दीश्वरमुपेत्य च । अपाक्पूर्वे रतिकरे, विमानादि समक्षिपन् ॥ ३६९ ॥ ययुश्च मेरुशिरसि, शक्रोत्सङ्गे निपेदुषः । सन्निधाने भगवतो, नक्षत्राणि विधोरिव ॥ ३७० ॥ महेन्द्रो लान्तकश्थापि, सहस्रारोऽच्युतोऽपि च । महाघोषाऽलघुपराक्रमाभ्यां बोधितामराः ३७१ ईशानवद् दक्षिणेन, पथा नन्दीश्वरं ययुः । उदक्पूर्वे रतिकरे, विमानादि समक्षिपन्॥३७२॥ युग्मम्।। अधिवामि ततो जग्मुः, काञ्चनाचलमूर्धनि । पथिका इव सानन्, वनेऽधिफलपादपम् ॥ ३७३ ॥
पुर्या चमरचञ्चायां, दक्षिणश्रेणिभूषणे । सुधर्मायां चकम्पे च, चमरस्याऽऽसनं तदा ॥३७४ ॥ सोऽपि ज्ञात्वाऽवधिज्ञानात्, तीर्थकृजन्म पावनम् । गत्वा पदानि सप्ताष्टान्याननाम जिनेश्वरम् ॥३७५॥ 15 आज्ञया तस्य सद्योऽपि, पत्त्यनीकपतिद्रुमः । घण्टामोघखरां नामाऽऽस्फालयामास सुखराम् ॥ ३७६ ॥
शान्ते चौघस्वराघोषे, तेन चाऽऽघोषणे कृते । असुराश्चमरं भेजुः, सायं द्रुमिव पक्षिणः ॥ ३७७ ॥ आभियोगिकदेवश्च, चमरेन्द्रस्य शासनात् । योजनार्धलक्षमानं, विमानं व्यकरोत् क्षणात् ॥ ३७८ ॥ पञ्चयोजनशत्युच्चमहेन्द्रध्वजमण्डितम् । पोतः सकूपक इव, तद् विमानमराजत ॥ ३७९ ॥
चतुःषष्टिसहस्रैः स, समं सामानिकासुरैः । त्रयस्त्रिंशित्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः ॥ ३८० ॥ 20 परिवारसमेताभिर्महिषीभिश्च पञ्चभिः । तिसृभिः परिषद्भिश्च, महानीकैश्च सप्तभिः ॥ ३८१ ॥
सप्तभिश्चानीकनाथैः, सामानिकचतुर्गुणैः । आत्मरक्षैस्तथाऽन्यैरप्यसुराणां कुमारकैः ॥ ३८२ ॥ तद् विमानं समारुह्य, क्षणान्नन्दीश्वरं ययौ । विमानं खे रतिकरे, सञ्चिक्षेप च शक्रवत् ॥ ३८३ ॥ प्रवाह इव जाहव्या, वेगात् पूर्वपयोनिधिम् । स ययौ स्वामिपादान्तं, मेरुपर्वतमूर्धनि ॥ ३८४ ॥
नगयों बलिचञ्चायामुत्तरश्रेणिमण्डने । बलिश्वाऽऽसनकम्पेनाऽहेजन्माऽवधिनाऽबुधत् ॥ ३८५ ॥ 25 तस्याऽऽदेशात पत्त्यनीकपतिनाम्ना महाद्रुमः। द्राग महोघवरां नाम, घण्टां त्रिः पयंताडयत् ॥३८६॥
घण्टानादे च विश्रान्ते, प्राग्वदाघोषणामसौ । अकादंसुरश्रोत्रसुधाश्रोतःसहोदराम् ॥ ३८७ ॥ तया घोषणयाऽभ्येयुः, सर्वतोऽप्यसुरा बलिम् । अम्बुदस्येव नादेन, मानसं मार्नसौकसः ॥ ३८८ ॥ पूर्वसङ्खयैर्महिष्याधैर्युक्तः सामानिकैः पुनः । पष्टिसहस्रेस्तेभ्यश्चाऽऽत्मरक्षैस्तु चतुर्गुणैः ॥ ३८९ ॥
प्राग्मानेन विमानेन, प्राग्वदिन्द्रध्वजेन च । गत्वा नन्दीश्वररतिकरं मेरुशिरस्यगात् ॥ ३९० ॥ 30 धरणेन्द्रोहरिर्वेणुदेवश्चाऽग्निशिखस्तथा। वेलम्ब-सुघोष-जलकान्ताः पूर्णोऽमितोऽपि च ॥३९१॥
नाग-विद्युत्-सुपर्णा-ऽग्नि-वायु-मेघ-सरस्वताम् । द्वीपानांच दिशांचेन्द्रा, दक्षिणश्रेणिगाःक्रमात् ॥ उदक्श्रेणेस्त्वमी भूतानन्दो हरिशिखस्तथा । वेणुदारी तथा चाऽग्निमाणवश्च प्रभञ्जनः ॥३९३॥ महाघोषो जलप्रभो, वशिष्ठोऽमितवाहनः । सर्वेऽप्यासनकम्पेनाऽर्हजन्माऽवधिनाऽबुधन ॥३९४॥ ततश्च धरणादीनां, भद्रसेनैश्चमूधवैः । भूतानन्दादीनां दक्षाभिधैघण्टास्त्रिराहताः ॥ ३९५ ॥
१ कालक्षेपं विना। २ शिष्य इव । * माहेन्द्रोसङ्घ ३ संता०॥ ३ अधिकानि फलानि यत्रैतादृशं पादप प्रात। नानाss. स ॥ ४ सेवकस्थानीयो देवः। ५ असुरकर्णामृतप्रवाहसदृशाम् । ६ हंसाः। पञ्चभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org