________________
१७७
द्वितीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । तत्र तेन विमानेन, खामिनः सूतिकागृहम् । स त्रिः प्रदक्षिणीचक्रे, स्वामिवत् स्वामिभूम्यपि ॥ ३२९ ॥ तस्योदक्पूर्वककुभि, स विमानमतिष्ठिपत् । हरिईराद् यानमिव, सामन्तो राजवेश्मनि ॥ ३३० ॥ प्राविशत् सूतिकावेश्म, स्वामिनोऽथ पुरन्दरः । कुलीनकर्मकरवद्, भक्तितः सङ्घचत्तनुः ॥ ३३१ ॥ तीर्थकृत्तीर्थकृन्मात्रोरप्यालोकितमात्रयोः । प्रणनाम सहस्राक्षो, धन्यमानी स्वचक्षुषाम् ॥ ३३२ ॥ तत्र प्रदक्षिणीकृत्य, स्वामिनं विजयां च सः । नमस्कृत्य च वन्दित्वा, चैवमूचे कृताञ्जलिः ॥ ३३३ ॥ 5 __ नमस्ते कुक्षिणा रत्नधारिके! विश्वपावनि ! । जगन्मातः! सदालोकजगद्दीपप्रदायिनि ! ॥ ३३४ ॥ मातस्त्वमेका धन्याऽसि, द्वितीयस्तीर्थकृद् यया । विश्वोपकारी सुषुवे, पृथिव्या कल्पवृक्षवत् ॥ ३३५ ॥ अहं हि सौधर्मपतिः, स्वामिजन्ममहोत्सवम् । कर्तुमत्राऽऽगमं मातर्न भेतव्यमतस्त्वया ॥ ३३६ ॥ इत्युदीर्य सहस्राक्षस्तदाऽपस्वापनी ददौ । विकृत्य तीर्थकद्रूपं, देव्याः पार्श्वे न्यधत्त च ॥ ३३७ ॥ ततः शक्रः क्षणाच्छकान् , विचके चाऽऽत्मपञ्चमान् । एकधाऽनेकधा च स्युः, कामरूपा दिवौकसः॥३३८।। 10 एकः सुरपतिस्तेषु, प्रोद्भिन्नपुलकाङ्कुरः । मनसेव शुचिर्भूत्वा, शरीरेणापि भक्तितः॥ ३३९ ॥ नमस्कृत्याऽनुजानीहीत्यभिधाय जिनेश्वरम् । गोशीर्षरसलिप्ताभ्यां, कराब्जाभ्यामुपाददे ॥३४०॥ युग्मम् ॥ द्वितीयः पृष्ठतः स्थित्वाऽऽतपत्रं स्वामिमूर्धनि । अधारयद् गिरिशिरःस्थितरीकेन्दुविभ्रमम् ॥ ३४१ ॥ बिभराञ्चक्रतुरुभौ, पार्श्वतश्चामरे हरी । स्वामिदर्शनतः साक्षादात्तौ पुण्यचयाविव ॥ ३४२ ॥ एक उल्लालयन् वज्र, प्रतीहार इवाऽग्रतः । ससर्प स्वामिनं पश्यन् , किश्चिद् वलितकन्धरः ॥ ३४३ ॥ 15 सामानिकाः पारिषद्यास्त्रायस्त्रिंशास्तथाऽपरे । परिवत्रुर्दिविषदः, प्रभुं पद्ममिवाऽर्लयः ॥ ३४४ ॥ भुवनस्वामिनं यत्नात् , पाणिभ्यां धारयन् हरिः । मेरुशैलं प्रत्यचालीजन्मोत्सवविधित्सया ॥ ३४५ ॥ अनुस्खामि दधावेऽथ, पर्यस्यद्भिः परस्परम् । अहम्पूर्विकया देवैरनुगीतं मृगैरिव ॥ ३४६ ॥ स्वामिनं पश्यतां दूराद्, दृष्टिपातैर्दिवौकसाम् । फुल्लनीलोत्पलवनाकीर्णेव द्यौरजायत ।। ३४७ ॥ भूयो भूयो भगवन्तमुपेत्योपेत्य दूरतः । निरीक्षाञ्चक्रिरे देवाः, स्वधनं तद्धना इव ॥ ३४८॥
20 समापतन्तो युगपत् , सम्मर्दैन दिवौकसः । अन्योऽन्यमास्फलन्ति स्म, तरङ्गा इव वारिधः ॥ ३४९ ॥ गगने शक्रयानेन, गच्छतः स्वामिनः पुरः । पुष्पप्रकरतां भेजुर्ग्रह-नक्षत्र-तारकाः ॥ ३५० ॥ पुरुहूतो मुहूर्तान्तर्मेरुमूर्ध्नि ययौ शिलाम् । अतिपाण्डुकम्बलाख्या, चूलादक्षिणतः स्थिताम् ॥३५१॥ रत्नसिंहासनोत्सङ्गे, खोत्सङ्गस्थापितप्रभुः । तत्र चोपाविशत् पूर्वाभिमुखः पूर्वदिक्पतिः ॥ ३५२ ॥
तदैवैशानकल्पेन्द्रोऽप्यद्धतासनकम्पतः। अज्ञासीदवधिज्ञानाच्छीमत्सर्वज्ञजन्म तत ॥ ३५३॥ शक्रवत् सोऽपि सन्त्यज्य, रत्नसिंहासनादिकम् । दत्त्वा पदानि सप्ताऽष्टान्यनमजगदीश्वरम् ॥ ३५४ ॥ तस्याऽऽज्ञया च सेनानी नाऽलघुपराक्रमः। घण्टामास्फालयामास, महाघोषां महास्वनाम् ॥३५५॥ विमानलक्षास्तन्नादोष्टाविंशतिमपूरि सः । उद्वेलजलधिध्वानस्तटार्चलदरीरिव ॥ ३५६ ॥ देवास्तेषां विमानानां, तन्निनादेन चाऽबुधन् । प्रभातशङ्खध्वनिना, प्रसुप्ता इव भूभुजः॥३५७ ॥ शान्ते तस्मिन् महाघोषाघण्टाघोषे चमूपतिः । पर्जन्यधीरध्वनितः, स एवं घोषणां व्यधात् ॥३५८ ॥ 30 जम्बूद्वीपस्य भरते, विनीतायां पुरि प्रभुः । विजया-जितशवोस्तु, द्वितीयोऽजनितीर्थकृत् ॥३५९॥ तस्य जन्माभिषेकाय, मेरौ यास्यति वः प्रभुः। तत्समं स्वामिना गन्तुं, त्वरध्वं हे दिवौकसः ॥ ३६० ॥ इत्युच्चकै?षणया, सर्वे देवास्तदैव हि । मन्त्राकृष्टा इवाऽऽजग्मुरैशानपतिसन्निधौ ॥ ३६१ ॥ शूलपाणिरथेशान, उत्तरार्धदिवस्पतिः । रत्नभूषणभृद् रत्नेसानुमानिव जङ्गमः ॥ ३६२ ॥
१ कुलवान् किङ्कर इव । २ पूर्णिमा । ३ देवाः। ४ भ्रमराः। ५ कृपणाः। ६ शक्रवाहनेन । ७ इन्द्रः । गिरिगुहा इव । ९रवगिरिरिव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org