________________
5
10
151
20
25
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व
तस्योपरिष्टादुल्लोचो, राजतोऽराजतोज्ज्वलः । स्त्यांनीभूतशरज्योत्स्नाप्रसरभ्रमदायकः ॥ २९५ ॥ तन्मध्ये लम्बमानोऽभूदेको वज्रमयोऽङ्कुशः । तत्र प्रलम्ब्यभूदेकं, मुक्तादामैककुम्भिकम् ॥ २९६ ।। तस्याऽनुजन्मान इव, ककुप्सु चतसृष्वपि । अर्धकुम्भप्रमैर्मुक्ताफलैहरस्रजोऽभवन् ॥ २९७ ॥ मन्दमन्दोल्यमानास्ते, वातेन मृदुनाऽद्युतन् । शुनासीरश्रियो लीलादोलालक्ष्मीम लिम्लुचाः ।। २९८ ।। महतस्तस्य शाकस्य, रत्नसिंहासनस्य तु । पूर्वोदीच्यामुदीच्यां चाऽपरोदीच्यां तथा दिशि ।। २९९ ।। चतुरशीतिसहस्रसामानिकदिवौकसाम् । भद्रासनानि तावन्ति, रत्नरम्याणि जज्ञिरे || ३०० ॥ तत्राऽष्टानामिन्द्राणीनां प्राच्यामष्टाऽऽसनानि च । कमलाकेलिमाणिक्य वेदिकासन्निभान्यभान् ॥ ३०१॥ दिशि दक्षिणपूर्वस्यां तत्राऽभ्यन्तरपर्षदः । देवद्वादशसहरूपा, अभवन्नासनानि तु ॥ ३०२ ॥ दक्षिणस्यां दिश्यभूवन्, मध्यायाः शक्रपर्षदः । चतुर्दशामरसहरुयासनानि निरन्तरम् ॥ ३०३ ॥ दिशि याम्यप्रतीच्यां च बभूवुर्बाह्यपर्षदः । षोडशानां सहस्राणामासनानि दिवौकसाम् ॥ ३०४ ॥ शक्रसिंहासनस्योच्चैस्तस्य पश्चिमतोऽभवन् । सप्तानामप्यनीकाधिपतीनामासनानि तु ॥ ३०५ ॥ शासनस्य प्रत्येकं, ककुप्सु चतसृष्वपि । चतुरशीत्यात्मरक्षसहरूया आसनानि तु ॥ ३०६ ॥ fer विमानं शक्राज्ञासमकालमजायत । निष्पद्यन्ते सुमनसां मनसा हीष्टसिद्धयः ॥ ३०७ ॥
30
१७६
सङ्क्रन्दनो विचक्रे च, जिनाभिगमनोत्सुकः । विचित्रभूषणधरं रूपमुत्तरवैक्रियम् ॥ ३०८ ॥ लावण्यामृतवल्लीभिर्महिषीभिः सहाऽष्टभिः । नाट्यानीकेन गन्धर्वानीकेन च महीयसा ॥ ३०९ ॥ हृष्टः प्रदक्षिणीकृत्य, तद् विमानवरं हरिः । अध्यारुरोह पूर्वेण, रत्नसोपानवर्त्मना ॥ ३१० ॥ युग्मम् ॥ रत्नसिंहासने पूर्वाभिमुखस्तत्र वासवः । आसाञ्चक्रे शैलचूलाशिलायामिव केसरी ॥ ३११ ॥ स्वान्यासनान्यलञ्चक्रुर्महिष्योऽपि बिडौजसः । यथाक्रमं कमलिनीदलानीव मरालिकाः ॥ ३१२ ॥ चतुरशीतिः सहस्राः, सामानिकदिवौकसाम् | अध्यारोहन् विमानं तदुदक्सोपान वर्त्मना || ३१३ ।। तत्राssसाञ्चक्रिरे खेषु खेषु भद्रासनेषु ते । रूपधेयान्तराणीवाऽप्रतिरूपाणि वज्रिणः ॥ ३१४ ॥ अन्येऽपि देवा देव्यथाऽपाच्यसोपानवर्त्मना । तद् विमानं समारोहन, निषेदुश्च यथासनम् || ३१५ ।। हरेः सिंहासनस्थस्य, पुरोऽभूदष्टमङ्गली | पत्नीभिरष्टाभिरिवैकैकमङ्गलकल्पनात् ॥ ३१६ ॥ तदनु च्छत्र- भृङ्गार - पूर्णकुम्भादयोऽभवन् । ते हि स्वाराज्यचिह्नानि, च्छायावत् सहचारिणः ।। ३१७ ।। सहस्रयोजनोत्सेधस्तदग्रेऽभून्महाध्वजः । युतो लघुध्वजशतैः पल्लवैरिव पादपः ।। ३१८ ॥ तदग्रे चाभवन् पञ्चानीकाधिपतयो हरेः । आभियोगिकदेवाश्च, स्वाधिकाराप्रमादिनः ।। ३१९ ।। इत्थं महर्द्धिभिः शक्रः, सुरकोटीभिरावृतः । चतुरैचारणगणैः स्तूयमानमहर्द्धिकः ॥ ३२० ॥ नाट्यानीकेन गन्धर्वानीकेन च निरन्तरम् । प्रक्रान्तनाट्याभिनयसङ्गीतककुतूहलः ॥ ३२९ ॥ अनीकैः पञ्चभिश्चाऽग्रे, कृष्यमाणमहाध्वजः । पुरस्तूर्यनिनादेन, ब्रह्माण्डं स्फोटयन्निव ॥ ३२२ ॥ सौधर्मदेवलोकस्योदीचीने तिर्यगध्वनि । तेनाऽऽययौ विमानेनाऽवतितीर्षुर्महीतले ॥ ३२३ ॥
॥ चतुर्भिः कलापकम् ॥
आपूर्णो देवकोटीभिरवरोहन् व्यराजत । विमानः पालकः कल्पः, सौधर्म इव जङ्गमः ॥ ३२४ ॥ द्वीप - sभोधीनसङ्ख्यातानलङ्घिष्ट क्षणादपि । तद् विमानवरं दिव्यं, वेगेनाऽतिमनोगत || ३२५ ।। सौधर्ममिव भूमिष्ठं, देवक्रीडानिकेतनम् । नन्दीश्वरमहाद्वीपं तद् विमानमथाऽऽसदत् ॥ ३२६ ॥ तत्र दक्षिणपूर्वस्मिन्, शैले रतिकराभिधे । गत्वा पुरन्दरो वेगात्, तद् विमानं समक्षिपत् ॥ ३२७ ॥ 35 सङ्क्षिपन् सङ्क्षिपन्नेवं, विमानं क्रमशो हरिः । जम्बूद्वीपस्य भरते, विनीतामाययौ पुरीम् ॥ ३२८ ॥
१ घनीभूता । २ इन्द्रः । ३ दक्षिणसोपानमार्गेण । ४ उन्नतः । ५ सङ्घसमकरोत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org