________________
द्वितीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् । अथ तत् तीर्थकृजन्म, सर्वान् ज्ञापयितुं सुरान् । तदुत्सवाय चाऽऽह्वातुं, गृहस्थः स्वजनानिव ॥ २६३ ॥ सद्यो रोमाश्चितवपुर्वपुष्मानिव सम्मदः । आदिदेश शुनासीरः, सेनान्यं नैगमेषिणम् ॥२६४॥ युग्मम् ॥
सादरं शिरसाऽऽदाय, पाकशासनशासनम् । सेनानीरपचक्राम, पीत्वेवाऽम्भः पिपासितः ॥ २६५ ॥ सुधर्मापरिषद्गव्याः, कण्ठघण्टामिवोद्भटाम् । सोऽताडयत् सुघोषां त्रिघण्टां योजनमण्डलाम् ॥२६६॥ तस्याश्च ताड्यमानाया, विश्वकर्णपथातिथिः । समुत्तस्थौ महान् नादो, मध्यमानाम्बुधेरिव ॥ २६७ ॥ 5 एकोनद्वात्रिंशल्लक्षा, घण्टा अन्या अपि स्फुटम् । प्रणेदुरथ तन्नादाद्, गोनादादिव तर्णकाः ॥ २६८ ॥ तासां शब्देन घण्टानां, जृम्भमाणेन भूयसा । सौधर्मकल्पः सर्वोऽपि, शब्दाद्वैतमयोऽभवत् ॥२६९ ॥ नित्यप्रमादिनस्तेषु, विमानेषु दिवौकसः । नादेन तेनाऽबुध्यन्त, सिंहा इव गुहाशयाः ॥ २७० ॥ आज्ञया द्युसदांराज्ञो, मन्ये केनाऽपि नाकिना। घोषणानाट्यनान्दीयं, सुघोषा वादिताऽधुना ॥२७१ ।। श्रोतव्या घोषणाऽवश्यं, वासवाज्ञाप्रकाशिनी। इत्याशयाद् दत्तकर्णमवातिष्ठन्त नाकिनः ॥२७२॥ युग्मम् ।। 10 शान्ते सुघोषानि|क्षे, कण्ठनादेन भूयसा । पुरन्दरस्य सेनानीश्वकाराऽऽघोषणामिति ॥ २७३ ॥ भो भोः! शृण्वन्तु गीर्वाणाः!, सौधर्मवर्गवासिनः!। समादिशति वः सर्वानसौ दिविषदांपतिः ॥२७४॥ जम्बूद्वीपस्य भरतेऽयोध्यायां पुरि भूपतेः। जितशत्रोः सधर्मिण्यां, विजयायां जगद्गुरुः ॥२७५॥ भाग्योदयेन विश्वस्य, विश्वानुग्रहकारकः । द्वितीयस्तीर्थनाथोऽद्य, प्रभुः समुदपद्यत ॥ २७६ ॥ तत् पावयितुमात्मानमसाभिः सपरिच्छदैः । जिनजन्माभिषेकाय, गन्तव्यं तत्र सम्प्रति ॥ २७७॥ 15 भवद्भिरपि सर्वद्ध्या, सर्वैः सर्वबलेन च । तत्र गन्तुं मया सार्द्धमागन्तव्यमिह द्रुतम् ॥ २७८ ॥ तस्यैवमाघोषणया, स्तनितेनेव केकिनः । कलयामासुरानन्दममन्दं त्रिदिवौकसः ॥ २७९ ॥ सयो विमानान्यारुह्य,पोतानिव दिवौकसः । आक्रामन्तो नभोम्भोधिमाजग्मुः शक्रसन्निधौ ॥ २८०॥
अन्तिके स्वामिनो गन्तुं, विमानं क्रियतामिति । आदिशत् पालकं नामाऽऽभियोगिकसुरं हरिः ॥२८१ उद्विद्रुममिवाऽम्भोधि, रत्नभित्तिमरीचिभिः । शातकुम्भमयैः कुम्भैरुत्पद्ममिव मानसम् ॥ २८२ ॥ 20 सर्वाङ्गीणं तिलकितमिव दीधैर्ध्वजांशुकैः । विचित्रै रत्नशिखरैरुच्छेखरमिवोच्छ्रितैः ॥ २८३ ॥ रत्नस्तम्भैः श्रीकरेणोरिवाऽऽलानैमनोरमम् । शालभञ्जीभिरन्याभिरप्सरोभिरिवाऽऽश्रितम् ॥ २८४ ॥ आत्ततालं नटमिव, *किङ्कणीजालमण्डितम् । सनक्षत्रं वियदिव, मौक्तिकखस्तिकाङ्कितम् ॥ २८५ ॥ ईहामृगा-ऽश्व-वृषभैनर-किन्नर-कुञ्जरैः । हंसैर्वनलता-पमलताभिश्च मनोरमम् ॥ २८६ ॥ लक्षयोजनविस्तीर्ण, जम्बूद्वीपमिवाऽपरम् । पञ्चयोजनशत्युचं, विमानं विचकार सः ॥ २८७॥ 25
॥षड्भिः कुलकम् ॥ तिसुष्वाशासु तस्याऽऽसंस्तिस्रः सोपानपतयः । महागिरेवतरन्निझरोर्म्य इवाऽऽयताः ॥ २८८ ॥ अग्रे सोपानपतीनामभूवन रत्नतोरणाः । अखण्डाखण्डलधनुःश्रेणिश्रीसोदरा इव ॥ २८९ ॥ आलिङ्गिपुष्करमुखादर्शदीपकमल्लिवत् । मध्यभागः समतलस्तस्य मौसृण्यभागभूत् ॥ २९० ॥ सुस्पर्शः सुप्रभैः पञ्चवर्णैश्चित्रैर्विचित्रितः । केकिपरिवाऽऽस्तीर्णो, भूमिभागो रराज सः ॥ २९१॥ 30 अभवन्मध्यतस्तस्यैकः प्रेक्षागृहमण्डपः । क्रीडावेश्म श्रियामन्तर्नगर्या राजवेश्मवत् ॥ २९२ ॥ मध्ये च तस्य विष्कम्भा-ऽऽयामाभ्यामष्टयोजना । चतुर्योजनबाहल्या, बभूव मणिपीठिका ॥ २९३ ॥ तस्सा उपर्येकमासीद् , रत्नसिंहासनोत्तमम् । महन्महत्यङ्गुलीये, माणिक्यमिव पावनम् ॥ २९४ ॥
सुधर्माख्यसभागव्याः। २ वत्साः। ३ हे देवाः!। ४ मेघगर्जिसेन। ५ मयूराः। ६ यानपात्राणि । ७ सुवर्णमयैः। ८ लक्ष्मीहस्तिन्याः। ९ बन्धनस्तम्भैः। १० पुत्तलिकाभिः। *किङ्किणी पात ॥ ११ मृदुताभाक् । १२ मयूरपिच्छैः। १३ महत्यां मुद्रिकायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org