________________
10
१७४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीय पर्व जिनेन्द्रं करतलेन, जिनेन्द्रजननीं भुजे । गृहीत्वा निन्यिरे ताश्च, पौरस्त्ये कदलीगृहे ॥ २३१॥ तत्र मध्येचतुःशालं, रत्नसिंहासनोत्तमे । आसयामासुरथ ता, जिनेन्द्र-जिनमातरौ ॥ २३२ ॥ ताश्च गन्धोदकैः पुष्पोदकैः शुद्धोदकैरपि । द्वावपि स्नपयामासुस्तदिवाऽऽजन्मशिक्षिताः ॥ २३३ ॥ विचित्ररत्नालङ्कारांस्तास्ताभ्यां पयेधापयन् । चिरात् स्वशक्तेस्तादृश्या, मन्यमानाः कृतार्थताम् ॥ २३४ जिनेन्द्र-विजयादेव्यौ, देव्योऽथाऽऽदाय पूर्ववत् । मनोहारिणि ता जग्मुरुदीच्ये कदलीगृहे ॥ २३५ ॥ तत्राऽऽसयंश्चतुःशालमध्यसिंहासने च ताः । तौ गृह्णन्तौ नगासीनसिंही-तत्सुतयोः श्रियम् ॥ २३६ ॥ क्षणादानाययामासुस्त्रिदशैराभियोगिकैः । गोशीर्षचन्दनैधांसि, ताः क्षुद्रहिमवगिरेः ॥ २३७ ॥ पावकं पातयामासुर्मथित्वाऽरणिदारुणी । जायते घृष्यमाणाद्धि, दहनश्चन्दनादपि ॥ २३८ ॥ समिधीकृत्य गोशीर्षचन्दनानि समन्ततः । एधयामासुरग्निं तं, देव्यस्ता आहिताग्निवत् ॥ २३९ ॥ ततस्तेनाऽग्निहोमेन, भूतिकर्म विधाय ताः । रक्षाग्रन्थि जिनेन्द्रस्य, बबन्धुभक्तिवन्धुराः ॥ २४० ॥ पर्वतायुर्भवेत्युच्चैर्वदन्त्यो जिनकर्णयोः । मिथ आस्फालयामासू , रत्नपाषाणगोलकौ ॥ २४१ ॥ तीर्थङ्करं करतलेनाऽऽदाय विजयां भुजे । ताः सूतिकागृहे निन्युः, शय्यायां चाऽध्यरोपयन् ॥२४२ ॥ ततश्च स्वामिनः स्वामिजनन्याश्चोज्ज्वलान् गुणान् । गायन्त्यो मञ्जु तास्तस्थुरनत्यासन्न-दूरतः॥२४३ ॥
__ तदानीमेव सौधर्मे, कल्पेऽल्पेतरवैभवः । आवृतो देवकोटीभिरप्सरोभिश्च कोटिशः ॥ २४४ ॥ 15 कोटिशश्चारणवरैः, स्तूयमानपराक्रमः । गन्धर्ववर्गेणाऽखवं, गीयमानगुणोच्चयः ॥ २४५ ॥
पार्श्वतो वारनारीभिर्वीज्यमानश्च चामरैः । मूर्ध्नि श्वेतातपत्रेण, राजमानोऽतिहारिणा ॥ २४६ ॥ दत्तास्थानः सुधर्मायामाथान्यां प्रामुखः सुखम् । शको यावन्निषण्णोऽस्थाचकम्पे तावदासनम् ॥२४७॥
॥ चतुर्भिः कलापकम् ॥ तेन चाऽऽसनकम्पेन, कोपाटोपविसंस्थुलः । कम्पमानाधरदलः, स्फुरज्वाल इवाऽनलः ॥ २४८ ॥ 20 उत्कटभ्रकुटीभीमो, व्योमेवोभूमकेतुकम् । आताम्रीभूतवदनो, मदाविष्ट इव द्विपः ॥ २४९ ॥ उत्तरङ्ग इवाऽम्भोधिस्त्रिवलीलाञ्छितालिँकः । वनमालोकयामास, वज्रभृद् वैरिघातकम् ॥ २५०॥
॥त्रिभिर्विशेषकम् ॥ तत्कोपमुपलक्ष्येत्थमुत्थायाऽग्रे कृताञ्जलिः । चमूपतिर्नेगमेषी, प्रोचे प्राचीनवर्हिषम् ॥ २५१॥ के प्रति स्वयमावेशो, मय्यप्यादेशकारिणि । सुरा-२सुर-मनुष्येषु, नाऽधिको न समश्च ते ॥ २५२ ॥ हेतुरासनकम्पस्य, यस्ते सम्प्रत्यजायत । विमृश्याऽऽज्ञापय स्वामिस्तत्र मां दण्डकारिणम् ॥ २५३ ॥
एवं च सेनापतिनाऽभिहितो दिविषत्पतिः । कृत्वाऽवधानमवधिज्ञानं प्रायुक्त तत्क्षणात् ॥ २५४ ॥ जैनप्रवचनेनेव, धर्म दीपेन वस्त्विव । द्वितीयतीर्थकुञ्जन्माऽज्ञासीदवधिना हरिः॥ २५५ ॥ स दध्यौ चेत्यहो ! जम्बूद्वीपे वर्षे च भारते । विनीतायां महापुर्या, जितशत्रोर्महीपतेः॥२५६ ॥
जायाया विजयादेव्याः, सम्प्रत्ययमजायत । एतस्यामवसर्पिण्यां, द्वैतीयीको जिनेश्वरः॥२५७॥ युग्मम् ॥ 30 तेन चाऽऽसनकम्पोऽयं, धिर धिग दुश्चिन्तितं मया। ऐश्वर्येणोन्मदिष्णोर्मे, मिथ्यादुष्कृतमस्तु तत् ॥२५८॥
चेतसा चिन्तयित्वैवं, रत्नसिंहासनं निजम् । पादपीठं पादुके च, त्यक्त्वोत्तस्थौ पुरन्दरः ॥ २५९ ॥ ससम्भ्रमः शतमखोऽभिमुखं तीर्थकृद्दिशः। ददौ पदानि कतिचित, प्रस्थानमिव साधयन् ॥ २६० ॥ न्यस्योव्या दक्षिणं जानुमन्यं न्यश्य च किञ्चन। मां स्पृशन् पाणि-शीर्पण, ननाम स्वामिने हरिः॥२६१ शक्रस्तवेन वन्दित्वा, स्वामिनं पाकशासनः । वेलानिवृत्तोऽब्धिरिव, भेजे भूयः स्वभूमिकाम् ॥२६२॥
१ पूर्वदिक्सम्बन्धिनि । २ जन्मत आरभ्य शिक्षिता इव । ३ पर्वतोपविष्टसिंही-तत्पुत्रयोः। ४ अग्निः। ५ प्रभूतवैभवः। ६ सभायाम् । ७ ललाटम् । ८ इन्द्रम् । ९ दण्डकारकम् । १० इन्द्रः। ११ मत्तस्य । १२ इन्द्रः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org