________________
द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
१७३ तीर्थकृतीर्थकृन्मानोरनत्यासन्न-दूरतः । अथाऽमलान् स्वामिगुणांस्ता गायन्त्योऽवतस्थिरे ॥ १९७ ॥ ___ अथ पूर्वरुचकाद्रिवास्तव्या दिक्कुमारिकाः । सहिताः सर्वया ऋद्ध्या, सकलेन बलेन च ॥ १९८ ॥ तत्र नन्दोत्तरानन्दे, आनन्दा-नन्दिवर्धने । विजया वैजयन्ती'च, जयन्ती चाऽपराजिता॥१९९ पूर्ववत् सपरीवारास्तदेयुः सूतिकागृहम् । त्रिश्च प्रदक्षिणीचकुस्ताः स्वामि-स्वामिमातरौ ॥ २० ॥ खं ज्ञापयित्वा स्वामिन्यै, नत्वा स्तुत्वा च पूर्ववत् । तत्पूर्वतोऽस्थुर्गायन्त्यो, रत्नदर्पणपाणयः ॥ २०१॥ 5 ___ अंपाच्यरुचशैलवास्तव्याश्चारुभूपणाः । स्रग्विण्यो दिव्यवसना, इत्यष्टौ दिक्कुमारिकाः ॥ २०२॥ समहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ॥२०३॥ प्राग्वत् परिच्छदभृतस्तमिन्नभ्येत्य वेश्मनि । नत्वा प्रदक्षिणापूर्व, स्वामिन्यै खमजिज्ञपन् ॥ २०४ ॥ जिनेन्द्र-जिनजनन्योर्दक्षिणेन कलस्वनाः । ता मङ्गलानि गायन्त्यस्तस्थुर्भृङ्गारपाणयः ॥ २०५॥
तथा प्रत्यग्रुचकादिवास्तव्या दिकुमारिकाः । पूर्ववज्ज्ञापयित्वा स्वं, तावन्मात्रपरिच्छदाः॥२०६॥10 इलादेवी सरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीता च नामतः॥२०७॥ कत्वा प्रदक्षिणापूर्व. नर्ति जिन-जिनाम्बयोः । गायन्त्यः पश्चिमेनाऽस्थुश्चारुव्यजनपाणयः ॥२०८॥
तथोदग्रुचकशैलवास्तव्या दिकुमारिकाः । निवेद्य प्राग्वदात्मानं, तथैव सपरिच्छदाः ॥ २०९ ॥ अलम्वुसा मिश्रकेशी, पुण्डरीका च वारुणी। हासा सर्वप्रभा चैव, ही श्रीरिति च नामतः॥२१० नत्वा प्रदक्षिणापूर्व, पादान् जिन-जिनाम्बयोः । गायन्त्य उत्तरेणाऽस्थुश्चारुचामरपाणयः ॥२११ ॥ 15 विदिग्रुचकवास्तव्याश्चतस्रो दिक्कुमारिकाः । चित्रा चित्रकनका सतेरा सौत्रामणी तथा ॥२१२॥ एत्य प्रदक्षिणापूर्व, नमस्कारं विधाय च । जिनस्य जिनमातुश्च, स्वमायातं न्यवेदयन् ॥ २१३ ॥ स्वामिनः स्वामिमातुश्च, गायन्त्यो विपुलान् गुणान् । दीपिकापाणयस्तस्थुरैशान्यादिविदिक्षु ताः॥२१४॥ __ रुचकद्वीपमध्यस्थाश्चतस्रो दिकुमारिकाः । रूपा रूपांशिका चैव, सुरूपा रूपकावती॥२१५॥ प्रत्येकं पूर्ववत् सर्वपरिवारविराजिताः । महाविमानान्यारुह्याऽर्हजन्मगृहमाययुः ॥ २१६ ॥ 20 तत् त्रिः प्रदक्षिणीचक्रुर्विमानेष्वेव ताः स्थिताः । अस्थापयन् विमानानि, देशे समुचिते ततः ॥२१७ ॥ ततश्चरणचारिण्यो, जिनेन्द्र-जिनमातरौ । भक्त्या प्रदक्षिणीकृत्य, नत्वा चैवं बभापिरे ॥२१८ ॥ जय जीव चिरं नन्द, विश्वानन्दननन्दने! । सुमुहूर्त जगन्मातरद्य त्वदर्शनेन नः ॥ २१९ ।। रत्नाकरो रत्नशैलो, रत्नगर्भा मुधा ह्यमी । त्वमेका रत्नभूः पुत्ररत्नं यत् सूतवत्यदः ॥ २२०॥ वयं हि रुचकद्वीपमध्यस्था दिक्कुमारिकाः । अर्हतो जन्मकृत्यानि, कर्तुमत्र समागताः॥२२१॥ 25 भवत्या तन्न भेतव्यमित्युक्त्वा परमेशितुः । चतुरङ्गुलवर्ज ता, नाभिनालमकल्पयन् ॥ २२२ ॥ खनित्वा विद॑रं तत्र, नालं निधिमिव न्यधुः । विदरं पूरयामा , रत्नैर्वत्रैश्च तं ततः ॥ २२३ ॥ बबन्धुस्तत्र पीठं ताः, सद्यः प्रोद्भूतदूर्वया । अप्युद्यानान्युद्भवन्ति, देवतानां प्रभावतः ॥ २२४ ॥ सूतिकावेश्मनस्तस्य, ककुप्सु तिसृषु क्षणात् । विकुर्वन्ति स कदलीगृहाणि श्रीगृहाणि ताः ॥ २२५ ॥ प्रत्येकमेकं तन्मध्ये, चतुःशालं विचक्रिरे । मध्ये च तेषामेकैकं, रत्नसिंहासनं महत् ॥ २२६ ॥ 30 ततश्च जगृहुस्तीर्थकरं करतलेन ताः । स्वामिनी.च भुजे निन्युश्चाऽपायंकदलीगृहे ॥ २२७ ॥ तत्र चाऽन्तश्चतुःशालं, रत्नसिंहासनोत्तमे । ताः सुखं खामिनं स्वामिमातरं च न्यवेशयन् ॥ २२८ ॥ स्वयं संवाहिकीभ्य, पाणिन्यासैर्यथासुखैः । शतपाकादिभिस्तैलैरभ्यङ्गं च तयोर्व्यधुः ॥ २२९ ॥ गन्धद्रव्यैः सुरभिभिः, सूक्ष्मपिष्टैः क्षणेन ताः । उद्वर्त्तनं विदधिरे, रत्नदर्पणवत् तयोः ॥ २३०॥
१ दाक्षिणात्यः। २ मधुरस्वराः। ३ नमस्कारम् । विवरं ल, पात ॥ ४ गतम् । विवरं पात ॥ ५ विक्ष। ६ दक्षिणकदलीगृहे। ७दासीभूय ।
त्रिषष्टि, २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org