________________
१७२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व अथाऽधोलोकवास्तव्यास्तास्वष्टौ दिकुमारिकाः । देवदूष्यनिवसनाः, पुष्पालतकुन्तलाः ॥ १६२ ॥ भोगङ्करा भोगवती, सुभोगा भोगमालिनी। तोयधारा विचित्राच, पुष्पमालाऽप्यनिन्दिता प्रत्येकं च सामानिकीचत्वारिंशच्छतावृताः। महत्तराभिः प्रत्येकं, तथा चतसृभिर्युताः ॥ १६४ ॥ प्रत्येकं च महानीकैः, सप्तभिः परिवारिताः । अनीकाधिपतिभिश्च, प्रत्येकमपि सप्तभिः ॥ १६५ ॥ आत्मरक्षीसहस्रैश्चैकैका षोडशभिर्युताः । अन्यैश्च व्यन्तरैर्देवैर्देवीभिश्च महर्द्धिभिः ॥ १६६ ॥ विमानानि समारुह्य, गीतनृत्तमनोहरम् । प्रति पूर्वोत्तरदिशं, सोत्कण्ठमुपचक्रमुः॥१६७ ॥ अथ कृत्वा समुद्धातं, वैक्रियं ताः क्षणादपि । योजनान्यपैसङ्ख्यानि, यावद् दण्डं विचक्रिरे ॥ १६८ ॥ रत्न-वैडूर्य-वज्राणां. लोहिताक्षायोरपि । अञ्जनाञ्जनपलक-पलकानां तथैव च ॥ १६९॥
ज्योतीरस-सौगन्धिक-रिष्टानां स्फटिकाश्मनाम् । जातरूपहंसगर्भरत्नानामपि सर्वतः ॥ १७० ॥ 10 __ तथा मसारगल्लानां, मणीनां स्थूलपुद्गलान् । परितः शातयामासुर्जगृहुश्चाऽणुपुद्गलान् ॥ १७१ ॥
ततश्च चक्रिरे खं खं, रूपमुत्तरवैक्रियम् । देवतानां जन्मसिद्धाः, खलु वैक्रियलब्धयः ॥ १७२ ॥ उत्कृष्टया त्वरितया, चलया चण्डयाऽपि च । सिंहोद्धताभ्यां पतनाच्छेकाभ्यामथ दिव्यया ॥ १७३ ॥ देवगत्या तथा सर्वऋध्या सर्वबलेन च । ययुः पुर्यामयोध्यायां, जितशत्रुनृपौकसि ॥ १७४ ॥
ततो महाविमानैः खैर्योतीपीवाऽमराचलम् । तास्त्रिः प्रदक्षिणीचक्रुस्तीर्थकृत्सूतिकागृहम् ॥ १७५ ॥ 15 चतुरङ्गुलमात्रेणाऽसंस्पृशन्त्यो महीतलम् । अस्थापयन् विमानानि, पूर्वोदीच्यां ततश्च ताः ॥ १७६ ॥
प्रविश्य सूतिकागारं, जिनेन्द्रं जिनमातरम् । त्रिस्ताः प्रदक्षिणीकृत्य, बद्धाञ्जल्येवमूचिरे ॥ १७७ ॥ ___ नमस्तुभ्यं जगन्मातः!, कुक्षिणा रत्नधारिणि । सर्वनारीसारभूते, जगद्दीपप्रदायिनि! ॥ १७८ ॥ त्वं धन्याऽसि पवित्राऽसि, त्वं चाऽसि जगदुत्तमा । मनुष्यलोके चैतस्मिन् , जन्मेदं सफलं तव ॥ १७९ ॥
यत् त्वं पुरुषरत्नस्य, कारुण्यक्षीरनीरधेः । त्रैलोक्यवन्दनीयस्य, स्वामिनो धर्मचक्रिणः ॥ १८० ॥ 20 जगद्गुरोर्जगद्वन्धोर्विश्वानुग्रहकारिणः । द्वितीयस्याऽवसर्पिण्यां, जिनेन्द्रस्य जनन्यसि ॥ १८१॥
मातर्वयमधोलोकवास्तव्या दिक्कुमारिकाः । कर्तुं तीर्थकृतो जन्ममहिमानमिहाऽऽगताः ॥ १८२ ॥ तद् युष्माभिर्न भेतव्यमित्युदीर्य प्रणम्य च । पूर्वोत्तरस्यां ककुभि, तत्र ता व्यपचक्रमुः ॥१८३॥ वैक्रियेण समुद्धातेनाऽथ ताः शक्तिसम्पदा । वातं संवर्तकं नाम, क्षणेनाऽपि विचक्रिरे ॥ १८४ ॥
शिवेन मृदुशीतेन, तेन तिर्यक्प्रवायिना । सर्वर्तुकुसुमाभोगगन्धसर्वखवाहिना ॥ १८५ ॥ 25
मरुता सूतिकागारं, परितो योजनावधि । अपनीय तृणाधुच्चैश्चोक्षीचक्रुः क्षमातलम् ॥ १८६ ॥ भगवद्भगवन्मात्रोरर्दैवीयसि तास्ततः । मङ्गल्यगीतं गायन्त्यो, हर्षवत्योऽवतस्थिरे ॥ १८७ ॥ ___ अथोर्ध्वरुचकसंस्था, नन्दनोद्यानकूटगाः। दिव्यालङ्कारधारिण्य, इत्यष्टौ दिक्कुमारिकाः ॥ १८८॥ मेघङ्करा मेघवती, सुमेघा मेघमालिनी । सुवत्सा वत्समित्रा च, वारिषेणा बलाहका ॥१८९॥
महत्तराभिः सामानिक्यङ्गरक्षीभिरेव च । अनीकानीकपतिभिः, पूर्ववत् परिवारिताः ॥ १९०॥ 30 एयुस्तत् सूतिकावेश्म, स्वामिजन्मपवित्रितम् । त्रिश्च प्रदक्षिणीचक्रुर्जिनेन्द्र-जिनमातरौ ॥ १९१॥
पूर्ववज्ज्ञापयित्वा खं, विजयायै प्रणम्य च । अभिष्टुत्य च तत्रोच्चैर्विचक्रुर्मेघदुर्दिनम् ॥ १९२ ॥ ततश्च भगवजन्मभवनाद् योजनावधि । नातिस्तोकां नातिबह्वीं, वृष्टिं गन्धोदकैर्व्यधुः ॥ १९३ ॥ तपसेवाऽहंसां राकाज्योत्स्नया तमसामिव । तया च रजसां शान्तिाग् वृष्टया समजायत ॥ १९४ ॥
ततो विचित्रमुन्निद्रं, पुष्पप्रकरमाशु ताः। तत्र रङ्गावनौ रङ्गाचार्या इव विचक्रिरे ॥ १९५॥ 35 घनसारागुरुपायधूपधूमेन चोच्चकैः । तां भुवं वासयामासुर्वासागारमिव श्रियः ॥ १९६ ॥
१ ऐशानीम् । २ असङ्ख्यातानि । ३ मेरुम् । . ४ अनतिदूरे । ५ पापानाम् । ६ विकसितम् । ७ सूत्रधाराः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org