________________
ीियः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
१७१
सदा च दिकुमारीणामासनानि चकम्पिरे । उन्मनांसीवोत्पतितुं, जिनोन्तिकयियासया ॥ १३१ ॥ चारुचूडामणिरुचिप्रसरव्यपदेशतः । रचितोदात्तकौसुम्भवस्त्रनीरङ्गिका इव ।। १३२ ॥ शोभिताः स्वप्रभापूर्णान्तरैमौक्तिककुण्डलैः । सुधाकुण्डैरिव झलझलायितसुधोर्मिभिः ॥ १३३ ॥ ग्रैवेयकैः शोभमाना, विचित्रमणिनिर्मितैः । कुण्डलीकृत सुत्रामैकोदण्ड श्रीविडम्बिभिः ॥ १३४ ॥ अधिस्तनतटामुक्तैर्मुक्ताहारैर्मनोहराः । रत्नशैलतटीचञ्चन्निर्झरश्रीमलिम्लुचैः ।। १३५ ।। माणिक्यचूडावलयैर्विराजद्भुजवल्लयः । न्यासीकृतैरनङ्गेन, निषेङ्गैरिव चारुभिः ॥ १३६ ॥ अवरत्नरचितां दधाना रसनालताम् । जगजिगीषोः पञ्चषोः, कृते ज्यामिव सञ्जिताम् ॥ १३७ ॥ अङ्गांशुनिर्जितैः सर्वज्योतिष्काणामिवाऽंशुभिः । लग्नैश्चरणपद्मेषु, शोभिता रत्ननूपुरैः ॥ १३८ ॥ काश्विनीलाङ्गरुचयः, प्रियङ्गुलतिका इव । काश्चित् स्वभाभिस्तन्वन्त्यस्तालीवनमिवाऽम्बरे ॥ १३९ ॥ विकिरन्त्यो रुचीः काश्चिद्, बालारुणरुचीरिव । स्नपयन्त्यो रुचा काश्चित्, सितया ज्योत्स्नयेच खम् ॥ १४० ।। 10 काश्चिद् ददत्यः कनकसूत्राणीव दिशां रुचा । काश्चिश्च कान्त्या वैडूर्यरत्नपाञ्चालिका इव ॥ १४१ ॥ सर्वाः कुचाभ्यां वृत्ताभ्यां संचक्रा इव निम्नगाः । सर्वाः सलीलगामिन्यो, राजहंसाङ्गना इव ॥ १४२ ॥ सपल्लवा इत्र लताः सर्वाः कोमलपाणयः । उन्निद्रपद्माः पद्मिन्य इव सर्वाः सुलोचनाः ॥ १४३ ॥ सर्षा लावण्यपूरेण, सजला इव दीर्घिकाः । सर्वाः सौन्दर्यशालिन्यो, मन्मथस्येव देवताः ॥ १४४ ॥ सञ्जाssसनकम्पेन, किमेतदिति सम्भ्रमात् । षट्पञ्चाशदपि हि ताः, सद्यः प्रायुञ्जताऽवधिम् || १४५ ।। 15 [ पञ्चदशभिः कुलकस् ] तत्कालमवधिज्ञानाद्, युगपद् दिक्कुमारिकाः । विविदुर्विजयादेव्यौं, तीर्थकृजन्म पावनम् ॥ १४६ ॥ एवं च चिन्तयामासुर्जम्बूद्वीप इहैव हि । याम्यभारतवर्षार्धमध्यखण्डस्य मध्यतः ॥ १४७ ॥ विनीतायां महापुर्यामिक्ष्वाकुकुलजन्मनः । विजयायां धर्मपत्यां, जितशत्रुमहीपतेः ॥ १४८ ॥ एतस्यामवसर्पिण्यां, भगवानेष तीर्थकृत् । ज्ञानत्रयधरः श्रीमान्, द्वितीय उदपद्यत ॥ १४९ ॥ विमृश्यैचं समुत्थायाssसनेभ्यस्ताः ससम्मदाः । ददुः पदानि सप्ताऽष्टान्युन्मुखं तीर्थकुद्दिशः ॥ १५० ॥ पुरस्कृत्येव मनसा, नमस्कृत्य जिनेश्वरम् । शक्रस्तवेन ताः सर्वा, अवन्दन्तोरुभक्तयः ॥ १५१ ॥ वलित्वा पुनरभ्यास्य, रत्नसिंहासनानि ताः । इत्यादिशन्निजनिजानमरानाभियोगिकान् ।। १५२ ।। हो ! गन्तव्यमस्माभिर्भरतार्थेऽद्य दक्षिणे । समुत्पन्नद्वितीयार्हत्सूतिकाकर्महेतवे ।। १५३ ।। ततो विसंतगर्भाणि, नानामणिमयानि च । विकुरुध्वं विमानानि, महामानानि नः कृते ॥ १५४ ॥ दन्तुराणि ततः कुम्भैः, शातकौम्भैः सहस्रशः । वैमानिकविमानानामुत्पत्राणीव केतुभिः ॥ १५५ ॥ रुचिराणि मणिस्तम्भैः, शालभञ्जीविराजितैः । ताण्डवश्रमविश्रान्तनर्त्तकीनिचयैरिव ॥ १५६ ॥ स्तंभ्रमानुकारीणि, घण्टानिर्घोषडम्बरैः । प्रक्वणत्किङ्किणीजालैर्वाचालानि निरन्तरम् ॥ १५७ ॥ रम्याणि बज्रथेदीभिः श्रियामिव महासनैः । रुक्सहस्रैः सहस्रांशुबिम्बानीव प्रसारिभिः ॥ १५८ ॥ ईहामृगै रत्नमयैर्ऋपभैस्तुरगैर्नरैः । रुरुभिर्मकरैर्हसैः, शैरभैश्वमरैर्गजैः ।। १५९ ॥ किन्नरैर्घमलताभिस्तथा पद्मलोच्चयैः । अङ्कितान्यभितो भित्तििवलभीस्तम्भमूर्धसु ॥ १६० ॥ आदेशेन समं तासां, ते देवा अभियोगिकाः । विकृत्य दर्शयामासुर्विमानान्युरुशक्तयः ।। १६१ ।। [ सप्तभिः कुलकर ]
20
देवस्य ।
१ उत्सुकानीव । २ जिनसमीपं जिगमिषया । ३ इन्द्रधनुः । ४ करकङ्कणैः । ५ तूणीरैः । ६ कंटिमेखलाम् । ७ काम८ चक्रवाकसहिताः । * देव्यास्ती खंता ॥ ९ विस्तृतमध्यभागानि । १० हस्तिशामि । ११ रुपमैः । १३ अष्टापदैः ।
१२ मृगैः ।
Jain Education International
For Private & Personal Use Only
5
25
30
www.jainelibrary.org