________________
१..
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं जन्ान्तिकेन तत्रैव, पर्यालोच्य परस्परम् । स्वमशास्त्रानुसारात् ते, स्वमार्थ व्याचचक्षिरे ॥९॥ देव! द्वासप्ततिः स्वमाः, स्वमशास्त्रे प्रकीर्तिताः । तेषु च त्रिंशदुत्कृष्टा, ज्योतिष्केषु ग्रहा इव ॥ ९८ ॥ खमानां त्रिंशतस्तेषां, मध्यादेते चतुर्दश । उदीयन्ते महास्वमाः, स्वमशास्त्रविशारदैः॥ ९९॥
एतान् मर्मस्थिते तीर्थकरे चक्रधरेऽपि च । तन्माता क्रमशो रात्रितुर्ययामे निरीक्षते ॥ १० ॥ 5 मध्यादमीषां स्वप्नानां, सप्त मातेक्षते हेरेः । चतुरः सीरिणो माता, मातैकं मण्डलेशितुः ॥१०१ ॥
न द्वौ युगपदर्हन्तौ, युगपञ्चक्रिणौ न च । एकस्यास्तीर्थकृत् सूनुस्न्यस्याश्चक्रभृत् ततः॥ १०२ ॥ ऋषभे भरतश्चक्री, सौमित्रिः सगरोऽजिते । जितशत्रुसुते तीर्थङ्कर इत्यहंदागमात् ॥ १०३ ॥ ज्ञातव्यो विजयादेव्याः, सूनुस्तीर्थकरः खलु । षट्खण्ड भरताधीशो, वैजयन्त्यास्तु नन्दनः।।१०४॥
परितुष्टस्ततस्तेषां, नृपतिः पारितोषिकम् । प्रददौ ग्रामखेटादि, वस्त्रालङ्करणादि च ॥ १०५॥ 10 आजन्मदौस्थ्यमगमत् , तेषां तञ्जन्मशंसनात् । महापुमांसो गर्भस्था, अपि लोकोपकारिणः ॥ १०६ ॥
वस्त्रालङ्करणैः कल्पद्रुमा इव विराजिनः । ते राजानुज्ञया जग्मुस्ततः खं खं निकेतनम् ॥ १०७ ॥ विजया-वैजयन्त्यौ च, वासागारं निजं निजम् । जग्मतुर्मुदिते गङ्गा-सिन्धू इव पयोनिधिम् ॥१०८॥
ततः पुरन्दरादेशान्नित्यं देवासुरस्त्रियः । सेवितुं विजयादेवीमेवमारेभिरे भृशम् ॥ १०९ ॥
खामिनीसदनात् पांसुतृणकाष्ठादि सर्वतः । सदाऽपनिन्यिरे वायुकुमाररमणीजनाः ॥ ११०॥ 15 गन्धोदकेन सिषिचुस्तद्वेश्माङ्गणभूमिकाम् । अजिष्याजनवन्मेषकुमारकमृगीदृशः ॥ १११ ॥
ववृषुः पञ्चवर्णानि, पुष्पाणि ऋतुदेवताः। प्रभोगस्थितस्यापि, दातुमर्घमिवोद्यताः ॥११२॥ प्रकाशमुपनिन्युश्च, ज्योतिष्काणां पुरन्ध्रयः । यथासुखं यथाकालं, स्वामिन्या भाववेदिकाः ॥ ११३ ॥ वनदेव्यो दास्स इव, चक्रिरे तोरणादिकम् । ता मागधस्त्रिय इव, तुष्टुयुश्च सुरस्त्रियः ॥ ११४ ॥ देवताभिरिति स्वाधिदेवतेव ततोऽपि वा । अधिकेव प्रतिदिनं, विजयादेव्यसेव्यत ॥ ११५ ॥
कालिकेवाशुमद्विम्बं, निधानमिव मेदिनी । विजया वैजयन्ती च, देवी गर्भमधारयत् ॥११६॥ निसर्गेणापि राजन्त्यौ, ते गर्भेणाऽतिरेजतुः । सरस्थाविव सम्पूर्णे, मध्ये स्वर्णाम्बुजन्मना ।। ११७ ॥ स्वर्णप्रभागौरमपि, तयोर्वदनपङ्कजम् । पाण्डिमानं दधौ दन्तिदन्तच्छेदच्छविस्पृशम् ॥ ११८ ॥ तयोः कर्णान्तविश्रान्ते, स्वभावादपि लोचने । अधिकं सविकासे चाऽजायेतां शरदब्जक्त् ॥ ११९ ॥
तयोर्लवणिमा ताहगवर्धिष्टाऽधिकाधिकम् । सद्यो मार्जितयोः कान्ति,म्योरिव शलाकयोः ॥ १२० । 38 अग्रेऽपि मन्थरं यान्त्यौ, विशेषादतिमन्थरम् । देव्यौ सञ्चेरतू राजहंस्याविव मदालसे ॥ १२१ ॥
अतिगूढं ववृधाते, तयोर्गौं सुखप्रदौ । नलिनीनालवन्नयोः, शुक्त्योमौक्तिकरववत् ॥ १२२॥
ततो नवसु मासेषु, दिनेष्वर्धाष्टमेषु च । गतेषु माघमासस्य, शुक्लाष्टम्यां शुभे क्षणे ॥ १२३ ।। ग्रहेपूचस्थितेष्यक्षे, रोहिण्यां गजलाञ्छनम् । असूत विजया सूनुं, पुण्यं सूनृतवागिव ॥ १२४॥
प्रसूतिदुःखं नो देव्या, न सुनोरप्यजायत । स एप तीर्थनाथानां, प्रभावो हि स्वभावजः ॥ १२५ ॥ __ अज्ञे तदानीमुद्द्योतः, क्षणं त्रिभुवनेऽपि हि । अकाण्डोद्भूतनिर्मेघविद्युदुयोतसोदरः ॥ १२६ ।।
नारकाणामपि सुखं, तदा क्षणमजायत । अभ्रच्छायासुखमिव, पान्धानां शरदागमे ।। १२७ ॥ शरद्यपामिव तदा, प्रसादः ककुभामभूत् । अत्युल्लासश्च लोकानां, कमलानामिवोषसि ।। १२८॥ प्रदक्षिणोऽनुकूलश्च, भूमिसी च मारुतः । मन्दं मन्दं ववौ सयो, भूतलादुद्भवभिव ॥ १२९ ॥ सञ्जज्ञिरे समन्ताच्च, शकुनाः शुभसूचकाः । सर्व हि शुभमेव स्थाजन्मतोऽपि शुभात्मनाम् ॥ १३॥
एकान्ते । २ वासुदेवस्य । ३ बलदेवस्य । ५ आजन्मदारियम् । ५ वासीजनवत् । ६ मेममाला। ७ लावण्यम् । *तु ल.पा ॥ ८ नक्षत्रे।
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org