________________
द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
१६९ नवीकृता प्रतिगृहं, प्रत्यापणचतुष्पथम् । अलकापतिना पूर्णा, साऽलकेव पुरी बभौ ॥ ६४ ॥
[चतुर्भिः कलापकम् ] सुमित्रस्याऽपि गृहिणी, स्वमांस्तानेव तनिशि । वैजयन्ती निरैक्षिष्ट, यशोमत्यपराभिधा ॥६५॥ ततस्तद्रजनीशेष, कुमुदिन्याविवोन्मुदौ । विजया-वैजयन्त्यौ ते, जाग्रत्यावेव निन्यतुः ॥ ६६ ॥ विजया स्वामिनी प्रातस्तान् स्वमान् जितशत्रवे। आचचक्षे वैजयन्ती, सुमित्रविजयाय तु ॥६७॥ 5 तान् स्वमान् विजयादेव्या, विचार्य मनसर्जुना । आख्याति म खमफलमेवं वसुमतीपतिः ॥ ६८॥ एभिः स्वप्नैर्महादेवि!, यशोवृद्धिर्गुणैरिव । विशेषज्ञानसम्पत्तिरागमाभ्यसनैरिव ॥ ६९ ॥ जगदुझ्योतनमिव, प्रद्योतनमरीचिभिः । तव त्रिजगदुत्कृष्टो, नूनं सूनुर्भविष्यति ॥ ७० ॥ एवं स्वमफलं राज्ञो, यथाप्रज्ञं विविञ्चतः । सुमित्रविजयोऽभ्यागात् , प्रतीहारीनिवेदितः ॥ ७१ ॥ नृदेवं देववन्नत्वा, पञ्चाङ्गस्पृष्टभूतलः । निषसाद यथास्थानं, सुमित्रविजयस्ततः ॥ ७२ ॥
10 क्षणं स्थित्वा पुनर्नत्वा, भक्तितो वसुधापतिम् । एवं विज्ञपयामास, कुमारो रचिताञ्जलिः ॥ ७३ ॥
युष्मद्वध्वा वैजयन्त्या, प्रहरेऽद्य निशोऽन्तिमे । निरीक्षाश्चक्रिरे स्वमेऽमी मुखाब्जप्रवेशिनः ॥ ७४ ॥ तत्राऽऽदौ गज ऊर्जस्वी, गर्जिनिर्जितदिग्गजः । नदन्नुत्तुङ्गककुदः, कैकुमान् विशदाकृतिः ।। ७५ ॥ उत्केसरततिात्ताननः पञ्चाननोऽपि च । क्रियमाणाभिषेका श्रीहस्तिभ्यां पार्श्वयोर्द्वयोः ॥ ७६ ॥ पञ्चवर्णं च सुमनोदामैन्द्रमिव कार्मुकम् । सुधाकुण्डमिवाऽऽपूर्ण, शशी सम्पूर्णमण्डलः ॥ ७७॥ 15 विश्वस्याऽप्याहृत इव, प्रतापस्तपनस्ततः । दिव्यरत्नमयः प्रेसत्पताकश्च महाध्वजः॥ ७८॥ पूर्णकुम्भो नवश्वेताम्भोरुहच्छादिताननः । सहस्राक्षमिव मेरैः, पद्मः पद्मसरोऽपि च ॥ ७९ ॥ आपिप्लायिपुरिव, ग्रामप्यूमिभिरम्बुधिः । सामानिकविमानाभं, विमानं च महर्द्धिकम् ॥ ८॥ सारं रत्नाचलस्येव, रत्नपुञ्जः स्फुरत्प्रभः । धूमध्वजश्व निर्धूमः, शिखापल्लविताम्बरः ॥ ८१॥ एते ददृशिरे स्वप्नाः, फलमेषां तु तत्वतः । देव एव हि जानाति, फलभाग देव एव च ॥ ८२॥ 20
राजाऽप्युवाचाऽमी स्वप्ना, देव्या विजययाऽपि हि । अद्यैव यामे यामिन्यास्तुर्ये ददृशिरे स्फुटाः।।८३॥ यद्यप्येते महास्वमाः, सामान्येन महाफलाः । आनन्दकारिणो राकानिशाकरकरा इव ॥ ८४ ॥ तथापि तज्ज्ञाः प्रष्टव्याः, फलं ज्ञातुं विशेषतः । अमीषां कुमुदानन्दकृत्त्वं शशिरुचामिव ॥ ८५॥ आमित्युक्ते कुमारेण, राज्ञा सादरमीरितः । आजुहाव प्रतीहारः, स्वमशास्त्रविचक्षणान् ॥ ८६ ॥
ते धौतश्वेतवसनावृताः स्नानामलत्विषः । पार्वणोडुपतिज्योत्स्नाच्छादितास्तारका इव ॥ ८७॥ 25 दूर्वाङ्कुरैः शिरोन्यस्तैरवतंसधरा इव । सपुष्पकेशा नद्योघाः, सहसेन्दीवरा इव ॥ ८८ ॥ गोरोचनाचूर्णकृतैस्तिलकैरलिकस्थितैः । अविम्लानज्ञानदीपशिखाभिरिव शोभिताः ॥ ८९ ॥ अनय॑स्वल्परुचिरालङ्काराङ्कितविग्रहाः । सुगन्धिस्तोककुसुमा, इव चैत्रमुखद्रुमाः ॥९० ॥ नैमित्तिकाः पुरो राज्ञो, विज्ञप्ता वेत्रधारिणा । साक्षादिव ज्ञानशास्त्ररहस्सानि समाययुः ॥ ९१ ॥ ते मत्रानार्यवेदोक्तान् , विश्वकल्याणकारकान् । प्रत्येकं युगपदपि, पेठुरग्रे महीपतेः ॥ ९२॥ 30 क्षेमङ्करं क्षितिपतेर्ध्नि दुर्वाक्षतादिकम् । प्रचिक्षिपुस्ते कुसुमान्युद्यानपवना इव ॥ ९३ ॥ भद्रासनेषु रम्येषु, द्वाःस्थसन्दर्शितेषु ते । अथाऽऽसाञ्चक्रिरे हंसाः, पद्मिनीच्छदनेष्विव ॥ ९४ ॥
जायां वधूं च तदनु, राजा यवनिकान्तरे । आसयामास शशंभृल्लेखामिव घनान्तरे ॥ ९५ ॥ साक्षात् स्वमफलमिवाऽञ्जलौ पुष्पफले दधत् । जायावध्वोर्महास्वमांस्तेषामकथयन्नृपः ॥ ९६ ॥
* इदं नास्ति पात, खंतापुस्तके ॥ १ सूर्यकिरणैः। २ मम पक्या । ३ वृषभः। ४ प्लावयितुमिच्छः। प्रेरितः। पूर्णिमाचन्द्रः । ७हंस-कमलसहिताः। ८ललारस्थितः। ९ कमलिनीदलेषु।१०चन्द्रलेखामिव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org