________________
१६८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व उपर्युपरि कल्लोलं, कल्लोलैरम्बुधिस्तथा । नैभास्थितं चन्द्रमसमालिङ्गितुमना इव ॥ ३२ ॥ अनुत्तरविमानेभ्य, इबैकतमदागतम् । विचित्ररत्नरचितं, विमानप्रवरं तथा ॥ ३३ ॥ खरत्नसर्वस्वमिव, प्रसूतं रत्नगर्भया । अत्यद्भुतप्रभापुञ्जो, रत्नपुञ्जस्तथोच्चकैः ॥ ३४ ॥
तेजखिनामशेषाणां, त्रैलोक्योदरवर्तिनाम् । तेजःपुञ्ज इवैकत्राऽऽहतो निधूमपावकः ॥ ३५ ॥ 5 एते च विजयादेव्या, परिपाट्याऽनया निजे । प्रविशन्तो मुखाम्भोजेऽदृश्यन्त भ्रमरा इव ॥३६॥
सिंहासनप्रकम्पोऽभूत् , तदानीं च दिवस्पतेः । चक्षुःसहस्रादधिकं, चक्षुः प्रायुत सोऽवधिम् ॥ ३७ ॥ अवधिज्ञानतोऽज्ञासीत् , तीर्थकृद्गर्भसम्भवम् । रोमाञ्चितवपुश्चैवं, चिन्तयामास वासवः ॥३८॥ असाविदानी विजयादनुत्तरविमानतः । अच्योष्ट जगदानन्दनिदानं परमेश्वरः ॥ ३९ ॥ ततश्च जम्बूद्वीपाभिधाने द्वीपवरेऽधुना । योम्यभारतवर्षार्धमध्यखण्डस्य मध्यतः॥४०॥ विनीतायां महापुर्या, जितशत्रोर्महीपतेः । भार्याया विजयादेव्याः, कुक्षौ समवतीर्णवान् ॥४१॥ एतस्यामवसर्पिण्यां, करुणारससागरः । भगवांस्तीर्थनाथोऽयं, 'द्वैतीयीको भविष्यति ॥ ४२ ॥ चेतसा चिन्तयित्वैवं, शुंनासीरः ससम्भ्रमम् । सिंहासनं पादपीठं, पादुके अपि चाऽत्यजत् ॥ ४३ ॥ गत्वा पदानि सप्ताऽष्टान्युन्मुखं तीर्थकृद्दिशः । सद्यः कृतोत्तरासङ्गो, देवराजस्ततो भुवि ॥ ४४ ॥
विन्यस्य दक्षिणं जानु, वामं च न्यश्य किञ्चन । नमश्चक्रे शिरःपाणिसंस्पृष्टवसुधातलः ॥४५॥ [युग्मम्] 15 अवन्दिष्ट जिनं शक्रः, शक्रस्तवपुरःसरम् । जगाम च विनीतायां, जितशत्रुनृपौकसि ॥४६॥
ज्ञात्वाऽर्हतोऽवतारं च, तदैवाऽऽसनकम्पतः । भक्त्या समाययुस्तत्राऽपरेऽपि हि पुरन्दराः॥४७॥ तत्र चाऽऽमलकस्थूलैरमलैः समवर्तुलैः । अनध्यमौक्तिकगणैर्विन्यस्तस्वस्तिकाजिरम् ॥ ४८ ॥ शातकुम्भमयैः स्तम्भैर्नीलपाश्चालिकाङ्कितैः । पत्रैमरकतमयैरे रचिततोरणम् ॥ ४९ ॥
परितो रचितोल्लोचमखण्डैः सूक्ष्मतन्तुभिः । दिव्यांशुकैः पञ्चवर्णैः, सन्ध्यामेधैरिवाऽम्बरम् ॥५०॥ 20 सुवर्णधूपघटिकायत्रोद्यद्भूमवर्तिभिः । स्थापत्ययष्टिभिरिवोद्यताभिः परिशोभितम् ॥५१॥ स्वामिन्या विजयादेव्याः, शय्यासदनमुच्चकैः । कल्याणीभक्तयोऽभ्येयुरिन्द्राः शक्रादयोऽथ ते ॥५२॥
... [पञ्चभिः कुलकम् ] उन्नते पार्श्वतः किश्चित् , किश्चिनिने च मध्यतः । हंसरोमलतातूलपूर्णोच्छीर्षकशालिनि ॥ ५३ ॥ विशदाच्छादनास्तीर्णे, तत्र तल्पे मनोरमे । ददृशुः स्वामिनी गङ्गापुलिने हंसिकामिव ॥५४॥ [ युग्मम् ] आत्मानं ज्ञापयित्वा ते, नत्वा च व्याचचक्षिरे । विजयायै स्वमफलं, तीर्थजन्मलक्षणम् ॥ ५५ ॥
आदिदेश ततः शक्रो, धनदं यदियं त्वया । ऋषभखामिराज्यादौ, रत्नाद्यैः पूरपूर्यत ॥ ५६ ॥ नवीकुरु पुरीमेतां, नूतनैस्तगृहादिभिः । मधुमास इवोद्यानं, प्रत्यग्रैः पल्लवादिभिः ॥ ५७ ॥ रत्नैः स्वर्णैर्धनैर्धान्यैर्वासोभिश्च समन्ततः । पूरयेमां पुरीं पृथ्वी, जलैरिव बलाहकः ॥ ५८ ॥ इत्युक्त्वा सोऽपरेऽपीन्द्रा, मध्येनन्दीश्वरं ततः। गत्वा चक्रुः शाश्वतार्हत्प्रतिमाष्टाह्निकोत्सवम् ॥ ५९ ॥ ततो निजनिजं स्थानं, ययुः सर्वेऽपि वासवाः । यक्षोऽपि कृत्वेन्द्रादिष्टं, तत्पुर्याः स्वपुरीं ययौ ॥ ६० ॥ स्वर्णराशिभिरुत्तुङ्गः, शृङ्गैर्मेरुगिरेरिव । कलधौतोच्चयैरुच्चैर्वैतात्यशिखररिव ॥ ६१ ॥ रत्नाकरस्य सर्वस्वेनेव रत्नोत्करैरपि । धान्यैश्च सप्तदशभिर्वीजैरिव जगन्मुदः॥ ६२॥ वासोभिः कल्पवृक्षेभ्यः, सर्वतोऽप्याहृतैरिव । ज्योतिष्काणामिव रथैर्वाहनैश्चाऽतिसुन्दरैः ॥ ६३ ॥
* इत आरभ्य ३३ पर्यन्तं पाठः खंतापुस्तके पतितः ॥ १ इन्द्रस्य । २ दक्षिणम् । f द्विती खंता ॥ + ° त्वेति ल ॥ ३ इन्द्रः। “ सुवर्णमयैः । ५ पुत्तलिका । ६ अन्तःपुररक्षकः । कलधूतो खंता ॥ ७ रूप्यराशिमिः।
30
Jain Education International
For Private-& Personal Use Only
www.jainelibrary.org