________________
कि सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
१६७ द्वितीयः सर्गः। इतोऽस्य जम्बूद्वीपस्य, द्वीपस्य भरते पुरी । अस्ति नाम्ना विनीतेति, शिरोमणिरिवाऽवनेः॥१॥ तस्यां च त्रिजगद्भर्तुरादितीर्थकृतः प्रभोः । ऋषभस्वामिदेवस्य, मोक्षकालादनन्तरम् ॥ २॥ सिद्धिं सर्वार्थसिद्धं च, निरवच्छिन्नभावतः । गतेष्विक्ष्वाकुवंश्येषु, सङ्ख्यातीतेषु राजसु ॥३॥ अभूदिक्ष्वाकुवंशस्य, विततच्छत्रसन्निभः। विश्वसन्तापहरणो, जितशत्रुर्महीपतिः॥४॥
[त्रिभिर्विशेषकम् ] 5 यशसा विशदेनोच्चैस्तस्योत्साहादयो गुणाः । प्रपेदिरे सनाथत्वं, धिष्ण्यानीव हिमांशुना ॥५॥ सोऽलब्धमध्योऽब्धिरिव, शशीवाऽऽप्यायको दृशाम् । वज्रौकः शरणेच्छूनां, श्रीवल्लीमण्डपोऽभवत् ॥६॥ स सर्वनरदेवानां, हृदयेषु पदं दधत् । एकोऽप्यनेकतां प्राप, जलेष्विव निशाकरः ॥७॥ अभूदाक्रान्तदिक्चक्रेस्तेजोभिरतिदुःसहैः । जगतोऽपि स मूर्धन्यो, माध्याह्निक इवार्यमा ॥८॥ वसुधां शासतस्तस्य, शासनं वसुधाधवाः । अनिशं धारयामासुः, किरीटमिव मूर्धनि ॥९॥ 10 वसुधाया वसन्युच्चैराददे च ददे च सः । विश्वलोकोपकाराय, सलिलानीव वारिदः ॥१०॥ धर्मायाऽचिन्तयन्नित्यं, स धर्माय जगाद च । धर्माय व्यचरत् तस्य, सर्व धर्मनिबन्धनम् ॥ ११ ॥ तसाऽनुजन्मा नृपतेरसाधारणविक्रमः । सुमित्रविजयो नाम, यौवराज्यधरोऽभवत् ॥ १२ ॥
सधर्मचारिणी चाऽऽसीजितशत्रुमहीपतेः । श्रीमती विजयादेवी, देवीव भुवमागता ॥ १३ ॥ पाणिभ्यां चरणाभ्यां च, नेत्राभ्यां च मुखेन च । चकासामास विकचाम्भोजखण्डमयीव सा ॥ १४ ॥15 पृथिव्या भूषणं साऽभूत् , तस्याः शीलं तु भूषणम् । अन्यभूषणभारस्तु, प्रक्रियामात्रहेतुकः ॥१५॥ कलाकलापकलनाद्, विश्वशोभानिवन्धनात् । देवी सरस्वती वा साऽवतीर्णा कमलाऽथवा ॥ १६ ॥ स नरेघूत्तमो राजा, सा नारीषु शिरोमणिः । सदृग्योगस्तयोरासीद् , गङ्गासागरयोरिव ॥ १७ ॥
इतश्च विजयाच्युत्वा, जीवो विमलभूभुजः। तस्याः श्रीविजयादेव्याः, कुक्षौ रत्नखनाविव ॥१८॥ राधेशुक्लत्रयोदश्यां, रोहिणीधिष्ण्यंगे विधौ । ज्ञानत्रयधरः पुत्ररत्नत्वेनोदपद्यत ॥ १९ ॥ 20 प्रभावात् स्वामिनस्तस्य, गर्भवासमुपेयुषः । क्षणं सुखं समुत्पेदे, नारकप्राणिनामपि ॥ २० ॥ तस्या एव हि यामिन्यास्तुर्ये यामेतिपावने । देव्या विजयया खना, अदृश्यन्त चतुर्दश ॥ २१॥ ___ आदौ तत्र मदामोदभ्रमद्भमरमण्डलः । गर्जितेनाऽतिपर्जन्यो, गजः सुरगजोपमः ॥ २२ ॥ उत्तुङ्गशृङ्गरुचिरः, शरदम्भोदपाण्डुरः । रम्यपादोऽथ वृषभः, कैलास इव जङ्गमः ॥२३॥ नखैरिन्दुकलावरतिकुङ्कुमकेसरैः। केसरैश्च भ्राजमानः, पश्चाननयुवाऽपि च ॥ २४ ॥
25 उदस्तपूर्णकुम्भाभ्यां, कुम्भिभ्यां पार्श्वयोर्द्वयोः । क्रियमाणाभिषेका च, कमला कमलासना ॥ २५ ॥ विकासिकुसुमामोदाधिवासितदिगन्तरम् । दिवो ग्रैवेयकमिव, पुष्पदाम दिवि स्थितम् ॥ २६ ॥ सम्पूर्णमण्डलत्वेनाऽकाण्डे रोकां प्रदर्शयन् । ज्योत्स्नातरङ्गितव्योमा, शीतधामा ततः परम् ॥ २७॥ ध्वस्सान्धकारपटलः, प्रसरद्भिर्मरीचिभिः । रजन्यामपि तन्वानो, दिनं दिनमणिस्ततः ॥२८॥ शाखा कल्पद्रुमस्येव, शृङ्गं रत्नगिरेरिव । अभ्रंलिहपताकाङ्कस्तथा रत्नमयध्वजः॥ २९॥ विकस्वरनवश्वेतसरोजपिहिताननः । मङ्गलस्सैकनिलयः, पूर्णकुम्भोऽतिशोभनः ॥ ३०॥ पङ्कजैरङ्कितो विश्वक्, श्रीदेव्या विष्टरैरिव । पद्माकरोऽथ स्वच्छाम्भोलहरीभिर्मनोहरः ॥३१॥
नक्षत्राणीव । २ आझादकः। ३ पनी। *वाऽसावुत्तीर्णा संता, पात.॥ वैशाखः। ५ रोहिणीनक्षपस्थिते। बराः। सिंहः। ८ हस्तिभ्याम् । १ पूर्णिमाम्। १० भासनैरिव ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org