________________
१६६ कलिकालसर्पज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीय ग्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः । चर्यामेकोऽपि चक्र स, विविधाभिग्रहैर्युतः ॥ २८४ ॥ आसनादौ निषद्यायां, स्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गान् , स सेहे निःस्पृहोऽभयः ॥ २८५ ।। शुभाशुभायां शय्यायां, स विषेहे सुखासुखे । रागद्वेषावकुर्वाणः, प्रातस्त्याज्येति चिन्तयन् ॥ २८६ ॥ आक्रुष्टोऽपि स नाऽक्रोशत् , क्षमाश्रमणतां विदन् । किन्तु प्रत्युत मेनेऽसावाक्रोष्टर्युपकारिताम् ॥ २८७॥ विषेहे हन्यमानोऽपि, न तु प्रतिजघान सः । जीवानाशात् क्रुधो दौष्ट्यात् , क्षमया च गुणार्जनात् ॥२८८॥ नाऽयाचितं यतीनां यत्, परदत्तोपजीविनाम् । याजादुःखं न चक्रे तन्नेयेष गृहितां च सः ॥२८९ ॥ परात् परार्थं स्वार्थ वा, स लेभेन्नादिकं न वा । लाभेऽमाधन नाऽलाभेऽनिन्दत् स्वमथवा परम् ।।२९०॥ स रोगेभ्यो नोद्विविजे, न चकाङ्क्ष चिकित्सितम् । शरीरादात्मभेदज्ञोऽसहताऽदीनमानसः ॥ २९१ ॥
अभूताल्पाणुचेलत्वे, संस्तृतेषु तृणादिषु । सेहे तत्स्पर्शजं दुःखमियेष न च तान् मृदुन् ॥ २९२ ॥ 10 ग्रीष्मातपपरिक्लिन्नात् , सर्वाङ्गीणमलादपि । न स उद्विविजे स्नातुं, नैच्छनाऽप्युदवर्त्तयत् ॥ २९३ ॥ __ अभ्युत्थानेऽर्चने दाने, न सोऽभूदभिलाषुकः । न व्यषीददसत्कारे, सत्कारेऽपि जहर्ष न ॥ २९४ ॥
प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्रज्ञतां विदन् । न व्यषीदन्न चाऽमाद्यत् , प्रज्ञोत्कर्षमुपागतः ॥ २९५ ।। ज्ञान-चारित्रयुक्तोऽस्मि, च्छमस्थोऽहं तथाऽपि हि । इत्यज्ञानं विषेहे स, ज्ञानस्य क्रमलाभवित् ।। २९६ ॥
जिनास्तदुक्तं जीवो वा, धर्माधर्मों भवान्तरम् । परोक्षत्वान्मृषा नैव, स मेने शुद्धदर्शनः ॥ २९७ ।। 15 शारीरान् मानसानेवं, स्वपरप्रेरितान् मुनिः । परीषहान् विषेहे स, वाकायमनसां वशी ॥ २९८ ॥
ध्यानैकतानः सततं, स्वामिनां श्रीमदर्हताम् । चक्रे चैत्यायमानं स, चेतः स्थिरतरं निजम् ।। २९९ ॥ सिद्धेषु गुरुषु बहुश्रुतेषु स्थविरेषु च । तपखिषु श्रुतज्ञाने, सङ्घ चाऽभूत् स भक्तिमान् ॥ ३००। एवं च तीर्थकृत्कर्मोपार्जनान्यपराण्यपि । स्थानकानि सिषेवेऽसौ, दुर्लभान्यमहात्मनाम् ॥ ३०१ ॥
तप एकावलिं रत्नावलिं च कनकावलिम् । सिंहनिःक्रीडितं ज्येष्ठं, कनिष्ठं च चकार सः ॥३०२॥ 20 मासोपवासादारभ्य, स कर्तुं कर्मनिर्जराम् । अष्टमासोपवासान्तमुपवासतपो व्यधात् ॥ ३०३ ॥
एवं तीनं तपस्तत्वा, कृत्वा संलेखनाद्वयम् । चकाराऽनशनं प्रान्ते, समतैकपरायणः ॥ ३०४ ॥ सरन् पञ्चपरमेष्ठिनमस्कारं समाहितः । स देहत्यागमकरोनिलयत्यागलीलया ॥३०५॥
अनुत्तरविमानेषु, विमाने विजयाभिधे । त्रयस्त्रिंशत्सागरायुः, सोऽमरः समजायत ।। ३०६ ॥ हस्तमात्रतनुस्तत्र, निशाकरकरोज्वलः । अहमिन्द्रोऽनहङ्कारश्चारुभूषणभूषितः ॥ ३०७ ॥ 25 सर्वदा निःप्रतीकारः, सुखशय्यामधिष्ठितः । स्थानान्तरमगामी चानिर्मितोत्तरवैक्रियः ॥ ३०८ ॥ आलोकयल्लोकनालिमवधिज्ञानसम्पदा । निर्वाणसुखदेशीयं, सोऽन्वभूत् सुखमुत्तमम् ॥ ३०९ ॥
[विभिर्विशेषकर ] आयुःसागरसयैः स, पक्षनिःश्वसितं व्यधात् । समासहस्रस्तावद्भिर्विदधे भक्ष्यकामनाम् ॥ ३१॥ आयुःशेषे मासषट्के, न मोहोऽपरदेववत् । प्रत्युतासन्नपुण्यत्वात् , तस्य तेजो व्यवर्धत ॥ ३११ ३३
स एवमद्वैतसुखप्रपञ्चे, सुधाइदे हंस इबाऽवगाढः।
आयुस्त्रयस्त्रिंशतमम्बुराशीनेकाहवनिर्गमयाम्बभूव ।। ३१२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि
श्रीअजितस्वामिपूर्वभववर्णनो नाम प्रथमः सर्गः॥
30
१ मोक्षायुखादीपस्यूनम् ।त्रयस्त्रिंशता पक्षः। ३ त्रयस्त्रिंशद्वर्षसहस्मैः । ४ भोजमेच्छाम् । ५ एकदिनवर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org