________________
प्रथमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । कन्दर्पशासनमिव, चिराय शिरसा धृतम् । उज्झाञ्चकार स्रग्दाम, सद्यो वसुमतीपतिः ॥ २५० ।। आचार्यवामपार्श्वस्थः, स कृत्वा चैत्यवन्दनाम् । तद्दत्तमादत्त रजोहरणादि ऋषिध्वजम् ॥ २५१ ॥ केशानुत्पाटयामास, मुष्टिभिः पञ्चभिर्नृपः । सावद्यं सकलं योगं, प्रत्याख्यामीत्युदीरयन् ॥ २५२ ॥ तत्कालमप्युपात्तेन, प्रतिलिङ्गेन तेन तु । आबाल्यव्रतधारीव, शुशुभे स महामनाः ॥ २५३ ॥ प्रदक्षिणात्रयीपूर्व, विधाय गुरुवन्दनाम् । स्थिते तस्मिन् गुरुरेवं, विदधे धर्मदेशनाम् ॥ २५४ ॥ 5
अस्मिन्नपारे संसारे, कथञ्चिजन्म मानुषम् । अवाप्यते पयोराशी, दक्षिणावर्तशङ्खवत् ॥ २५५ ॥ मानुष्यकेऽपि सम्प्राप्ते, बोधिबीजं सुदुर्लभम् । तत्रापि पुण्ययोगेन, परिव्रज्योपलभ्यते ॥ २५६ ॥ तावद् भुवोऽर्कसन्तापो, न यावत् प्रावृडम्बुदः । भङ्गो वनस्य हस्तिभ्यस्तावद् यावन्न केसरी ॥ २५७ ॥ तमोभिरान्ध्यं जगतस्तावद् यावन्न भास्करः । देहिनां पन्नगभयं, तावद् यावन्न पक्षिराद् ॥ २५८ ॥ दारियं प्राणिनां तावन्न यावत् कल्पपादपः। भविनां भवभीस्तावद् , यावन्नवाऽऽप्यते व्रतम् ॥ २५९ ॥10 आरोग्यं रूपलावण्ये, दीर्घायुष्यं महर्द्धिता । आज्ञैश्वर्य प्रतापित्वं, साम्राज्यं चक्रवर्तिता ॥ २६० ॥ सुरत्वं सामानिकत्वमिन्द्रत्वमहमिन्द्रता । सिद्धत्वं तीर्थनाथत्वं, सर्व व्रतफलं ह्यदः ॥ २६१ ॥ एकाहमपि निर्मोहः, प्रग्रज्यापरिपालकः । न चेन्मोक्षमवामोति, तथापि स्वर्गभाग भवेत् ॥ २६२ ।। किं पुनः स महाभागस्त्यक्त्वा तृणमिव श्रियम् । यो गृह्णाति परिव्रज्यां, सुचिरं पालयत्यपि ॥२६३॥ विधाय देशनामेवमरिन्दममहामुनिः। विहर्तुमन्यतोऽचालीत, तिष्ठन्त्येकत्र नर्षयः ॥ २६४॥ 15 ___ ततो ग्राम-पुरारण्याकर-द्रोणमुखादिषु । स व्यहार्षीदविच्छिन्नं, छायेव गुरुणा सह ॥ २६५ ॥ लोकाक्रान्तेऽर्कभास्पृष्टे, जन्तुरक्षाकृते पथि । युगमात्रदत्तदृष्टिः, सोऽगादीविचक्षणः ॥ २६६ ॥ निरवद्यां मितां सर्वजनीनां भारती च सः । महामुनिरभाषिष्ट, भाषासमितिकोविदः ॥ २६७ ॥ द्विचत्वारिंशता भिक्षादोषैरपरिदृषितम् । पारणेष्वाददे पिण्डमेषणानिपुणो हि सः॥ २६८ ॥ आसनादीनि संवीक्ष्य, यत्नतः प्रतिलिख्य च । अग्रहीन्यक्षिपच्चापि, स आदानविशारदः ॥ २६९ ॥ 20 कफ-मूत्र-मलप्रायं, निर्जन्तुजगतीतले । उत्ससर्ज महासाधुः, स प्राणिकरुणापरः ॥ २७० ॥ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । स गुंणक्षमारुहाराम, आत्मारामं मनो व्यधात् ॥ २७१॥ मौनेन तस्थौ स प्रायः, संज्ञादिपरिहारतः । अनुग्राह्योपरोधेन, यद्यवोचत् तदा मितम् ॥ २७२ ॥ स्तम्भबुद्ध्या महिषाद्यैः, स्कन्धकण्डूयनेच्छुभिः । बाढमुद्धृष्यमाणोऽपि, कायोत्सर्ग जहौ न सः ॥ २७३ ॥ शयनासननिक्षेपादानचङ्गमणादिषु । स्थाने च चेष्टानियम, स चकार महामनाः ॥ २७४ ॥ 25 इत्थं चारित्रगात्रस्य, जननत्राणशोधनैः । मातृभूताः स समितिगुप्तीरष्टाऽप्यधारयत् ॥ २७५ ॥ क्षुधातः शक्तिसम्पन्न, एषणामविलयन् । सोऽदीनोऽविह्वलो विद्वान्, यात्रामात्रोद्यतोऽचरत् ॥२७६॥ पिपासितः पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । नैच्छच्छीतोदकं किन्तु, जग्राह प्रासुकोदकम् ॥ २७७॥ बाध्यमानोऽपि शीतेन, त्वग्वस्त्रत्राणवर्जितः । *वासोऽकल्प्यं नाऽऽददे सोज्वालयज्वलनं न च ॥२७८॥ उष्णेन तप्तो नाऽनिन्ददुष्णं छायां च नाऽमरत् । वीजनं मजनं गात्राभिषेकादि च नाऽकरोत् ।। २७९ ॥ 30 दष्टोऽपि दंशैर्मशकैः, सर्वेषां भोज्यलौल्यवित् । त्रास द्वेषं निरासं स, न चक्रेऽस्थादुपेक्षया ॥ २८० ॥ नाऽस्ति वासोऽशुभं चैतन्नेयेषोभयथाऽपि तत् । स नान्यबाधितो जानन् , लाभालाभविचित्रताम् ॥२८॥
कदाप्यरतिं चक्रे, धर्मारामरतियतिः । गच्छंस्तिष्ठन्नथाऽऽसीनः, स्वास्थ्यमेव स शिश्रिये ॥ २८२ ॥ दुर्धावसङ्गपाश्च, मोक्षद्वारार्गलाः स्त्रियः । नाचिन्तयदसौ ता हि, धर्मनाशाय चिन्तिताः ॥ २८३ ॥
१ सूर्यकिरणैः स्पृष्टे । २ सर्वजनहिताम् । ३ आदाननिक्षेपणासमितिविशारदः । ४ गुणवृक्षोधानः। ५ पञ्च समितयः तिम्रो गुप्तयः मिलित्वा अष्टौ भवन्ति । * वासोऽकल्पं खंता, ल ॥ ६ अग्निम् । ७ मानम् । दुर्वारस खंता॥ ८ दुःक्षालसंसर्गकर्दमाः।
त्रिषष्टि, २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org