________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्वः
निःशेषदोषमय्याऽपि, सर्वः कोऽपि श्रियैधते । शक्रोऽपि हि श्रिया शक्तः, किं पुनर्मानवो जनः १ ॥२१८॥ तस्याः प्रहेरिक इव, स्थिरीकरणकर्मणि । नय - विक्रमसम्पन्नो, जागरूकः सदा भवेः ।। २१९ ॥ श्रीकाङ्क्षिणाऽपि भवता, भूः पाल्येयमगृधुना । अगृनोरनुंगा लक्ष्म्यः, सुभगस्येव योषितः ॥ २२० ॥ अतिचण्डत्वमालम्ब्य, निदाघस्थ इवामा । त्वं दुःसहकराक्रान्तां पृथिवीं जातु मा कृथाः ।। २२१ ॥ एकदाऽपि कृतान्यायं जनं निजमपि त्यजेः । त्यज्यते वैश्वासोऽपि, मनागप्यग्निदूषितम् ॥ २२२ ॥ मृगया- द्यूत- पानानि वारयेः सर्वतोऽपि यत् । तत्पापानां नृपो भागी, तपखितपसामिव ।। २२३ ॥ अन्तरङ्गान् जयेः शत्रूंस्तेषामविजये सति । जिता अप्यजिता एव, शत्रवो यद् बहिर्भवाः ॥ २२४ ॥ धर्ममर्थं च कामं च परस्परमवाधया । यथाकालं निषेवेथाः, पत्नीनेतेवे दक्षिणः ॥ २२५ ॥ तथा भजेत्रीन् पुमर्थान्, यथा हि समये सति । पुरुषार्थे चतुर्थेऽपि, नोत्साहो हीयते तव ॥ २२६ ॥ अभिधायेति तूष्णीकीभूते विमलवाहने । बद्धाञ्जलिः कुमारस्तत्, तथेति प्रत्यपद्यत ॥ २२७ ॥ सिंहासनादथोत्थाय, विनीतः प्राग्वदेव सः । उत्तिष्ठासोबत कृते, हस्तालम्बं ददौ पितुः ॥ २२८ ॥ दत्तहस्तः स पुत्रेण, वेत्रितोऽप्यल्पमानिना । जगाम सपनागारं भूरिभृङ्गारभूषितम् ।। २२९ ॥ मकराननसौवर्णभृङ्गारलुठदम्बुभिः । जीमूतधाराभिरिव, ससस्त्रौ भूभृतां वरः ।। २३० ॥ कोमलेन दुकूलेनोन्मृष्टाङ्गो नृपतिस्ततः । सर्वाङ्गमपि गोशीर्षचन्दनेन व्यलिप्यत ॥ २३९ ॥ 15 नीलोत्पलदलश्यामः, शशिगर्भ इवाम्बुदः । पुष्पगर्भः केशपाशो, राज्ञस्तज्ज्ञैररच्यत ॥ २३२ ॥ विशाले निर्मले स्वच्छे, मनोहरगुणे स्ववत् । संविव्यायाऽथ भूनाथो, मङ्गल्ये दिव्यवाससी ॥ २३३ ॥ ततः पुत्रेोपनीतंस, नरेन्द्रमुकुटायितः । माणिक्यस्वर्ण मुकुटं धारयामास मूर्धनि ॥ २३४ ॥ हार-केयूर-ताडङ्कप्रभृतीन्यपराण्यपि । स सर्वाङ्गं भूषणानि, पर्यधाद् गुणभूषणः ।। २३५ ।। रत्नकाञ्चनरूप्याणि, वस्त्राण्यन्यदपीप्सितम् । अर्थिभ्यः स ददौ तत्र, कल्पद्रुम इवापरः ।। २३६ ॥ 20 ततो नरशतोद्वाह्यां, शिविकां नरकुञ्जरः । आरोहत् पुष्पकमित्र, विमानं नरवाहनः ॥ २३७ ॥ राजन् श्वेतातपत्रेण, चामराभ्यां च तत्क्षणात् । साक्षाद् रत्नत्रयेणेवाऽभ्यागतेन निषेवितः ॥ २३८ ॥ बन्दिकोलाहले नोच्चैस्तारतूर्यरवेण च । सुहृद्भ्यामिव मिलयां, मुदमुद्बोधयन् नृणाम् ॥ २३९ ॥ श्रीमद्भिर्नृपसामन्तैः पृष्ठतः पार्श्वतोऽग्रतः । आपतद्भिः शोभमानो, ग्रहरोंजो ग्रहैरिव ॥ २४० ॥ आवृत्तवृन्तपद्माभवलग्रीवेण सूनुना । आदेशकाङ्क्षिणा द्वास्थेनेवाऽग्रस्थेन शोभितः ॥ २४९ ॥ 25 सम्पूर्णपात्रकुम्भाभिर्नागरीभिः पदे पदे । मङ्गलानि क्रियमाणानीक्षमाणो यथाक्रमम् ॥ २४२ ॥ चित्रमश्ञ्चशताकीर्ण, पताकामालसारिणम् । पवित्रयन् राजमार्ग, यक्षकर्दमपङ्किलम् || २४३ ॥ मञ्चे मश्चे च गन्धर्ववर्गसङ्गीतपूर्वकम् । प्रतीच्छन् पण्यवनिताकृतारात्रिकमङ्गलम् ॥ २४४ ॥ अदृष्टपूर्ववद् दूरात् परैरुत्फुल्ललोचनैः । आलोक्यमानो निस्पन्दैरालेख्य लिखितैरिव ॥ २४५ ॥ लोकैर्मन्त्रबलाकृष्टैरिव कार्मणितैरिव । वाग्बद्वैरिव परितोऽन्वीयमानो भृशयितैः ॥ २४६ ॥ 30 उद्यानेऽरिन्दमाचार्यपादपद्मपवित्रिते । जगाम धाम पुण्यानां, राजा विमलवाहनः || २४७ ॥ [ दशभिः कुलकम् ] शिविकातः समुत्तीर्य, पादाभ्यां मेदिनीपतिः । तत्र प्राविशदुद्याने, मनसीव तपस्विनाम् ॥ २४८ ॥ अथाऽऽभरणसम्भारं विश्वं विश्वम्भरापतिः । अङ्गादुत्तारयामास, धराभारं भुजादिव ॥ २४९ ॥
5
10
१६४
१ यामिकः । २ अनुसारिण्यः । ३ श्रेष्ठवस्त्रम् । ४ सुरापानम् । ५ नायक इव । ६ विनयवान् । ७ उत्थातुमिच्छो: । ८ बहुकलश भूषितम् । ९ मेघः । १० केशपाशविधिज्ञैः । ११ आत्मवत् । १२ शोभमानः । १३ सूर्यः । १४ सुगन्धिद्रव्यविशेषः । १५ गृह्णन् । * अयमर्द्ध श्लोकः संतापुस्तके पतितः ॥ १६ अतिशयेन सम्मिलितैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org