________________
प्रथमा सर्ग]
त्रिषष्टिशलाकापुरुषचरितम् । अहमेतां ग्रहीष्यामि, कथञ्चिदपि नो महीम् । प्रायश्चित्तं चरिष्यामि, गुर्वादेशव्यतिक्रमे ॥ १८५॥
सूनोर्गिरा तया खाशालोपिन्या सवसारया । विषण्णश्च प्रसनश्च, जगादेति महीपतिः ॥ १८६ ।। मत्पुत्रोऽसि समर्थोऽसि, विद्वानसि विवेक्यसि । किन्त्वज्ञानात् स्नेहमूलादविचार्यैवमभ्यधाः ॥ १८७ ॥ गुर्वाज्ञा हि कुलीनानां, विचारमपि नाऽर्हति । युक्तियुक्तेति मद्वाणी, विचार्यापि विधीयताम् ॥१८८॥ भारं वोढुं क्षमे पुत्रे, निराभारः पिता ननु । बालेऽपि हि सुते हन्त!, सिंही स्वपिति निर्भरम् ॥१८९ ॥ 5 किश्च त्वामप्यनापृच्छथ, मोक्षकामः क्षमामिमाम् । मोक्ष्यामि यदहं वत्स, परतन्त्रस्त्वया न हि ॥१९०॥ विलुलन्तीमनाथां मां, ततोऽपि त्वं धरिष्यसि । अतिरिक्तं तु ते भावि, मदाज्ञालङ्घनादघम् ॥ १९१॥ एवं वत्स! विचारेणाऽविचारेणापि मद्वचः। अनुष्ठेयं त्वया भक्तिनिष्ठेन सुखदं मम ॥ १९२ ॥
जगदुर्मत्रिणोऽप्येवं, निसर्गेण विवेकिनः । देवकीयकुमारस्य, समीचीनमिदं वचः ॥ १९३ ॥ तथापि देवपादा यदादिशन्ति तदाचर । गुर्वाज्ञाकरणं सर्वगुणेभ्यो ह्यतिरिच्यते ॥ १९४॥ 10 देवेनाऽपि पितृवचः, कृतं जानीमहे वयम् । पितृतः कः परो लोकेऽनुल्लवथवचनो भवेत् ? ॥ १९५ ॥
एवं मत्रिभिरप्युक्तः, कुमारो गद्गदस्वरम् । वाम्यादेशो मे प्रमाणमित्यूचे नैतकन्धरः ॥ १९६ ॥ कुमुदं कौमुदीनाथेनेवाऽब्देनेवे बहिणः । कुमारेणाऽऽदेशका, महीपतिरमोदत ॥ १९७॥
अथ भूमिपतिः प्रीतः, स्वयमादाय पाणिना । कुमारमासयामासाभिषेकाहे निजासने ॥ १९८॥ पवित्राणि पवित्राणि, धरित्रीभर्तुराज्ञया । आनिन्यिरे तीर्थपाथांस्यन्दैरिव नियोगिभिः ॥ १९९ ॥ 15 वाधमानेषु मङ्गल्यतूर्येपूच्चैःस्वरेष्वथ । मूर्ध्नि मूर्धाभिषिक्तेन, कुमारः सिषिचे वयम् ॥ २००॥ उत्पत्योत्पत्य राजानोऽभ्यषिश्चन्नपरेऽपि तम् । नवोदयमिवाऽऽदित्यं, नमश्चक्रुश्च भक्तितः॥२०१॥ नृपादेशेन सेदशान्यंशुकानि स पर्यधात् । तैश्वाऽदत्रैः शारदाझैः, शुभ्रर्गिरिरिवाऽऽबभौ ॥ २०२॥ गोशीर्षचन्दनैस्तस्याऽङ्गरागं वारयोषितः । सर्वाङ्गीणं विदधिरे, ज्योत्स्नापूरैरिवाऽमलैः ॥ २०३ ॥ मुक्तामयानि सर्वाङ्ग, भूषणानि स पर्यधात् । निर्मितानि दिवः कृष्ट्वा, प्रोतैरुडुंगणैरिव ॥ २०४॥ 20 ज्वलन्माणिक्यतेजस्कं, किरीटं तस्य मूर्धनि । स्वयं न्यवेशयद् राजा, खं प्रतापमिवोर्जितम् ॥ २०५॥ तस्य मूर्ध्नि धराधीशो, धारयामास निर्मलम् । सितच्छत्रं यश इव, प्रादुर्भूतं क्षणादपि ॥२०६ ॥ पार्श्वतो वारनारीभिरवीज्यत स चामरैः । राज्यसम्पल्लतोतद्भूप्रसूनस्तबकैरिव ॥ २०७॥ चन्दनेन स्वयं भूपस्तद्भाले तिलकं व्यधात् । उदयाचलचूलास्थनिशाकरविडम्बिनम् ॥ २०८॥ राजा राज्ये निवेश्यैवं, कुमारं परया मुदा । लक्ष्म्या रक्षामन्त्रमिव, सम्यक् शिक्षा ददाविति ।। २०९ ॥ 25
क्षितेरसि त्वमाधारस्तवाऽऽधारो न कोऽपि तत् । त्यक्त्वा प्रमादमात्मानमात्मना वत्स! धारयेः ॥२१०॥ भ्रश्यत्याधारशैथिल्यादाधेयं ननु सर्वथा। विषयातिप्रसङ्गोत्थं, शैथिल्यं तस्य रक्ष तत् ॥ २११ ॥ यौवनं विभवो रूपं, स्वाम्यमेकैकमप्यतः । प्रमादकारणं विद्धि, बुद्धिमत्कार्यसिद्धिभित् ॥ २१२ ॥ कुलक्रमागताऽप्येषा, लक्ष्मीश्छलगवेषिणी । दुराराधा छलयति, राक्षसीव प्रमद्वैरम् ॥ २१३ ॥ चिरवासभवस्नेहो, नाऽस्याः स्थैर्याय किन्त्वसौ । प्रयाति लब्धावसरा, शारिकेवाऽन्यतो द्रुतम् ॥२१४ ॥ 30 कुलटेवाऽपवादेभ्यो, भीरुतामदधत्यसौ । सुप्तवजाग्रतमपि, प्रमत्तं पतिमुज्झति ॥ २१५ ॥ दाक्षिण्यं रक्षणभवं, नैतस्या जातु जायते । किन्तु क्षणात् प्लवङ्गीवोत्प्लुत्य यात्याश्रयान्तरम् ॥ २१६ ॥ निर्लजता चपलता, निःस्नेहत्वमथाऽपरे । दोषाः प्रकृतिरेवाऽस्या, नीचैर्यानमिवाऽम्भसः ॥ २१७ ॥
गुर्वाज्ञाया उल्लङ्कने । २ स्वभावेन । ३ नम्रग्रीवः। चन्द्रेण । ५ मेघेन । ६तीर्थजलानि । अधिकारिभिः। ८ राज्ञा। ९ वस्त्रप्रान्तसहितानि । १० सर्वाङ्गव्याप्तम् । नक्षत्रसमूहै। १२ स्वामिता। १३ छिद्रान्वेषिणी। १५ प्रमादिनम्। १५ वानरीव । १६ अधोगमनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org