________________
१६२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व अज्ञानाद् वञ्चितोऽसाभिश्विरमात्माऽऽत्मनैव हि । चक्षुष्मानपि किं कुर्यादन्धकारे प्रसृत्वरे ? ॥१५१॥ अहो! वयमियत्कालमदान्तैरेभिरिन्द्रियैः । उत्पथेनैव नीताः सः, शूकलैरिव वाजिभिः ॥ १५२ ॥ मया विषयसेवेयं, परिणत्यामनर्थदा । कृता विभीतकतरुच्छायासेवेव दुर्धिया ॥ १५३॥ मया दिग्जययात्रायामन्यवीर्यासहिष्णुना । गजा गन्धगजेनेव, हताः क्षमापा निरागसः ॥ १५४ ॥ मम सन्ध्यादिषागुण्यं, प्रयुञ्जानस्य राजसु । कियत्यवितथा वाणी, छाया तालतरोरिव ॥ १५५ ॥ आच्छिन्दता च राज्यानि, प्रसह्याऽन्यमहीभुजाम् । अदत्तादानमेवैकमाजन्माऽऽचरितं मया ॥ १५६ ॥ रतिसागरमध्यावगाढेन च निरन्तरम् । शिष्येणेव मन्मथस्याऽब्रह्मैवाऽनुष्ठितं मया ॥ १५७ ॥ प्राप्तैरथै रतृप्तस्याप्राप्यानर्थान् जिघृक्षतः । इयत्कालमहो ! मोहान्मूर्छा मेऽभूद् बलीयसी ॥ १५८ ॥
हिंसादीनामेकतमोऽपि हि दुर्गतिकारणम् । स्पृष्ट एकोऽपि चण्डालः, स्यादस्पृश्यत्वकारकः ॥ १५९ ॥ 10 ततः प्राणातिपातादिपञ्चकात् सकलादपि । विरतिं प्रतिपत्स्येऽद्य, वैराग्याद् गुरुसन्निधौ ॥ १६० ।।
कुमारे कवचहरे, राज्यभारमिमं पुनः । निधास्यामि निजं तेजो, वह्नौ सायमिवाऽयमा ॥ १६१॥ भाव्यं मयीव युष्माभिः, कुमारेऽप्युरुभक्तिभिः । अनया शिक्षयाऽलं वा, जात्यानां शीलमप्यदः ॥१६२॥ ___ अथैवं मत्रिणोऽप्यूचुः, स्वामिन्नेवंविधा धियः। न ह्यनासन्नमोक्षाणां, भवन्ति भविनां क्वचित् ॥१६३॥ युष्माकं पूर्वजन्मानोऽप्याजन्माखण्डशासनाः । अवनीं साधयामासुर्बिडौजेंस इवौजसा ॥ १६४ ॥ राज्यमुत्सृज्य निष्ठ्यूतमिवाऽनिष्ठितशक्तयः । व्रतमाददिरे सर्वे, रत्नत्रयपवित्रितम् ॥ १६५ ॥ इमं देवोऽपि भूभारं, बभार स्वभुजौजप्ता । शोभाभूता वयं तत्र, रम्भास्तम्भा इवौकसि ॥ १६६ ॥ इदं देवस्य साम्राज्यं, यथाक्रमसमागतम् । सावदानं निर्निदान, व्रतादानमिदं तथा ॥ १६७ ॥ लीलाकमलवद् वोढुं, क्षमाभारमसौ क्षमः । कुमारोऽपि हि देवस्य, द्वितीय इव चैतनः ॥ १६८ ॥ यदि गृह्णाति गृह्णातु, दीक्षां मोक्षफलां विभुः । आरोहत्युच्चकैः काष्ठां, स्वामिन्यस्माकमुत्सवः ॥ १६९ ॥ निशातन्यायनिष्ठेन, सत्वशौण्डीर्यशालिना । देवेनेव कुमारेणाऽप्यस्तु राजन्वती मही ॥ १७०॥
अनुज्ञावचनैस्तेषां, मुदितो मेदिनीपतिः । शीघ्रमाह्वाययामास, कुमारं वेत्रधारिणा ॥ १७१ ॥ सलीलचरणन्यासं, कुर्वाणो राजहंसवत् । मूर्त्या देवो मार इव, कुमारोऽपि समाययौ ॥१७२॥ प्रणम्य नृपतिं भक्त्या, स पत्तिपरमाणुवत् । निषसाद यथास्थानं, तस्थौ च रचिताञ्जलिः ॥ १७३ ।। अभिषिञ्चभिव दृशा, पीयुषरससारया । पश्यन् कुमारं सानन्दं, व्याजहारेति भूपतिः ॥१७४ ॥ ___ असदश्या नृपाः पूर्वेऽप्युर्वीमेतामपालयन् । अगृनवो दयाबुद्ध्या, गामिवैकाकिनी वने ॥ १७५ ॥ क्षमीभूतेषु पुत्रेषु, क्षमाभारं क्रमेण ते । स्वयमारोपयामासुधौरेयवृषभेष्विव ॥ १७६ ॥ आतिष्ठमानाः सकलमप्यनित्यं जगत्रये । उत्तस्थिरे स्वयं तस्मै, शाश्वताय पदाय ते ॥ १७७ ॥ इयत्कालं न कोऽप्यस्थाद् , गृहवासेऽसदादिमः । अहो ! गार्हस्थ्यमूढस्य, प्रमादोऽभूत् कियान्मम ॥१७८॥ राज्यभारं गृहाणेमं, ग्रहीष्यामो वयं व्रतम् । भवाम्भोधि तरिष्यामो, निर्भारा भवता कृताः ॥ १७९ ॥
तया नृपगिरा म्लायन् , हिमेनाऽम्भोजकोशवत् । उदस्रनेत्रकमलः, कुमारोऽप्येवमब्रवीत् ॥ १८॥ अकाण्डेऽप्यप्रसादोऽयं, देव ! केनाऽऽगसा मम । पदातिमानिनि मयि, स्वामिन् ! यदिदमादिशः॥१८॥ अपराधः कृतः कोऽपि, किं वा वसुधयाऽनया ?। चिरत्राताऽपि तृणवद् , यदियं त्यज्यतेऽधुना ॥१८२॥ तातपादैविना तात !, राज्येनाऽपि कृतं मम । पूर्णेनाऽप्यजहीनेन, सरसा भ्रमरस्य किम् ? ॥१८॥ प्रतिकूलमहो! दैवमहो! मे मन्दभाग्यता । तातो यदादिशत्येवं, त्यजन् मामिह लोष्ठवत् ॥ १८४ ॥
भवशीकृतैः । २ उद्धृतः। ३ सूर्यः। ४ पूर्वजाः। ५ इन्द्राः । ६ सपराक्रमम् । ७ निदानरहितम् । ८ भारमा। ९ तीक्ष्णः। १० कामदेवः । १५ अनासक्ताः ।
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org