________________
१६१
प्रथमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । प्रसूनरसनिस्सन्दस्तीमितावनिता व सा? । क ज्वलद्धाष्ट्रसिकतातुल्यसन्तापपांसुता ? ॥ ११८ ॥ फलप्राग्भारभारावनम्रपादपता कसा? । मूलोपेदेहिकाग्रस्तपतितद्रुमता क च ॥ ११९ ।। अनेकवल्लीवलयलटभा वृतयः क ताः । क्व चैताः सपेनिमुक्तास्तोकनिर्माकदारुणाः ॥ १२०॥ तले तरूणां प्रचुरः, प्रसूनप्रकरः क्व सः? । उद्भूतस्थलेशृङ्गाटकण्टका उत्कटाः क्व च ॥ १२१॥ मन्ये यथाऽयमारामो, जज्ञे सम्प्रत्यतादृशः । तथा संसारिणः सर्वे, संसारस्थितिरीदृशी ॥ १२२ ॥ 5 सौन्दर्येण स्वकीयेन, य एव मदनायते । यस्तो रोगेण घोरेण, कङ्कालति स एव हि ॥ १२३ ॥ य एव छेकताभाजा, वाचा वाचस्पतीयते । कालान्मुहुःस्खलजिह्वः, सोऽपि मूकायतेतराम् ॥ १२४ ॥ चारुचङ्क्रमणशक्त्या, यो जात्यतुरगायते । वातादिभग्नगमनः, पयूयते स एव हि ॥ १२५ ॥ हस्तेनौजायमानेन, हस्तिमल्लायते च यः । रोगाद्यक्षमहस्तत्वात् , स एव हि कुणीयते ॥ १२६ ॥ दूरदर्शनशक्त्या च, गृध्रायेत य एव हि । पुरोऽपि दर्शनाशक्तेरन्धायेत स एव हि ॥ १२७ ॥ 10 क्षणाद् रम्यमरम्यं च, क्षणाच्च क्षममक्षमम् । क्षणाद् दृष्टमदृष्टं च, प्राणिनां वपुरप्यहो। ॥ १२८॥ इति चिन्तयतो धाराधिरूढमभवत् तदा । मम संसारवैराग्यं, जपतो मत्रशक्तिवत् ॥ १२९ ॥ महामुनीनामभ्यणे, कर्मकक्षहुताशनम् । निर्वाणचिन्तामाणिक्य, ततोऽहं व्रतमात्तवान् ॥ १३० ॥
पुनः प्रणम्य शिरसाऽऽचार्यवर्यमरिन्दमम् । विवेकवान् महीपालो, भक्तिमानभ्यधादिति ॥ १३१॥ निरीहा निर्ममाः सन्तः, पूज्यपादा अमी इमाम् । पुण्यैरसादृशामेव, विहरन्ते वसुन्धराम् ॥ १३२॥ 15 इहाऽतिघोरे संसारे, जनो वैषयिकैः सुखैः । अन्धकूपे तटतृणैश्छन्ने पतति गौरिव ॥ १३३ ॥ तस्साच प्राणिनस्त्रातुं, विधत्ते भगवानिह । कारुण्यवानहरह?षणामिव देशनाम् ॥ १३४ ॥ न श्रियो न कलत्राणि, न पुत्रा न च बान्धवाः । अस्मिन्नसारे संसारे, सारं गुरुगिरः परम् ॥ १३५ ॥ पर्याप्तं सम्पदा तन्मे, विद्युल्लेखाविलोलया । कृतमापातमधुरैर्विषयैर्विषसन्निभैः ॥ १३६ ॥ कलत्र-पुत्र-मित्राद्यैरिहलोकसखैरलम् । भवाब्धितारणतरी, देहि दीक्षां प्रसीद मे ॥ १३७ ॥ 20 यावत कुमारं खे राज्ये, स्थापयित्वाऽभ्युपैम्यहम् । अलङ्कार्यमिदं स्थानं, तावत् पूज्यैः कृपापरैः ॥१३८॥ ___ आचार्योऽप्याललापैवं, प्रोत्साहनकृता गिरा । इच्छा तव महेच्छस्य, भूपते ! साधु साध्वसौ ॥१३९॥ राजन्! प्राग्जन्मसंस्काराज्ज्ञाततत्त्वः पुराऽप्यसि । हस्तालम्बो दृढस्येव, हेतुमात्रं तु देशना ॥ १४० ॥ प्रव्रज्या त्वादृशैरात्ता, फलत्यातीर्थकृच्छ्रियः । गौः पालकविशेषेण, कामं दुग्धे विशिष्यते ॥ १४१ ॥ स्थास्यामो वयमत्रैव, त्वदीहितचिकीर्षया । विहरामो वयं भव्योपकारायैव केवलम् ॥ १४२ ॥ 25
उदीरिते सरिणैवं, नृपसूरः प्रणम्य तम् । उत्तस्थौ निश्चिते कार्ये, नालसन्ति मनखिनः ॥ १४३ ॥ पार्थिवोऽरिन्दमाचार्यपादलग्नस्य चेतसः । हठादपि ययौ वेश्म, दुर्भगां गृहिणीमिव ॥ १४४ ॥ सिंहासने निषद्याऽथ, समाहूय च मत्रिणः । खराज्यभवनस्तम्भानित्यभाषिष्ट भूपतिः ॥ १४५ ॥ भो भो! गृहेऽत्र राजानो, वयमाम्नायतो यथा । मत्रिणोऽपि तथा यूयं, स्वाम्यर्थेकमहाव्रताः॥१४६ युष्मन्मत्रबलेनैषाऽसाधि विद्येव मेदिनी । निमित्तमात्रं तत्राऽभूद् , दोर्बलोपक्रमस्तु नः ॥१४७॥ 30 भवन्तो बिभराञ्चक्रुर्भूमिभारं पुराऽपि मे । घनवात-घनाम्भोधि-तनुवाता इवाभितः ॥१४८ ॥ अहं तु विविधक्रीडारसमग्नो दिवानिशम् । अतिष्ठं विषयासक्त्या, सुपर्वेव प्रेमद्वरः ॥ १४९॥ मयाऽद्य तु प्रमादोऽयमनन्तभवदुःखदः । गुरुप्रसादेनाऽज्ञायि, निशि दीपेन गर्त्तवत् ॥ १५०॥
१ आर्द्रभूमिता। २ कीटविशेषः। ३ मनोहराः। ४ सर्पकञ्चकः। ५ कण्टकवृक्षविशेषः। ६ अस्थिपञ्जरशेषवपुरिव भवति । ७ चातुर्ययुक्तया । ८ वातरोगनष्टपादः। ९ कुण्ठितकरो भवति । १० कर्मवनेषु वह्निसमम् । निरन्तरम् । १२ राजा। १३ कुलपरम्परातः। १४ देवः। १५प्रमत्तः ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only