________________
१६०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व कांश्चित् ताासनान् कांश्चित्, कपालीकरणस्थितान् । आम्रकुब्जासनान् कांश्चित्, कांचन स्वस्तिकासनान् ॥ दण्डपद्मासनान् कांश्चित्, कांश्चित् सोपाश्रयासनान् । कायोत्सर्गस्थितान् कांश्चित, कांश्चिदुक्षासनस्थितान्॥ निरपेक्षान् शरीरेऽपि, नियूंढस्वप्रतिश्रवान् । विविधेपूपसर्गेपु, समरेषु भटानिव ॥ ८७ ॥ अन्तरङ्गानरीन जिष्णून् , सहिष्णूंश्च परीपहान् । तपोध्यानैरलम्भूष्णून् , साधूनपि ददर्श सः ॥ ८८ ॥ उपेत्याऽरिन्दमाचार्यान् , ववन्दे मेदिनीपतिः । विभ्राणः पुलकव्याजाद्, भक्तिमङ्कुरितामिव ॥८९॥ सूरिवर्योऽप्युपमुखं, विन्यस्तमुखवत्रिकः । धर्मलाभाशिपमदात् , सर्वकल्याणमातरम् ॥ ९ ॥ नरेश्वरोऽपि विनयात् , तनुं सङ्कोच्य कूर्मवत् । अवग्रह भुवं मुक्त्वा, निषसाद कृताञ्जलिः ॥ ९१ ॥ शुश्राव देशनां तस्मादाचार्यादवनीपतिः । एकतानमनास्तीर्थकरादिव पुरन्दरः ॥ ९२ ॥
राज्ञस्तद्भववैराग्यं, धर्मदेशनया तया । व्यशिष्यताऽवदातत्वं, शरदेव हिमश्रुतेः ॥ ९३ ॥ 10 आचार्यपादान् वन्दित्वा, रचिताञ्जलिसम्पुटः । गिरा विनयगर्भिण्येत्यभ्यधाद् वसुधाधवः ॥ ९४ ॥
अनन्तदुःखरूपाणि, फलान्यनुभवन्नपि । संसारविपवृक्षस्य, जनो वैराग्यभाग न हि ॥ ९५ ॥ कथं संसारवैराग्यं, जातं भगवतामिह ? । आलम्बनविभावेन, भवितव्यं हि केनचित् ॥ ९६ ॥ ___ दन्तांशुज्योत्स्नया व्योमतलं धवलयनथ । एवमाचार्यचन्द्रोऽपि, सप्रसादमभापत ॥ ९७ ॥
संसारे धीमतां सर्वमपि वैराग्यकारणम | विशेषतस्तु वैराग्यहेतः कस्यापि कश्चन ॥९८॥ 15 अहं हि गृहवासस्थः, पुरा दिग्जयहेतवे । हस्त्यश्व-रथ-पादातचमूभिः सहितोऽच ठम् ॥ १९॥
मार्गान्तराले सततस्निग्धच्छायामनोरमम । जगद्धमणखिन्नाया, विश्रामौक इव श्रियः॥१०॥ नृत्यन्तमिव कङ्केल्लिलोलपल्लवपाणिभिः । हसन्तमिव विहसन्मल्लिकास्तवकोत्करैः ॥ १०१॥ रोमाञ्चितमिवोदश्चत्कदम्बकुसुमोच्चयैः । वीक्ष्यमाणमिव स्मेरकेतकीकुसुमेक्षणैः ॥ १०२॥ सन्तापिनस्तपनांशून् , दूरादापततोऽपि हि । साल-तालद्रुमभुजैनिधन्तमिवोच्छ्रितैः ॥ १०३ ॥ दत्तगुप्यद्गुरुमिवाऽध्वगार्थं वटपादपैः । सजीकृतपाद्यमिव, सारणीभिः पदे पदे ॥ १०४ ॥ शृङ्खलिताम्भोदमिव, महद्भिररघट्टकैः । गुञ्जन्मधुकरारावैराह्वयन्तमिवाऽध्वगान् ॥ १०५ ॥ तमाल-ताल-हिन्ताल-चन्दनैर्मध्यवर्तिभिः । दिवाकरकरत्रासात् , तिमिरैरिव सेवितम् ॥ १०६ ॥ चूत-चम्पक-पुन्नाग-नाग-केसरकेसरैः । जगत्येकातपत्रत्वं, तन्वानं सौरभैश्रियः ॥ १०७ ॥
ताम्बूली-लवली-द्राक्षावितानैरतिसन्ततैः । पान्थयूनां विना यत्नं, तन्वन्तं रतिमण्डपान् ॥ १०८ ॥ 25 भद्रशालमिवाऽऽयातं, मेरुशैलतलावनेः । भृशाभिराममारामं, तदाऽद्राक्षमहं वजन् ॥ १०९॥
चिरेण दिग्जयं कृत्वा, निवृत्तः पुनरप्यहम् । आरामस्याऽन्तिके तस्य, सह चम्वा समागमम् ॥ ११० ॥ उत्तीर्य वाहनेभ्योऽहं, कौतुकात् सपरिच्छदः । तदन्तः प्रविशन्नन्यादृक्षमद्राक्षमग्रतः ॥ १११ ॥ __ इति चाऽचिन्तयमहं, भ्रान्तोऽन्यत्र किमागमम् ? । इदं किं वा परावृत्तमिन्द्रजालमथेदृशम् १ ॥११२॥
यत् क्व पत्रलता साऽर्ककरप्रसरवारणी? । क वाऽसावातपस्सैकातपत्रत्वमपत्रता ॥ ११३ ॥ 30 क्क सा कुञ्जेषु विश्रान्तरमणीरमणीयता ? । निद्रायमाणाजगरदारुणत्वमिदं क्व च ॥ ११४ ॥
कलापिकलकण्ठादिमधुरालापिता क्व सा । विलोलकाकोलकुलरो व्याकुलता क्व च ? ॥ ११५ ॥ प्रलम्बलम्बमानाशिम्बीबहलता व सा? । क्व चैषा शुष्कशाखाग्रदोलायितभुजङ्गता ॥ ११६ ॥ क च सा कुसुमामोदसुरभीकृतदिक्कता ? । चिल्ली-कपोत-ध्वासादिविष्टादुर्गन्धता क्व च ॥ ११७ ॥
निर्वाहितस्वप्रतिज्ञान् । २ एकाग्रचित्तः। ३ इन्द्रः। * °याऽनया ल॥ ४ विशेष जातम् । ५ उजवलत्वम् । पचन्द्रस्य । ७विश्रामस्थानम्। ८ उन्नतैः। ९ क्षुद्रनदीभिः। १० सुगन्धलक्ष्याः । ११ पत्रराहित्यम् । १२ मयूरकोकिलादि। १३ काकपक्षिविशेषः। १४ कठोरध्वनिः। १५ काकः।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org