________________
प्रथमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् ।
१५९ अम्भोधौ युगशमिलाप्रवेशन्यायतो भवे । कथश्चिन्मानुषं जन्म, लभ्यते पुण्ययोगतः ॥५४ ॥ तत्रापि चाऽऽयंदेशेषु, जन्मिनो जन्म जायते । महतश्च कुलस्याऽऽप्तिः, सेवा गुरुकुलस्य च ॥ ५५ ॥ इति प्राप्याऽपि सामग्री, शिवाय यतते न यः । सम्पन्नायां रसवत्यां, स तिष्ठति बुभुक्षितः ॥५६॥ उभयोरपि चोर्ध्वाऽधोगत्योः स्वायत्तयोरिह । धावत्यधोमुखं प्रायो, जडधीजलवज्जनः ॥ ५७॥ समये साधयिष्यामि, स्वार्थमित्याशयं वहन् । प्राप्यतेऽर्वाग यमदूतैररण्ये तस्करैरिव ॥ ५८॥ कृत्वाऽघमपि यान पुष्येत्, तेषामुत्पश्यतामपि । अत्राणो रङ्कवजन्तुः, कृष्ट्वा कालेन नीयते ॥ ५९॥ ततश्च नीतो नरके, लभतेऽनन्तवेदनाः। जन्मान्तरानुधावीनि, कर्माणि ऋणवन्त्रणाम ॥६॥ माताऽसौ मे पिता चाऽसौ, भ्राताऽसावभूरसौ । इति स्वबुद्धिर्मिथ्यैव, शरीरमपि न स्वकम् ॥ ६१॥ एषां पृथक पृथक स्थानादेयुषामिह केवलम् । एकत्राऽवस्थितिः स्थाने, पक्षिणामिव पादपे ॥ ६२॥ ततोऽप्यन्यत्र गच्छन्ति, पृथक् स्थानेषु देहिनः । नक्तमेकत्र शयिताः, पान्था इव निशात्यये ॥ ६३ ॥ 10 अरघट्टघटीन्यायेनैहिरेयाहिरामिह । कुर्वतां देहिनां हन्त!, कः स्वकः? कः परोऽथवा ? ॥ ६४॥ तत् त्यक्तव्यं कुटुम्बादि, त्यक्तव्यं पुरतोऽप्यदः । स्वार्थायैव यतितव्यं, स्वार्थभ्रंशो हि मूर्खता ॥६५॥ एकान्तानन्तसुखदः, सार्थो निर्वाणलक्षणः । मूलोत्तरगुणैः स स्यात्, प्रकाशोर्ककरैरिव ॥६६॥
इति चिन्तयतो राज्ञश्चिन्तामणिरिव स्वयम् । श्रीमानरिन्दमो नामोद्याने सूरिः समाययौ ॥ ६७॥ तदागमनवाता च, समाकर्ण्य महीपतिः। पीतपीयूषगण्डूष, इव हर्ष समासदत् ॥ ६८॥ 15 तं वन्दितुमथाऽऽनन्दादचालीदचलापतिः । मायूरपत्रातपत्रैः, कुर्वन् साब्दमिवाऽम्बरम् ॥ ६९ ॥ लक्ष्मीदेव्या निपतयां, कटाक्षाभ्यामिवोच्चकैः । स्पृश्यमानश्चामराभ्यामुभयोरपि पार्श्वयोः ॥ ७० ॥ तुरङ्गैः वर्णसन्नाहैः, वर्णपक्षैः खगैरिव । वेगिभिर्विजितश्वासै, रुन्धानः ककुभोऽखिलाः ॥ ७१ ॥ अञ्जनाचलचूलाभिर्जङ्गमाभिरिवामितः । महास्तम्बेरमै रान्यञ्चयन्नवनीतलम् ॥ ७२ ॥ खयं समन्तात् सामन्तैभक्तितः परिवारितः । निजस्वामिमनोज्ञानान्मनःपैर्ययिकैरिव ॥ ७३ ॥ 20 बन्दिकोलाहलस्पर्द्धादिव प्रसृमरैर्दिवि । नादैर्मङ्गलतूर्याणां, दूरात् पिशुनितागमः ॥ ७४ ॥ करेणुकाधिरूढाभिर्वारस्त्रीभिः सहस्रशः । शृङ्गाररसवापीभिः, परितः परिवारितः ॥ ७५ ॥ सिन्धुरस्कन्धमारूढश्छायाकुलनिकेतनम् । उद्यानं नन्दनप्रायं, पाप तद् भूमिवासवः ॥ ७६ ॥
[सप्तभिः कुलकम् ] उत्तीर्य कुञ्जरस्कन्धादवनीपतिकुञ्जरः । प्रविवेश तदुद्यानं, सिंहो गिरिगुहामिव ॥ ७७ ॥ वज्रसंवर्मितमिवाऽभेद्यं मन्मथपत्रिणाम् । रागरोगागंदेकारं, द्वेषद्वेषिद्विषन्तपम् ॥ ७८॥ क्रोधानलनवाम्भोदं, मानगुममहागजम् । मायोरगीगरुत्मन्तं, लोभशैलमहाशनिम् ॥ ७९ ॥ मोहान्धकारतरणिं, तपस्तेजोऽनलारणिम् । क्षमासर्वस्वधरणिं, बोधिवीजाम्बुसारणिम् ॥ ८॥ आराममिव धर्मद्रोरात्मारामं महामुनिम् । आरादरिन्दमाचार्यमद्राक्षीत् तत्र पार्थिवः ॥ ८१॥
[चतुर्भिः कलापकम् ] 30 कांश्चिदुत्कटिकासीनान्, कांश्चित् पद्मासनस्थितान् । गोदोहिकासनान् कांश्चित, कांचिद् वीरासनासितान् ॥ वज्रासनजुषः कांश्चित, कांश्चिद् भद्रासनस्थितान् । कांश्चिद् दण्डासनासीनान्, कांश्चिद् वल्गुलिकासनान् ।। कांश्चित् क्रौञ्चनिषदनान्, कांश्चिद्धसासनस्थितान् । पर्यङ्कासनिनः कांश्चित्, कांश्चिदुष्ट्रासनस्थितान् ॥८॥
स्वाधीनयोः। २ बन्धूनाम् । * °रानुबन्धीनि खंता॥ ३ पुत्रः । ४ आगतानाम् । ५ गमनागमनम् । मोक्ष. साक्षणः। ७ राजा। ८ मेघसहितम् । ९ महागजैः। १० नम्रीकुर्वन् । १५ मनःपर्यायज्ञानिभिः । १२ सूचितागमनः ।
वाग्यासस्थानम् । १५कामबाणानाम् । १५ वैद्यम् । १६सर्यम् ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org