________________
१५८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[द्वितीयं पर राजन्ते तत्र चैत्येषु, चलद्धजपटाञ्चलाः । मा गाश्चैत्योपरीत्यर्क, निषेधन्त इवाऽसकृत् ॥ २०॥ श्यामीकृतनभांस्यम्भाप्लुतभूमीनि भूरिशः । उद्यानानि महीलग्नमेघसध्यश्चि तत्र च ॥ २१ ॥ खर्णरत्नमयास्तत्र, क्रीडाशैलाः सहस्रशः । आरामरम्यकटका, मेरोरिव कुमारकाः ॥ २२ ॥ सा च धर्मार्थकामानां, युगपत् सुहृदामिव । क्रीडार्थमेकसङ्केतनिकेतनमिवोचकैः ॥ २३ ॥ भोगावत्यमरावत्योरधऊर्ध्वस्थयोः पुरोः । सोयेवाऽन्तरे जाता, सा संधीची महर्द्धिभिः ॥ २४ ॥
नगर्यामभवत् तस्यां, राजा विमलवाहनः । *विमलात्माऽतिविमलैर्गुणोस्त्रैश्चन्द्रमा इव ॥ २५ ॥ प्रपुष्णन् लालयन् वृद्धि, प्रापयन् लम्भयन् गुणैः । स प्रजाः पालयामास, खापत्यानीव वत्सलः ॥२६॥ अन्यायं स निजस्याऽपि, न सेहे न्यायनिष्ठुरः । चिकित्स्यते हि निपुणैरङ्गोद्भवमपि व्रणम् ॥ २७ ॥ लीलयैव महौजस्कः, स विश्वेगवनीभुजाम् । शिरांसि नमयामास, समीर इव भूरुहाम् ॥ २८ ॥ त्रिवर्ग पालयामास, परस्परमबाधितम् । नानाविधं प्राणिगणं, महात्मेव तपोधनः ॥ २९॥ औदार्य-धैर्य-गाम्भीर्य-क्षान्तिप्रभृतयो गुणाः । तस्याऽन्योऽन्यमभूष्यन्तोपवनस्सेव पादपाः ॥ ३०॥ पर्यन्तो गणास्तस्य, सौभाग्यैकधरन्धराः । कस्य न हलगन कण्ठे, चिरायातवयस्यवत?॥३१॥ पर्वतारण्यदुर्गादिदेशेष्वपि महौजसः । सँदागतेरिख गतिः, शासनं तस नाऽस्खलत् ॥ ३२ ॥
आक्रान्ताशेषदिक्कस्य, प्रसरचण्डतेजसः । लुलुठुर्भूभृतां मूर्ध्नि, पादास्तस्य वेरिव ॥ ३३ ॥ 15 सर्वज्ञो भगवान् स्वामी, यथा तस्य महामतेः । भूभुजामपि सर्वेषां, स एवैकस्तथाऽभवत् ॥ ३४ ॥
विसत्रितामित्रबलः, सुत्रामेवैकविक्रमः । साधुभ्य एव स शिरो, नमयामास बाल्यतः ॥ ३५॥ यथा तस्याऽतुला शक्तिबर्बाह्यानां द्विषतां जये । आन्तराणामपि तथा, बभूवैकविवेकिनः ॥ ३६॥ दुर्दमं दमयामास, बलादुत्पथगत्वरम् । यथेभ-वाजिप्रभृति, स इन्द्रियगणं तथा ॥ ३७॥
स ददौ दानशीलोऽपि, पात्र एव यथाविधि । पात्रे बहुफलं तद्धि, शुक्तावम्भोदवारिवत् ॥ ३८॥ 20 विदधानः परपुरप्रवेशमिव सर्वतः । प्रजाः प्रवर्तयामास, धर्मेऽध्वनि स धर्मवित् ॥ ३९ ॥
चरित्रेण पवित्रेण, सोऽवासयदिदं जगत् । मलयोवी परिमलेनेव चन्दनपादपः ॥ ४०॥ द्विजयादातुरत्राणादर्थिसम्प्रीणनादपि । युद्धवीरो दयावीरस्त्यागवीरश्च सोऽभवत् ॥४१॥ स एवं राजधर्मस्थः, स्थिरधीरप्रेमद्वरः । चिरं ररक्ष वसुधा, सुधामिव फणीश्वरः ॥ ४२ ॥ कृत्याकृत्यविदस्तस्य, सारासारं विविश्चतः । अन्येधुरेवमुत्पेदे, भववैराग्यवासना ॥ ४३ ॥
योनिलक्षमहावर्त्तनिपातक्लेशभीषणः । पारावार इवाऽपारः, संसारो धिगसावहो। ॥४४॥ इहेन्द्रजालवत् स्वमजालवच्च भवे हहा! । क्षणाद् दृष्टैः क्षणानष्टैरर्थैर्मुह्यन्ति जन्तवः ॥ ४५ ॥ यौवनं पवनोद्भूतपताकाञ्चलचञ्चलम् । आयुः कुशाग्रविश्रान्तजलविन्दुचलाचलम् ॥ ४६॥ अमुष्याऽप्यायुषो गर्भवासे नरकवासवत् । अत्यन्तदुःखाद् गच्छन्ति, मासाः पल्योपमोपमाः॥४७॥ अथ जातस्य बालत्वेऽप्यायुर्भागः कियानपि । परप्रणेयस्य सतो, मुधाऽन्धस्येव गच्छति ॥ ४८ ॥ इन्द्रियार्थरसस्वादुरसास्वादेन यौवने । मत्तस्यैव वृथा गच्छत्यायुरंशः कियानपि ॥ ४९ ॥ त्रिवर्गसाधनाशक्तवपुषश्च वपुष्मतः । आयुः शेषं वृथा याति, प्रसुप्तस्येव वार्द्धके ॥ ५० ॥ इत्थं विदन्नपि भवी. भवायैव विचेष्टते। कामं रोगीव रोगाय, विषयास्वादलम्पटः ॥५१॥ यौवने विषयेभ्योऽसौ, यथा द्युत्तिष्ठते भवी । तथोत्तिष्ठेत चेन्मुक्त्यै, किं हि न्यूनं तदा भवेत् १ ॥५२॥ वयवृतैः कर्मपाशैः, खं भवी वेष्टयत्यहो। । स्खलालातन्तुसन्तत्या, जालकार इव कृमिः ॥५३॥
सरशानि । २ समो मध्यप्रदेशः। ३ भगिनीव । ४ तुल्या । * विमलाकोऽतिल ॥ ५ सर्वत्र । ६ पवनस्य । इन्द्रः। क्रोधादीनाम् । ९ परकायप्रवेशमिव । १० अरिजयात् । परापेक्षारहितः । १२ समुद्रः । १३ पराधीनस्य । ५ भात्मानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org