________________
10
सप्तमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । कस्याश्चिद् योषितस्तत्र कुररीकरुणखरम् । अश्रौषीद् रुदितं व्यक्तं वनान्तमपि रोदयत् ॥ २३३ ॥ आर्यपुत्रो दयावीरः प्रासादे तत्र सप्तमीम् । आरोहद् भूमिका धिष्ण्य विमानभ्रान्तिदायिनीम् ॥ २३४ ॥ सनत्कुमार कौरव्य! मम जन्मान्तरेऽपि हि । भर्ता भूयास्त्वमेवेति भूयो भूयोऽभिशंसिनीम् ॥ २३५॥ अश्रुपूर्णक्षणां दीनां कन्यामेकांमधोमुखीम् । रूपलावण्यपुण्याङ्गी सखा ते तत्र चैक्षत ॥ २३६ ॥ स्वनामश्रवणात् केयं ममेत्याशङ्कितोऽथ सः । पुरोभूयेत्यभाषिष्ट प्रत्यक्षेवेष्टदेवता ॥ २३७॥ भद्रे! सनत्कुमारः कः कासि त्वं किमिहागता । किं वा ते व्यसनं येन तं स्मरन्तीति रोदिषि ॥२३८॥ इत्युक्ता तेन सा बाला बलादाह्रादमीयुषी । पीयूषमिव वर्षन्ती गिरा मधुरयाऽवदत् ॥ २३९ ॥
साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेः । देव्याश्च चन्द्रयशसः सुनन्दा नाम पुज्यहम् ॥ २४॥ कुरुवंशनभोभानोरश्वसेनस्य भूपतेः । सूनुः सनत्कुमारस्तु रूपन्यकृतमन्मथः ॥ २४१ ॥ स मनोरथमात्रेण भर्ता मम महाभुजः । तस्मै पितृभ्यां दत्ताऽस्मि यस्माद्दुदकपूर्वकम् ।। २४२ ॥ ततोऽकृतविवाहां मामेको विद्याधरात्मजः । स्वकुट्टिमादिहानैपीत् पैरस्वमिव तस्करः ॥ २४३ ।। इमं विकृत्य प्रासादं मामत्रैव विमुच्य च । क्वापि विद्याधरः सोऽगान्न जाने किं भविष्यति ॥ २४४ ॥ अवोचदार्यपुत्रोऽपि मा भैपीः कातरेक्षणे ! । सनत्कुमारः सोऽस्म्येष कौरव्यो यं सरस्यलम् ॥ २४५ ॥ प्रत्यभाषिष्ट साऽप्येवं चिराद् दृष्टिपथेऽद्य मे । देव ! देवेन सुस्वममिव दिष्ट्याऽसि दर्शितः ॥ २४६ ॥ एवं तयोरालपतोरागात क्रोधारुणेक्षणः । विद्याधरो वजवेगाभिधानोऽशनिवेगमः ।। २४७॥ उत्पाट्योल्लालयामास स विद्याधरदारकः । आर्यपत्रं समत्पातिखेचरभ्रमदायिनम ॥ २४८॥ हा नाथ नाथ! दैवेन निहताऽस्मीति भाषिणी । मूर्च्छया सा महीपृष्ठे शीर्णपर्णमिवापतत् ॥ २४९ ॥ क्रुद्धः सन्नार्यपुत्रोऽपि मुट्या मशकमुष्टिवत् । वौजसा वज्रवेगमवधीत् तं दुराशयम् ॥ २५० ॥ अक्षताङ्गस्तदभ्यर्णमार्यपुत्रः समाययौ । नेत्रनीलोत्पलानन्दं जनयंश्चन्द्रमा इव ॥ २५१॥ समाश्वास्य च तां सद्यः पर्यणैपीन्मनीष्यसौ । नैमित्तिकवरैः सा हि स्त्रीरत्नमिति सूचिता ॥ २५२ ॥ 20 आगात् तत्र क्षणेनापि वज्रवेगस्य सोदरा । कन्या सन्ध्यावली नामाकुप्यद् भ्रातृवधाच सा ॥ २५३ ॥ 'भर्ता ते भ्रातृवधको भावीति' ज्ञानिनां वचः। स्मृत्वाऽशाम्यत् क्षणेनापि स्वलोभः कस्य नोपरि ॥२५४॥ जयश्रीः सा द्वितीयेव स्वयंवरपरायणा । आर्यपुत्र नाथमिच्छन्त्युपतस्थे कुमारिका ॥ २५५ ॥ अनुज्ञातस्त्वत्सखाऽथानन्दसाजा सुनन्दया । गान्धर्वेण विवाहेन तामुपायंस्त रागिणीम् ॥ २५६ ॥ एत्य विद्याधरौ द्वौ च तदानीमाश्वसेनये । महारथं संसन्नाहमुपनीयेत्यवोचताम् ।। २५७ ॥ त्वया हतं वज्रवेगं गरुडेनेव पन्नगम् । विज्ञायाशनिवेगस्तत्पिता विद्याधरेश्वरः ॥२५८॥ विद्याधरबलच्छन्नदिक्को दिक्करिविक्रमः । त्वां योधयितुमेत्येष रोषक्षाराम्बुसागरः ॥ २५९ ॥ पितृभ्यां चन्द्रवेगेन भानुवेगेन चेरितौ । आवां श्वशुर्यों भवतः साहाय्यार्थे समागतौ ॥ २६० ॥ तत्प्रेषितं रथं चामुमारोहेन्द्ररथोपमम् । अमुं चाऽऽमुश्च सन्नाहं विजयस्व द्विषां बलम् ॥ २६१॥ चन्द्रवेग-भानुवेगौ वाहनैर्वायुवेगिभिः । साहाय्यायागतौ विद्धि निजे मूर्ती इवापरे ॥ २६२॥ 30 तौ तदानीमपि महावाहिनीको समेयतुः । चन्द्रवेग-भानुवेगावब्धी पूर्वापराविव ॥ २६३॥ तदा चाशनिवेगस्यागच्छतः सैन्यसञ्चयैः । उत्तस्थे तुमुलो व्योम्नि पुष्करावर्त्तकैरिव ॥ २६४ ॥
१ कुररीवत् करुणः स्वरो यस्मिन् । * °दितमसौ व मु.॥ कुमारोऽपि द. संबृ०॥ २धिष्ण्यं नक्षत्रं तारा वा। योऽपि शंसिनीम् ॥ मु. ॥ श्री कुमारस्तत्र संबृ०॥ ३ संकल्पपूर्वकम् । ४ परधनम् । $उवाच राजपु संवृ०॥ ५ अधीरेक्षणे । ६ अतिशयेन । ७ बुद्धिमान् । ८ भगिनी। ** °णा । अथार्यपुत्रं नाथीयन्त्यु संवृ०॥tta: कुमारोऽथा संवृ०॥ ९ अश्वसेनस्य पुत्राय । १० कवचसहितम् । ११ परिधेहि। 11 त्तस्थी तु मु.॥
त्रिषष्टि. ५१
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org