________________
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व
पिशाचेभ्योऽप्यचकितमार्यपुत्रं तरखिनम् | अकालकालपाशा भैर्नागपाशैबन्ध सः ॥ २०३ ॥ आर्यपुत्रस्तु तान् सर्वांस्त्रोटयामास लीलया । हस्तोत्क्षेपेण हस्तीवाविहस्तो वल्लिमण्डपम् ॥ २०४ ॥ अमुं यक्षो विलक्षोऽथ करघा तैरताडयत् । महागिरिप्रस्थमिव लाङ्गूलाच्छोटनैर्हरिः ॥ २०५ ॥ आजघानार्यपुत्रस्तं वज्रसारेण मुष्टिना । महामात्र इव क्रुद्धी लोहगोलेन दन्तिनम् || २०६ ॥ 5 अयोवलयितेनाथ मुद्गरेण गरीयसा । आर्यपुत्रं न्यहन् यक्षस्तडितेवाद्रिमम्बुदः ॥ २०७ ॥ चन्दनद्रुमुन्मूल्य तेन वर्धिष्णुराहतः । यक्षः पपात भुव्युर्द्धशोषं शुष्क इव द्रुमः ॥ २०८ ॥ यक्षोऽपि शैलमुत्क्षिप्य लीलया गण्डशैलवत् । आर्यपुत्रस्योपरिष्टा चिक्षेपामर्षणः क्षणात् ॥ २०९ ॥ तेन शैलप्रहारेण जज्ञे निश्चेतनः क्षणम् । सायं नदीहद इव मीलितेक्षणपङ्कजः ॥ २१० ॥ लब्धसंज्ञो विधूयाद्रिं महावायुरिवाम्बुदम् । आर्यपुत्रः प्रववृते बाहुभ्यां योद्धुमुच्चकैः || २११ ॥ 10 दण्डेन दण्डभृदिव दोर्दण्डेन सखाऽपि तम् । चक्रे निहत्य ते कणशः सोऽमरत्वात् तु नामृत ॥ २१२ ॥
ततो विरसमारय मुमूर्षन्निव सूकरः । असिताक्षः पलायिष्ट वायवीयेन रंहसा ।। २१३ ॥ रणकौतुकवीक्षिण्यः सुरविद्याधराङ्गनाः । त्वन्मित्रे ववृषुः पुष्पाण्यृतुश्रिय इव स्वयम् ॥ २१४ ॥ अपराह्ने ततोऽचालीन्मानसाद् धीरमानसः । आर्यपुत्रो ययौ बाह्यां भुवं मत्त इव द्विपः ॥ २१५ ॥ नन्दनात् तत्र चायात असौ खेचरकन्यकाः । ईक्षाञ्चक्रे रूपवतीः मँरजीवातुसन्निभाः ॥ २१६ ॥ 15 सैंखा ते ताभिरप्यैक्षि हावभाव मनोहरम् । स्वयंवरस्रज इव क्षिपतीभिर्दृशोऽलसाः ॥ २१७ ॥
आविविकीर्षुः सद्भावमार्यपुत्र उपेत्य ताः । सुधामधुरया वाचा प्रोवाचार्यो वचखिनाम् ।। २१८ ॥ यूयं महात्मनः कस्य पुत्र्यः कुलविभूषणम् । युष्माभिर्भूषितं चेदमरण्यं केन हेतुना । ॥ २१९ ॥
20
25
30
३९६
चुर्महाभाग ! विद्याधरमहीपतेः । श्रीमतो भानुवेगस्य वयमष्टापि कन्यकाः ॥ २२० ॥ इतश्चानतिदूरेऽस्ति तातस्य नगरी वरा । तामलङ्कुरु विश्रान्त्या राजहंस इवार्जिनीम् ॥ २२९ ॥ इत्युक्तः प्रश्रयात् ताभिः सखा ते तत्पुरीमगात् । सान्ध्यं विधिं कर्तुमिवाम्भोधौ भानुर्मम च ॥ २२२ ॥ वरचिन्ताशल्यभृतो विशल्यकरणौषधिः । ताभिः सखा ते स्वपितुरन्तिकेऽनायि सौविदैः ॥ २२३ ॥ अभ्युत्थानं भानुवेगः कृत्वैवं तमभाषत । दिष्ट्या नः सदनं पुण्यं पुण्यराशिर्यदागमः ॥ २२४ ॥ आकृत्याऽपि ज्ञायसे त्वं महावश्यो महाभुजः । इन्दोः क्षीरार्णवाजन्म मूर्त्त्याऽपि नुमीयते ।। २२५ ॥ यत् कन्यानां त्वमुचितो वरोऽसीति मयाऽर्थ्य से । इमाः परिणयाष्टापि रलं स्वर्णे हि योज्यते ॥ २२६ ॥ एवमभ्यर्थितस्तेन तदैव विधिपूर्वकम् । ता दिश्रिय इवाष्टापि पर्यणैपीत् सखा तव ।। २२७ ॥ ताभिः समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणः । निद्रासुखं चान्वभवद् रत्नपर्यङ्कमास्थितः ॥ २२८ ॥ निद्रापराजितं चैतमसिताक्षः क्षणादपि । उत्क्षिप्यान्यत्र चिक्षेप बलिभ्योऽपि छलं बलिः ॥ २२९ ॥ पश्यन् सखा ते निद्रान्ते खं भूमिष्ठं सकङ्कणम् । एकाकिन मरण्यान्तदध्यौ किमिदमित्यथ ॥ २३० ॥ सावनटव्यन्तरेका की पूर्ववत् पुनः । अभ्रंलिहं ददशैकं प्रासादं सप्तभूमिकम् ॥ २३९ ॥ कस्यापि मायिनोऽदोऽपि मायाविलसितं किमु । इत्याभ्रंशन्नार्यपुत्रस्तं प्रासादं समासदत् ॥ २३२ ॥
*
१ बलिनम् । २ अमन्दः । 'डलम् ॥ संबृ. का. ॥ t तं च य' संबृ. ॥ ३ विषण्णः । + रघातयत् मु. ॥. त् । उपरिष्टात् कुमारस्य चिक्षे संबृ. ॥ ४ दण्डधारी वरुणो वा यमः । ॥ 'क्रे कुमारः क° सं. ॥ $ तु नोऽमृत ॥ का. ॥ ५ वायुसदृशेन । ** नाः । कुमारे व° संबृ. ॥ff वाल्यां भु° मु. ॥ 1 °ता सविद्याधरकम्य सं. ॥ ६ कामदेव जीवनतुल्याः । * कुमारस्ताभिसंवृ. ॥ ७ कमलिनीम् । ८ विनयात् । + भिः कुमारस्तत्पु संबृ. ॥ + भिः कुमारः स्व संबृ. ॥ ९ अन्तःपुरचारिभिः नपुंसकनरैः । ९ कृत्वेत्य मुम मु. ॥ नू कुमारो नि° संबृ. ॥ चित्ते किम (मित्यथ ॥ संबु. ॥ ९६ स पर्यटन्नटव्य संबृ. ॥ १० आकाशगामिनम् । ११ विचारयन् ।
#ध्यौं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org