________________
सप्तमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । परैरप्युच्यमानेन स्ववृत्तेन संताऽपि हि । महापुमांसो लजन्ते तत् खवृत्तं कथं त्रुवे ? ॥ १७३॥ भवत्वेवं तावदिति विनिश्चित्याश्वसेनमूः । इत्यादिदेश दयितां वामपार्श्वे निषेदुषीम् ॥ १७४॥
प्रिये बकुलमतिके! विद्यया वेद्यवेदिनि ! । अस्मै महेन्द्रसिंहाय तथ्यां कथय मत्कथाम् ॥ १७५ ॥ मुकुलीकुरुते नेत्राम्भोजे निद्रा तु मेऽधुना । इत्युदित्वा रतिगृहं सुषुप्सुः प्रविवेश सः॥ १७६ ॥ ततो बकुलमतिरप्यवोचत् तत्र वासरे। सखा ते वोजिना जहे युष्माकं पश्यतामपि ॥ १७७ ॥ प्रवेशितश्च महतीमटवीमतिदारुणाम् । रहाक्रीडास्थानमिव देवस्य सैमवर्तिनः ॥ १७८ ॥ गच्छन्नहि द्वितीयेऽपि सोऽश्वः पञ्चमधारया । मध्याह्ने क्षुत्पिपासातः कृष्ट्वा जिह्वामवास्थितः ॥ १७९ ॥ तस्साच्छ्वासापूर्णकण्ठात् स्तब्धपादात् तुरङ्गमात् । आर्यपुत्रोऽप्यवातारीत् प्रेपित्सोः कुट्टिमादिव ॥ १८०॥ छोटयित्वा तदुदंरबन्धिनं पट्टमायतम् । सोऽश्वादुत्तारयामास पर्याणकविके स्वयम् ॥ १८१ ॥ तुरङ्गमः स चूर्णित्वा पपात धरणीतले । सद्यश्च मुमुचे प्राणैः सहपातभयादिव ॥ १८२ ॥ 10 पिपासयाऽथार्यपुत्रः पयोऽन्वेष्टुमितस्ततः । तस्यामटव्यां बभ्राम नापश्यच्च मराविव ॥ १८३ ॥ सुकुमारतयाऽङ्गस्य दूरायांतश्रमेण च । दवदाहादटव्याश्च व्याकुलोऽभूत् सखा तव ॥ १८४ ॥ गत्वाऽदूरात् सप्तपर्णतरुमूले द्रुतं ततः । उपाविक्षन्मुकुलितेक्षणः क्षोण्यां पपात च ॥ १८५॥ तदा चामुं पुण्यवशाद् यक्षस्तद्वनदैवतम् । जलैः सिषेच सर्वाङ्ग शिशिरैरमृतोपमैः ॥ १८६ ॥ उत्थाय लब्धसंज्ञोऽसौ तद्दत्तं तत्पयः पपौ । कस्त्वं कुतो वा वारीदमित्यपृच्छच्च तं शनैः ॥ १८७ ॥ 18 यक्षोऽहमिह वास्तव्यो मानमात् त्वत्कृते पयः । इदं मया समानीतमित्याचख्यौ स यक्षराट् ॥१८८॥ आर्यपुत्रोऽवदद् भूयः संतापोऽङ्गे महानयम् । न विना मानससरोमजनादपयास्यति ॥ १८९ ॥ तवेच्छां पूरयाम्येष इत्युक्त्वा यक्षपुङ्गवः । कदलीसंपुटे क्षिप्वाऽमुं मानससरोऽनयत् ॥ १९० ॥ तत्र च स्मपयामाँसार्यपुत्रं स यथाविधि । गजराज गंजायुक्त इव शीतामलै लैः ॥ १९१ ॥ सर्वाङ्गीणं सुखस्पर्शेरपनिन्ये श्रमो जलैः । आर्यपुत्रस्य निपुणैः संवाहकजनैरिव ॥ १९२ ॥ सत्रासिताक्षो यक्षः प्राग्जन्मारिः सुहृदस्तव । हननाय समागच्छत् कृतान्त इव नूतनः ॥ १९३ ॥ अरे रे ! तिष्ठ सिंहेन क्षुधितेनेव कुञ्जरः । चिरादसि मया दृष्टः कियडूरं गमिष्यसि ? ॥ १९४ ॥ इस्यूजितं स तेर्जित्वा समुन्मूल्यैकमनीपम् । आर्यपुत्राय सोऽनार्यः प्राक्षिपद् यष्टिलीलया ॥ १९५ ॥ समापतन्तं हस्तेन निहत्यापातयद् द्रुमम् । तिं ते सखा प्रतिकारभखामिव मतङ्गजः ॥ १९६ ॥ ततो बहलधूलीभिरन्धकारमयं जगत् । अकालोत्पन्नकल्पान्तमिव यक्षश्चकार सः॥ १९७॥ स विचक्रे पिशाचाँश्च धूमधूम्रकलेवरान् । सोदरानन्धकारस्य दारुणाकारधारिणः ॥ १९८ ॥ । ज्वालाजालकरालास्यास्ते चित्या इव जङ्गमाः। अट्टहासं विमुश्चन्तः पतत्पविरवोपमम् ॥ १९९॥ पिङ्गकेशाः पिङ्गनेत्राः संदवा इव पर्वताः । लम्बजिह्वाः कोटरान्तःस्थिताहय इव द्रुमाः ॥ २०० ।। तीक्ष्णवका महादंष्ट्रा दधानाः कत्रिका इव । अधावन्तीध्यार्यपुत्रमधिमध्विव मक्षिकाः ॥२०१॥
॥त्रिभिर्विशेषकम् ॥ प्राम्यतो विकृताकारान् रङ्गादाविव नर्तकान् । आर्यपुत्रोऽपि तान् पश्यन् न विभाय मनागपि ॥२०२॥
सत्येनापि । * ° रेकुमारो वा का.॥ २ अश्वेन । ३ यमराजस्य । ४ गतिविशेषेण । ५ प्रपतितुमिच्छोः । दरं बन्धनं का. ॥ ६ पर्याणं अश्वपृष्ठाच्छादनम् , कविका वल्गानुगता 'चोकडा' इति ख्याता। °यानश्र संवृ० का.. भ्यामाकु संवृ. ॥ ७ तन्नाम्नः सरोवरात् । त्वा तं मा संबृ. का. . * "मास कुमारं स य संवृ. ॥ हस्तिपका। तिरस्कृत्य । १० वृक्षम्। || तं कुमारप्र संबृ. ॥ ११ गजग्रहणोपाय भूतां भस्वाम्-लोहधमनीम्, 'भट्ठी' इति भाषायाम् । १२ भन्नयः। ॥ दवानलसहिताः। ताधिकुमारमधि संबृ. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org