________________
१९४
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[चतुर्थ ई उत्तरेण समीरेण हिमाद्रेरिव बन्धुना । हिमसात् क्रियमाणेषु सरसीसरिदम्बुषु ॥ १४१॥ दवाग्निनाऽप्यदायासु दह्यमानासु सर्वतः । जलान्तःपनकल्हारकैरवोत्पलपतिषु ॥ १४२ ॥ शीवार्तेषु किरातेषु दवानलमपीच्छुषु । हेमन्तमन्यतीयाय स बाढं दृढनिश्चयः॥१४३॥ ।
॥त्रिभिर्विशेषकम् ।। शीर्णेषु जानुदनेषु पुष्पपत्रेषु भूरुहाम् । छनाहिवृश्चिकेष्वजिन्यासं निःशङ्कमादधत् ॥ १४४ ॥ कर्णमर्माविद्भिरिव मर्मरैरंतिदुःश्रवैः । प्रबुद्धोत्कर्णपश्चास्यबूत्कारेश्वप्यकम्पितः ॥ १४५ ॥ प्रत्यग्रपल्लवाखादमात्रेणैवोदरम्भरिः । शिशिरं गमयामासाशिशिरो मिन्नपीडया ॥ १४६ ॥
॥त्रिभिर्विशेषकम् ॥ एवं सनत्कुमारस्यान्वेषणायाटतोष्टवीम् । एको महेन्द्रसिंहस्य जगाम परिवत्सरः ॥ १४७ ॥ तस्थामटव्यामन्येचुर्गत्वा कियदवस्थितः । दिशो विलोकयामास नैमित्तिक इधोन्मुखः ॥ १४८ ॥ ततः कारण्डवक्रौञ्चहंससारसपक्षिणाम् । क्षणादाकर्णयामास कोलाहलमनाकुलः ॥ १४९॥ मरुता पङ्कजामोदवाहिनाश्वासितश्च सः । सरः किश्चिदिहास्तीति निश्चिकायानुमानतः ॥ १५॥ आनन्दवाष्पतोयेन निश्चिन्वन् मित्रसंगमम् । सरोवरस्याभिमुखं स ययौ राजहंसवत् ॥ १५१॥ गच्छन्नग्रे च शुश्राव गीतं गान्धारबन्धुरम् । मधुरं वेणुनादं च वीणाकाणं च हारिणम् ॥ १५२ ॥ विचित्रवस्त्रनेपथ्यरमणीमध्यवर्तिनम् । मित्रं सनत्कुमारं स ददर्श प्रियदर्शनम् ॥ १५३ ॥ असौ प्रियसुहृत् किं मे माया कस्यापि कापि वा । इन्द्रजालमिदं किं वा हृदयानिर्गतोऽथ मे ।। १५४ ॥ इति सोऽचिन्तयद् यावत् तावत् कर्णरसायनम् । वैतालिकेन केनापि पठ्यमानमदोऽशृणोत् ॥ १५५ ॥ कुरुवंशसरोहंसाश्वसेनाब्धिनिशाकर! । सनत्कुमार! सौभाग्यमनोभव! चिरं जय ॥१५६ ॥
जय विद्याधरवधूदोलतालिङ्गनद्रुम! । आत्यम्भविष्णो ! वैतादयश्रेणिद्वयजयश्रिया ॥१५७ ॥ 20 एवं समाकर्ण्य सनत्कुमारस्य स दृक्पथम् । जगाम ग्रीष्मसंतप्तो जलाशयमिव द्विपः ॥ १५८ ॥
हर्षाश्रुधारया तुल्यं स पतन् पादपद्मयोः । अभ्युत्थायो त्य सनत्कुमारेणाभिषखजे ॥ १५९ ॥ उभौ होश्रु वर्षन्तौ वार्षिकाविव वारिदो । सविस्मयाँवप्रतक्यपरस्परसमागमात् ॥ १६०॥ साश्चर्वीक्ष्यमाणौ तौ विद्याधरकुमारकैः । महाासनयोरासाश्चक्राते रोमहर्षिणौ ॥ १६१॥ अनन्यदृष्टिमनसौ तावभूतां परस्परम् । योगिनाविव रूपस्थध्यानमुद्रापरायणौ ॥ १६२॥ सनत्कुमारकुमारयोगाद् दिव्यौषधादिव । तदा महेन्द्रसिंहस्य श्रमो रोग इवात्रुटत् ॥ १६३ ।। सनत्कुमारो हर्षाश्रु प्रमृज्याथ खचक्षुषोः । महेन्द्रसिंहमित्यूचे ससुधोद्गारया गिरा ॥ १६४ ॥ कथमत्र समायासीरेकाक्यासीः कथं नु वा । मामज्ञासीः कथं वाऽत्र कथं वा कालमक्षिपः ॥ १६५ ।। मद्वियोगे पितृपादाः कथं प्राणानधारयन् । कथं पितृभ्यामेकाकी प्रेषितोऽसीह दुर्गमे १ ॥ १६६ ॥ इति पृष्टः कुमारेण बाष्पगद्गदवागथ । महेन्द्रसिंहः प्राग्वृत्तमाचचक्षे यथातथम् ॥ १६७ ॥ ततः सनत्कुमारस्तं विद्याधरवधूजनैः । चतुरैः कारयामास मंजनं भोजनादि च ॥ १६८ ॥ महेन्द्रसिंहस्तदनु विसंयमेरलोचनः । सनत्कुमारमित्यूचे विनयाद् रचिताञ्जलिः ॥ १६९ ॥ वदा तेन तुरङ्गेणापहतः कियती भुवम् । तदादि मद्वियोगे च प्राप्त किमथवा त्वया ॥ १७ ॥ इयमृद्धिः कुतो वा ते प्रसीदाख्यातुमर्हसि । रहस्यभूतमेतत् ते गोपनीयं न चेन्मयि ॥ १७१ ॥ सनत्कुमार इत्युक्तश्चिन्तयामास चेतसि । आत्मकल्पे वयस्येऽस्मिन् गोपनीयं न किश्चन ॥ १७२ ॥
*षु जीर्णपणेषु जानुदनेषु भू मु०॥ १छन्नाः साश्च वृश्चिकाच येषु तेषु । । रवदु संवृ. ॥ २ पनाम: सिंहः। ३ तप्तः। शोऽवलो का० ॥ ४ मनोहरम् । ५ समम् । ६ उत्थाप्य । ७ तर्कितुमशक्यः परस्परसमागममान।
गमी। संवृ०॥ मो वेग संवृ०॥ आगतः । ९ नानम्। १. विस्मयेन प्रफुल्लनेत्रः। ११ तत्प्रभृति । १२ खखसी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org