________________
सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३.९३ चमूरुचक्रराक्रान्तमार्गच्छायावनीरुहाम् । सिंहीसखीपयःपायिसिंहरुद्धाध्वनिम्नगाम् ॥ ११६ ॥ मत्तकुञ्जरभनाध्वशाखिशाखातिदुर्गमाम् । सनत्कुमारमन्वेष्टुं स विष्वक् तामगाहत ॥ ११७॥
॥ पञ्चभिः कुलकम् ॥ विकटां कण्टकितरुश्वापदैरैवटैः स्थलैः । महाटवीं तामटतस्तस्य सैन्यं व्यशीर्यत ॥ ११८ ॥ खिन्नखिनैर्मुच्यमानो मत्रिमित्रादिकैरपि । त्यक्तसंगो मुनिरिव स एकाकी क्रमादभूत् ॥ ११९ ॥ भूयो महानिकुञ्जेषु गिरीणां कन्दरेष्वपि । पल्लीपतिरिवैकोऽपि स बभ्राम धनुर्धरः ।। १२०॥ बृंहिते वननागानां सिंहगुञ्जारवेष्वपि । सोऽधावत् सनत्कुमारवीरध्वनितशङ्कया ॥ १२१ ॥ स्वमित्रं तत्र चापश्यन्नुच्छलनिर्झरधनौ । तदायिन्यतोऽधावत् प्रेम्णो हि गतिरीदृशी ॥ १२२ ॥ नदीकरिहरीनूचे मद्वन्धो निरेष यत् । स वः पार्श्वे ततो लभ्यं सर्व ोकांशदर्शनात ॥ १२३ ।। सर्वत्रोप्रेक्ष्य सहदमुच्चैरारुह्य शाखिनः । दिशो न्यरूपयद् भूयो मार्गभ्रान्त इवाध्वगः ॥ १२४ ॥ 10 बद्धशोक इवाशोकेष्वाकुलो बकुलेष्वपि । असहः सहकारद्रुष्वमल्लो मल्लिकास्वपि ॥ १२५ ॥ न्यकारी कर्णिकारेषु पाटलः पाटलास्वपि । दूरस्थः सिन्दुवारेषु सोत्कम्पश्चम्पकेष्वपि ॥ १२६ ॥ परामुखश्च मलयानिलेष्वपि खलेष्विव । स्फुटत्कर्णः कोकिलानां पञ्चमोचारितेष्वपि ॥ १२७ ।। अशान्ततापः पीयूषरश्मेरपि हि रश्मिषु । स वसन्तमतीयाय रोरैपुत्र इवैककः ॥ १२८ ॥
॥ चतुर्भिः कलापकम् ॥ 15 कुकूलैरिव विस्तीर्णैः पादपद्मनखम्पचैः । भृज्यमानोऽकांशुतप्तैर्भूरजोभिः पदे पदे ॥ १२९॥ सद्यो निर्वाणदावाग्निभस्मदुःसंचरेऽध्वनि । पादतापमजानानोऽग्निस्तम्भमिव सूत्रयन् ॥ १३०॥ उष्णवात्याभिरनलज्वालाभिरिव भूरिभिः । वपुस्तापमगणयन् करी गिरिचरो यथा ॥ १३१ ॥ काथान् रोगीव सरितां पङ्किलान्यूमेलानि च। पिवन् पयांसि स ग्रीष्मं भ्राम्यन्नेकोऽत्यवाहयत् ॥१३२॥
॥ चतुर्भिः कलापकम् ॥ 20 रक्षोभिरिव जीमूतैरुद्यद्विद्युन्मुखाग्निभिः । अक्षोभ्यमाणहृदयो विश्वविक्षोभणैरपि ॥ १३३ ॥ अखण्डप्रसरैर्धारासारैः शितशरैरिव । विध्यमानोऽपि संनद्ध इवामुह्यन् मनागपि ॥ १३४ ॥ पदे पदे वननदीगोन्मूलितपादपाः । दुस्तरा अप्यनायासं राजहंस इवोत्तरन् ॥ १३५॥ आक्रामन् पङ्किलं मार्ग वराह इव लीलया । मित्रान्वेषी पर्यटन् स वर्षा अप्यत्यवाहयत् ॥ १३६ ॥
॥ चतुर्भिः कलापकम् ॥ 25 मूर्ध्नि चित्रातपं घोरं पादयोस्तप्तवालुकाः । सहमानोऽग्निशरावसंपुटान्तर्वसन्निव ॥ १३७ ॥ खच्छे तोये तोयजेषु हंसादिषु च पक्षिषु । अविश्रान्तमनाः क्वासि क्कासि मित्रैवमुट्टणन् ॥ १३८ ॥ मैंदगन्धिसप्तपर्णक्रुद्धधावितदन्तिनाम् । मध्येन गच्छन् दन्तीव वनान्तरसमागतः ॥ १३९ ॥ सख्येव पवमानेन प्रेययाणोऽजगन्धिना । अत्यगाच्छरदमपि स भ्रमन् शरदभ्रवत् ॥ १४० ॥
॥ चतुभिः कलापकम् ॥ 30 १ चमूरुः हरिणभेदः । २ सिंही सखीव सहचर इव तेन सह पयः पिबद्भिः सिंह रुद्धा मार्गसरितो यस्यां ताम् ॥ * °सखप संवृ० का०॥ ३ गतेः। ४ तन्मित्रमाशङ्कत इति तदाशङ्की। शङ्यान्य का० ॥ ५ यनैकांशदर्शनं तत्र सूर्व भवेदिति न्यायात् । चैत्र प्रे का॥ ६ आम्रवृक्षेषु । ७ तिरस्कर्ता। ८दीनपुत्रः। ५ तुपानलेः। नो. बग्नि संवृ०॥ १० वायूनां समूहो वात्या। | मणानि का०॥ ११ मेधैः । १२ तीक्ष्णबाणः । १३ वर्मितः। १४ चित्रा नक्षत्रं तस्य तापः। १५ कमलेषु। १६ मदो हस्तिमदस्तस्येव गन्धो यस्यैतादशेन सप्तपर्णवृक्षेण क्रुद्धा अत एव धाविताय ते दन्तिनश्च तेषाम् । १७ वायुना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org