________________
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[चतुर्थ पर्व तदा च राज्ञोऽश्वपतिः प्राहिणोत् प्रा ते हयान् । धारापञ्चकचतुरान् सर्वलक्षणलक्षितान् ॥ ८८ ॥ नाम्ना जलधिकल्लोलं कल्लोलमिव चञ्चलम् । एकं सनत्कुमारस्वाप्ययामास वाजिनम् ॥ ८९॥ त्यक्त्वा क्रीडा कुमारस्तमारुरोह तुरङ्गमम् । हस्त्यश्वे राजपुत्राणां कौतुर्क सर्वतोऽधिकम् ॥ ९ ॥
कशामुरिक्षय चकेन वैल्गां चैकेन पाणिना । आसनास्पृष्टपयोण ऊरूभ्यां प्रेरयच्च तम् ॥ ९१॥ 5 पर्यधाविष्ट वेगेन पादैः क्ष्मामस्पृशंन्निव । गच्छन् बहुतरं व्योनि सोऽश्वान् द्रष्टुं रवेरिव ॥ ९२ ॥
वल्गया चकृषे सोऽश्वः कुमारेण यथा यथा । तथा तथा विपरीतशिक्षोऽधिकमधावत ॥ ९३ ॥ सादिनां राजपुत्राणां धावतामपि मध्यतः । निर्ययौ स क्षणादश्वोऽश्वमूर्तिरिव राक्षसः ॥ ९४ ॥ पश्यतामपि भूपानामुंडूनामिव चन्द्रमाः । स आरूढकुमारोऽश्वोऽभूददृश्यः क्षणादपि ॥ ९५॥ अश्वेन सूनुमाकृष्टं नदीपूरेण पोतवत् । प्रत्यानेतुमन्वचालीदश्वसेनोऽश्वसेनया ॥ ९६ ॥ यात्यसौ यात्यसावश्वः पदान्येतानि तस्य हि । फेनलालास्तस्य चेमा यावदाख्यदिदं जनः ॥ ९७॥ तावद् वांत्योदभूचण्डा पूर्णब्रह्माण्डभस्त्रिका । अकालिकी कालरात्रिरिवान्धंकरणी दृशाम् ॥९८॥
॥ युग्मम् ।। अपटीभिरिषौकासि दिशोऽच्छाद्यन्त रेणुभिः । स्तम्भितानीव सैन्यानि नोतु पादमप्यलम् ॥ ९९ ॥
पदफेनानि चिह्नानि गच्छतस्तस्य वाजिनः । अशेषाण्यपि भग्नानि पांसुकल्लोलमालया ॥१०॥ IB न निम्नं नोन्नतं नापि स्थपुटं न दुमाद्यपि । अलक्षि पाताल इव प्रविष्टोऽभूजनोऽखिलः॥१०१ ॥
मूढोपायाः सैनिकास्ते पर्याकुल्यभवन्नथ । अब्धावम्भःपूर्यमाणयानाः सांयात्रिका इव ॥ १०२ ॥ नत्वा महेन्द्रसिंहोऽश्वसेनमेवं व्यजिज्ञपत् । देव! दैवस्य घटना दुर्घटौं पश्य खल्वियम् ॥ १०३ ॥ अन्यथा हि कुमारः क दूरदेशो हयः क्व च । तत्र चीज्ञातशीले क कुमारस्याधिरोहणम् ॥ १०४॥
कुमारस्सापहरणं तेन दुर्वाजिना के च । क्व वा वात्येयमुद्दण्डरजश्छादितपथा ॥ १०५॥ 20 पर्यन्तसामन्तमिव दैवं जित्वा तथापि हि । आनेष्याम्यहमन्विष्य स्खमित्रं स्वामिसन्निभम् ॥ १०६ ॥
कन्दरेषु गिरीन्द्राणां तुङ्गेषु शिखरेषु च । निरन्तरस्तरुस्तोमदुर्गमास्वटवीषु च ॥ १०७ ॥ रोधोरन्धेषु पातालकल्पेषु सरितामपि । निर्जलेष्वपि देशेषु विषमेष्वपरेष्वपि ॥ १०८ ॥ ममाल्पपरिवारस्य क्वचिदेकाकिनोऽपि वा । ईषत्करं चरस्येव कुमारान्वेषणं प्रभो! ॥१०९॥
देवस्यामितसैन्यस्यासम्मातो यत्र कुत्रचित् । तन्नाह ह्रस्वरथ्यायां प्रवेश इव दन्तिनः ॥ ११० ॥ 25 भूयो भूयोऽप्येवमुक्त्वा पादलग्नेन तेन तु । निवर्तितोऽश्वसेनस्तु दुःखितो नगरं ययौ ॥ १११ ॥
मितसारपरीवारो दुर्वार इव वारणः । महेन्द्रसिंहः सहसा प्रविवेश महाटवीम् ॥ ११२ ।। पाषाणैः खैङ्गिविषाणोत्क्षिप्तैर्विषमपद्धतिम् । धर्मार्त्तप्रविशत्कोडेपङ्किलीकृतपल्बलाम् ॥ ११३ ॥ प्रौढभैल्लूकहिकाभिः प्रतिशब्दितगह्वराम् । गह्वरासीनशार्दूलकृतबूत्कारदारुणाम् ॥ ११४ ।। उत्फालचित्रककुलव्याकुलैणकुलाकुलाम् । गलितश्वापदैबढिवाहसैर्वेष्टितद्रुमाम् ॥ ११५॥
.पतेः प्रामु. ॥ भृतान् ह. मु. ॥ १ धारा-अश्वस्य गतिविशेषः । २ अश्वस्य ताडनी कशा 'चाबुक' इति भाषायाम् । ३ वल्गा-'लगाम' इति भाषायाम् । ४ आसनेनोपवेशनेनास्पृष्टं पर्याणं येन सः । शन्नपि ग' का॥ ५ विपरीता शिक्षा यस्य सः। ६ अश्ववाराणाम् । ७ नक्षत्राणाम् । ८ वायुसमूहो वात्या । $लिका का मु०॥ ९ यथा गृहाणि अपटीभिः यमनिकाभिश्छाद्यन्ते तथा। १० स्थापयितुम् । समप्रदेशम् । यो निखिलो जनः। संह॥ ** °टान्यस्य ख मु. ॥ १२ अज्ञातं शीलं यस्य तस्मिन्नश्वे। 11 °मारेणाधिरोहणम् संवृ० का.॥ कवा क का०॥ १३ रोधसा तीराणां रन्ध्रेषु । $षयेव का.॥ १४ टूतस्य । सम्मतो संबृ.॥ *नः खं दु: मु.॥ १५ खड्गी गण्डकः । * तिःप्र संवृ०॥ १६ क्रोडः सूकरः। १७ भलक:-क्षः। १८ एणकूलं मृगकूलम् । बोटं वाका॥ १९ वाइसैः अजगरैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org