________________
सप्तमः सर्गः ]
त्रिषष्टिशला कापुरुषचरितमहाकाव्यम् ।
३९१
1
अस्यैव पृष्ठे विन्यस्य स्थालमत्युष्णपायसम् । भुञ्जेऽहं भ्रूभुजां नाथाकृतार्थो यामि वा ध्रुवम् ॥ ५६ ॥ राजा भागवतत्वेन प्रेत्यपद्यत तद्वचः । जिनशासनबाह्यानां विवेकः कीदृशो नृणाम् ? ॥ ५७ ॥ राजाज्ञया दत्तपृष्ठो भुञ्जानस्य द्विजन्मनः । स्थालताएं सोऽधिसेहे दवानलमिव द्विपः ॥ ५८ ॥ कर्मणः प्राक्तनस्यैव मदीयस्य फलं ह्यदः । संख्याऽनेन त्रुटत्वेतदिति चाचिन्तयश्विरम् ॥ ५९ ॥ भुक्ते तस्मिन् समुच्चरुने सासृग्मांसवसारसान् । पृष्ठात् पायसपात्री सा सपङ्केच चिंतेष्टिका ॥ ६० ॥ गोको लोकमाहूय स्वकीयं सर्वमप्यथ । अक्षमयज्जिनधर्मो जिनधर्मविचक्षणः ॥ ६१ ॥ निर्माय चैत्यपूजां च साधुपार्श्वमुपेत्य च । जिनधर्मः परित्रज्यामुपादत्त यथाविधि ॥ ६२ ॥ निर्गत्य नगराच्छैलशृङ्गं समधिरुह्य च । संन्यस्य पैक्षं पूर्वस्यां कायोत्सर्गं व्यधत सः ॥ ६३ ॥ अपरास्वपि दिक्ष्वेवं कायोत्सर्ग स निर्ममे । त्रोटिभिंत्रोट्यमानोऽपि गृध्रकङ्कादिभिः खगैः ॥ ६४ ॥ सहमानो व्यथामेवं नमस्कारपरायणः । विपद्य कल्पे सौधर्मे स इन्द्रः समजायत ।। ६५ ।। मृत्वा त्रिदण्डिकः सोऽपि ह्याभियोगेन कर्मणा । शक्रस्य वाहनमभूदैरावण इति द्विपः ॥ ६६ ॥ सोsपि पूरावणायुत्वा जीवस्त्रिदण्डिनः । भवे भ्रान्त्वाऽसिताक्षाख्यो बभूव किल यक्षराट् ॥ ६७ ॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । कुरुजाङ्गलदेशेऽभून्नगरं हस्तिनापुरम् ॥ ६८ ॥ तत्राश्वसेनोऽश्वसेनाच्छादिताव निमण्डलः । मण्डलाग्रजिताराति मण्डलोऽभून्महीपतिः || ६९ ॥ तस्मिंश्च गुणरत्नानां रोहणाचलसन्निभे । दुग्धे जलकृमिरिव न दोषकणिकाऽप्यभूत् ॥ ७० ॥ अस्याहं तृणवदिति सौभाग्यस्याभिकाङ्क्षया । असिधाराव्रतं कर्तुमिव श्रीस्तदसौ स्थिता ॥ ७१ ॥ आगष्वर्थेषु दधौ सहर्षमतिशायिनम् । व्यषीदच्च खेदित्सानुमानेन स्तोकयाचिषु ॥ ७२ ॥ अभूत् तस्य महादेवी सहदेवीति नामतः । काऽपि देवीव रूपेण महीतलमुपागता ॥ ७३ ॥ चिरं शक्रश्रियं भुक्त्वा कल्पात् पूर्णायुरादिमात् । स जीवो जिनधर्मस्य तस्याः कुक्षाववातरत् ॥ ७४ ॥ मुखे प्रविशतः स्वस्मिन् सहदेव्यपि तत्क्षणम् । कुञ्जगदीन् महास्वमाँश्चतुर्दश ददर्श सा ।। ७५ ।। समस्त सा सूनुं सर्वलक्षणलक्षितम् | अद्वैतरूपविभवं जात्यजाम्बूनदद्युतिम् ।। ७६ ॥ महोत्सवेन जगदानन्ददायिना । सनत्कुमार इत्याख्यां चक्रे तस्य महीपतिः ॥ ७७ ॥ कनकच्छेदगौराङ्गो बालो बाल इवोर्डेपः । प्रीणन् नेत्राणि लोकानां स क्रमेण व्यवर्धत ॥ ७८ ॥ अङ्कादङ्के नरेन्द्राणां संचरन् स व्यराजत । अरविन्दादरविन्दे सिंच्छद इवोच्चकैः ॥ ७९ ॥ रूपेणाप्रतिरूपेण स बालोऽपि मृगीदृशाम् । जहार दृष्टमात्रोऽपि नेत्राणि च मनांसि च ॥ ८० ॥ साङ्गानि शब्दशास्त्राणि समस्तज्ञानमातृकाः । पपौ गुरुमुखोद्गीर्णान्येष गण्डूषलीलया ॥ ८१ ॥ राज्यश्री भुवनस्तम्भान् खदोः स्तम्भानिवापरान् । स आददे शस्त्रशास्त्राण्यर्थशास्त्राणि चाभितः ॥ ८२ ॥ अन्या अपि कलाः सर्वाः कलयामास लीलया । क्रमेण वर्धमानः स कलानिधिरिवामलः ॥ ८३ ॥ स सार्धैकचत्वारिंशद्धनुरुन्नतविग्रहः । मर्त्यलोकादिव दिवं शैशवात् प्राप यौवनम् ॥ ८४ ॥ तस्याभूत् परमं मित्रं कालिन्दीसूरनन्दनः । महेन्द्रसिंह इत्याख्या ख्यातः प्रख्यातविक्रमः ॥ ८५ ॥ प्राप्ते वसन्ते सोऽन्येद्युः कालिन्दीसूनुना समम् । मकरन्दाख्यमुद्यानं कौतुकात् क्रीडितुं ययौ ॥ ८६ ॥ क्रीडाभिस्तत्र चित्राभिचिक्रीड सुहृदा समम् । सनत्कुमारो गीर्वाणकुमार इव नन्दने ॥ ८७ ॥
20
30
Jain Education International
5
For Private & Personal Use Only
10
15
१ स्वीचकार । २ अनेन मित्रेण कर्मच्छेदकरूपेण । * रसा पृ' संवृ० ॥ तेष्टका मु० ॥ ३ गृहम् । ४ अगसनं कृत्वा । ५ पार्श्वभागम् । ६ चचभिः । ७ पञ्चपरमेष्ठिनमस्कारगणनापरायणः । सोऽथ पू° का० ॥ ९ शेऽस्ति म° का० ॥ ८ मण्डलाग्रेण खङ्गेन जितं शत्रुमण्डलं येन सः । ॥ णाद्रौ कदाचन दु° संवृ० ॥ ९ तस्य खड़े । १० दातुमिच्छाया अनुमाने.. नाकपार्थिषु । ११ जाम्बूनदम् स्वर्णम् । १२ चन्द्रः । १३ हंसः । १४ गुरुमुखान्निर्गतानि । ** मुद्वितादर्श 'महेन्द्रसूरः' इति नामोपन्यस्तम्, परं प्रस्तुतवर्णने सर्वत्र 'महेन्द्रसिंह' इति उपलभ्यते, तेनात्रापि तदेवाभिर्न्यस्तम् । १५] देवकुमारः।
25
www.jainelibrary.org