________________
३९०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व नर्मणाऽपि वियोगाग्निर्माविद् युज्यते न हि । मदा तव किं नातिरावां ह्येकात्मकौ सदा ॥ २७॥ एकाकिनी किमगच्छः क्रीडासरिति कौतुकात् । क्रीडाद्रिमथवारोहः क्रीडोद्यानमथाभ्यगाः ॥२८॥ मां विना क्रीडसि कथमायाम्येष इति ब्रुवन् । तेषु तेषु प्रदेशेषु बभ्रामोन्मत्तवन्नृपः ॥२९॥
राज्ञश्च त्यक्तपानान्नवृत्तेर्गतवति व्यहे । मरणाशङ्किनोऽमात्यास्तस्या वपुरदर्शयन् ॥ ३० ॥ 5 अच्छभल्लवदैत्यन्तविसंस्थुलशिरोरुहम् । शशवच्छशरे वन्या कङ्कराकृष्टलोचनम् ॥ ३१ ॥
चर्वितोरसिजद्वन्द्वं गृधैः पिशितगृभुभिः । समाकृष्टात्रभारं च शिवाभिरॅशिवाकृति ॥ ३२ ॥ छादितं मक्षिकावृन्दैर्मधुमण्डकजालवत् । पिपीलिकाभिश्वाश्लिष्टं पातभग्नाण्डैजाण्डवत् ॥ ३३॥ पूतिगन्धि तदालोक्य सद्यो विष्णुश्रियो वपुः । विरक्तो विक्रमयशाश्चिन्तयामासिवानिति ॥ ३४ ॥
॥ चतुर्भिः कलापकम् ॥ 10 अहो! असारे संसारे सारं वस्तु न किश्चन । सारबुद्ध्या धिगेतस्यां मोहिताः स्मः कियच्चिरम् ॥३५॥
आहार्यैरेव हि गुणैर्हरिद्रारागसन्निभैः। अहो ! ह्रियन्ते नारीभिर्न कश्चित् परमार्थवित् ॥ ३६ ॥ यकृच्छकृन्मल श्लेष्ममजास्थिपरिपूरिताः । स्नायुस्यूता बही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥३७ ।। बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् ॥ ३८ ॥
स्त्रीशस्त्रेणापि चेत् कामो जगदेतजिगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः १ ॥ ३९ ॥ 15 संकल्पयोनिनाऽनेन हहा ! विश्वं विडम्बितम् । तदुत्खनामि संकल्पं मूलमस्यैव सर्वतः ॥ ४०॥
एवं विचिन्त्य संसारविरक्तः स महामनाः । सुव्रताचार्यपादान्ते गत्वा दीक्षामुपाददे ॥ ४१ ॥ चतुर्थषष्ठमासादितपोभिर्देहनिस्पृहः । आत्मानं शोषयामास करैर्जलमिवार्यमा ॥ ४२ ॥ दुस्तपं स तपस्तावा कालयोगाद् विपद्य च । सनत्कुमारकल्पेऽभूत् प्रकृष्टायुः सुरोत्तमः॥४३॥
ततोऽप्यायुःक्षये च्युत्वा पुरे रत्नपुराभिधे । अजायत श्रेष्टिसुतो जिनधर्मोऽभिधानतः ॥ ४४ ॥ 20 आवाल्यादपि श्रावकधर्म द्वादशधापि हि । मर्यादामर्णव इव सदैव परिपालयन् ॥ ४५ ॥
आराधयस्तीर्थकरान् पूजयाऽष्टप्रकारया । एषणीयादिदानेन साधूश्च प्रतिलाभयन् ॥ ४६ ॥ असाधारणवासल्यात् साधर्मिकजनानपि । प्रीणयन् बन्धुवद् दानैः कश्चित् कालमलङ्घयत् ॥४७॥
॥ त्रिभिर्विशेषकम् ॥ इतश्च नागदत्तोऽपि प्रियाविरहदुःखितः । आर्तध्यानान्मृतोऽभ्राम्यत् तिर्यग्योनिषु जन्तुषु ॥४८॥ * मवं भ्रान्त्वा चिरं सोऽथ पुरे सिंहपुराभिधे । अग्निशर्माऽभिधानेन द्विजन्मतनयोऽभवत् ॥ ४९ ॥ __कालेन च त्रिदण्डित्वं स आदाय समाययौ । पुरं रत्नपुरं तीब्रद्विमासादितपोरतः ॥५०॥
सत्र चासीत् पुरे राजा नामतो हरिवाहनः । स च भागवतोऽश्रौषीत् परिव्राजं तमागतम् ॥ ५१ ॥ राज्ञा निमत्रितस्तेन स पारणकवासरे । रोजौकस्यागतं देवाजिनधर्म ददर्श च ॥ ५२ ॥ ततः प्राग्जन्मवैरेण ऋषी रोषारुणेक्षणः । बभाषे योजितकरं नरेन्द्रं हरिवाहनम् ॥ ५३ ॥ पृष्ठेऽस्य श्रेष्ठिनो न्यस्यात्युष्णपायसभाजनम् । चेद् भोजयसि मां राजस्तदा भुञ्जेऽन्यथा न हि ।। ५४॥ पृष्ठेऽन्यपुंसो विन्यस्य स्थालं त्वां भोजयाम्यहम् । इत्युक्तो भूभुजा भूयः स क्रुद्धो मुनिरब्रवीत् ॥ ५५॥
भतिविस्तीर्णानि शिरोरुहाणि केशा यसिस्तद् वपुः । २ चर्वितस्तनयुग्मम् । ३ मांसलोलुपैः। ४ अशुमाकारम् । ५ यथा पतनेन भन्नं स्फुटितमण्डजस्याण्डं पिपीलिकाभिराश्लिष्यते तथा । * °ण्डमाण्ड मु० ॥ ६ पार्श्वस्थो मांसपिण्डो यकृत् ।
चर्मणा परिवृताः । ८ बहिर्यत् चर्म दृश्यते तदन्तर्भवेदन्तर्यम्मांसरुधिरादि चास्ति तद् बहिर्भवेदिति विपर्यासः । ९ कामदेवेन। मा बेन मु०॥ संकल्पमू' मु.॥ १० सूर्यः। 8 मारे कमु०॥ त्सल्यः सामु०॥ ** °ध्यानम् का.॥ ११ वैष्णवः। १२ राजगृहे। यति मां मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org